| YouTube Channel

एकचरः (ekacaraH)

 
Apte Hindi
Hindi
एकचरः
पुं*
एकः-चरः -
"तपस्वी, संन्यासी"
E Bharati Sampat
Sanskrit
(पुं) एकः चरति एक+चर(गतौ)+अच् ‘नन्दिग्रहि०’ ३.१.१३४। १.खड्गमृगः। २.सर्पः। ‘न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्’ मनुः५.१७। (वि) एक अव सञ्चरति ३.असहायः। ४.समूहात् नष्टः। ‘अयमेकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः’ किराता०१३.३।
Wordnet
Sanskrit
Synonyms:
एकचरः, खड्गः, खड्गी, एकशृङ्गः, गण्डः, गण्डकः, गण्डाङ्गः, वनोत्साहः, तैतिलः
noun
वन्यपशुः यस्य त्वक् मृदु नास्ति।
"एकचरस्य नासिकायां शृङ्गः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
एकचरः,
पुं,
(एकश्चरति यः चर + पचाद्यच् ।)हिंस्रपशुविशेषः गण्डार इति भाषा तत्प-र्य्यायः वार्द्धीनसः गणोत्साहः गण्डकः ।इति त्रिकाण्डशेषः
(सर्पादिः यथा, मनुः १७ ।“न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्” ।“ये एकाकिनः प्रायेण चरन्ति सर्पादयम्तानेक-चरान्” इति तट्टीकायां कुल्लुकभट्टः
(त्रि, एकाकिचारी यूथभ्रष्टः यथा, “अयमेकचरो-ऽभिवर्त्तते माम्” इति किराते १३ ।“एकचरो यूथादपेतः” इति तट्टीका
)