| YouTube Channel

एकच्छाया (ekacchAyA)

 
वाचस्पत्यम्
Sanskrit
एकच्छाया स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छायासादृश्यम् अधमर्ण्णसादृश्ये “बहवः स्युर्यदि स्वांशान्दद्युः प्रतिभुबोधनम् एकच्छायाश्रितेष्वेषु धनिकस्ययथारुचि” या० “एकच्छायाश्रितेषु प्रतिभूषु एकस्या-धमर्ण्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताःअधमर्णो यथा ऋणदानाय स्थितस्तथा दानप्रतिभुवो-ऽपि प्रत्येकं द्रव्यदानाय स्थिताः” मिता० “एकच्छा-याप्रविष्टानां दाप्यो यस्तत्र दृश्यते प्रोषिते तत्सुतोदाप्यः पित्र्यमशं मृते सति” कात्या० स्मृ० एकैव च्छायाआच्छादनरूपा यत्र तुल्यच्छादने
त्रि०
“एकच्छायंचक्रतुस्तावाकाशं शरवृष्टिभिः” भा० वि० १८७