एकचक्र (ekacakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMacdonell
Englishएकचक्र eka-cakra, one-wheeled: -vart-in, 🞄a. moving on one wheel
sole monarch: 🞄-i-tā, abst. ɴ.
-cakṣus, one-eyed (also 🞄of a needle)
-cará, living alone
solitary
🞄m. N. of Śiva
-cāriṇī, faithful wife or 🞄mistress (devoted to a single man)
-citta, 🞄one and the same thought, unanimity
thought 🞄directed to one and the same object
of one 🞄mind
thinking of one object only, absorbed
🞄thinking only of (—°): -tā, unanimity
intentness 🞄[Page57a-2] 🞄on one object only, -ī-bhū, become 🞄unanimous
-cchattra, having only one 🞄royal umbrella, ruled by a single king
-jāta, 🞄pp. begotten by the same father or parents
🞄of equal birth
-jāti, having but one birth
🞄m. Śūdra.
Apte Hindi
Hindiएकचक्रः
वि* एक-चक्रः -
एक ही पहिये वाला
एकचक्रः
वि* एक-चक्रः -
एक ही राजा द्वारा शासित
Shabdartha Kaustubha
Kannadaएकचक्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸೂರ್ಯನ ರಥ
व्युत्पत्तिः - > एकं चक्रं यस्य
प्रयोगाः - > "सप्त मुञ्चन्ति रथमेकचक्रमेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ॥"
उल्लेखाः - > ऋ०
एकचक्र
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಂದುಚಕ್ರವುಳ್ಳ
प्रयोगाः - > "अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्राप्तः प्राप्तुं रथा मे पुनरिति मनसि न्यस्तचिन्तातिभारः"
उल्लेखाः - > रत्ना० ३-५
एकचक्र
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಬ್ಬ ರಾಜನುಳ್ಳ /ಒಬ್ಬ ರಾಜನಿಂದ ಕೂಡಿದ
प्रयोगाः - > "इत्थं व्रजन् भारतमेव वर्षं कालेन यावत् गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः ॥"
उल्लेखाः - > भाग० ३-१-२०
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishMahabharata
EnglishEkacakra, an Asura. § 92 (Aṃśāvat.): I, 65, 2533 (son of Danu).--§ 130 (do.): I, 67, 2657 (mahāsuraḥ, incarnate as king Prativindhya).
पुराणम्
Englishएकचक्र / EKACAKRA. A village where the pāṇḍavas lived for some time during their exile. bhīma killed baka during their stay in a brahmin-house in the village. (See under baka).
एकचक्र / EKACAKRA. A famous demon born to Kaśyapaprajāpati of his wife danu. Demons Śaṁbara, vipracitti, namuci, pulomā, Viśruta, durjaya, ayaśśiras, aśvaśiras, ketu, vṛṣaparvā, aśvagrīva, virūpākṣa, Nikuṁbha, kapaṭa and ekapāt are brothers of ekacakra and are equally famous. (Chapter 65, Ādi Parva, M.B.).
शब्दकल्पद्रुमः
Sanskritएकचक्रं, (एकं चक्रं यस्य ।) पुरीविशेषः । तत्प-र्य्यायः । हरिगृहम् २ शुम्भपुरी ३ । इति त्रिकाण्ड-शेषः ॥
सूर्य्यरथः । त्रि, असहायचारी । यथा, ऋग्वेदे १ । १६४ । २ ।“सप्त युञ्जन्ति रथमेकचक्र-मेकोऽश्वो वहति सप्तनामा ।त्रिनाभिचक्रमजरमनर्व्वंयत्रेमा विश्वा भुवनाधितस्थुः” ॥
अत्र भाष्यकृता यद्व्याख्यातन्तदाह ।“एकचक्रमेकरथाङ्गोपेतम् । यद्यपि त्रीणिचक्राणि तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यतेरथं रंहणस्वभावं भुर्य्यस्य सम्बन्धिनं सप्तै-तत्संङ्ख्यका अश्वा युञ्जन्ति अनुबध्नन्ति वहन्त्य-होरात्रनिर्वाहाय । किं वस्तुतः सप्त नेत्याह ।एकोऽश्वः सप्तनामा । एक एव सप्ताभिधानःसप्तधा नमनप्रकारो वा एक एव वायुः सप्तरूपंधृत्वा वहतीत्यर्थः । वाष्वधीनत्वादन्तरीक्षसञ्चारस्यएकचक्रमित्युक्तम् । कीदृशन्तदित्यत आह ।त्रिनाभि बलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्र-त्रयोपेतम् । अंजरममरणधर्म्माकम् । अनर्व्वम-शिथिलं पुनस्तदेव विशेष्यते । यत्र यस्मिंश्चक्रेइमा विश्वा भुवना इमानि प्रसिद्धानि सर्व्वाणिभूतजातान्यधि आश्रित्य तस्थुस्तिष्ठन्ति । यद्वाएकचक्रमेकचारिणमसाहाय्येन सञ्चरन्तं रथ-मादित्यं सप्त युञ्जन्ति सर्पणस्वभावाः सप्तसंख्यावा रश्मयः सप्तप्रकारकार्य्या असाधारणाः पर-स्परविलक्षणाः षडृतवः एकः साधारण इत्येवं-रूपा यद्वा मासद्वयात्मकाः षट् अपरोऽधि-मासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति एतस्यकार्य्यं निर्व्वहन्तीत्यर्थः । स चैकोऽसहायोऽश्वोल्यापनशील आदित्यः सप्तनामा सप्तरसानांसन्नमयितारो रश्मयो यस्य तादृशः । सप्तर्षि-भिः स्तूयमानो वादित्यो वहति धारयति भ्रम-तीत्यर्थः । किं भूतम् । त्रिनाभि चक्रम् । त्रयोनाभिस्थानीयाः सन्ध्यासम्बद्धा वा एव ऋतवोयस्य तत्तादृशम् । के ते ग्रीष्मवर्षाहेमन्ताख्याःयद्वा भूतभविष्यद्वर्त्तमानाख्यास्त्रयः कालास्त्रिना-भयः । तद्विशिष्टं चक्रं चक्रवत् पुनः पुनःपरिभ्रममाणं संवत्सराख्यचक्रमजरममरणम् ।न हि कदाचिदपि कालो म्रियते अनादिनिधनःकालः इति स्मृतेः । अनर्व्वमप्रतिहतम् । ईदृशंसंवत्सराख्यं चक्रं नानाकालावयवोपेतमयमादित्यःपुनः पुनरावर्त्तयति संवत्सरादर्वाचीनानां तत्रै-वान्तर्भावात् युगादीनां तदावृत्तिसाध्यात् संवत्-सरस्य चक्रत्वेन रूपणम् । पुनः कीदृशं तत् । यत्रयस्मिंश्चक्रे इमा विश्वा भुवना इमानि सर्व्वाणिभूतान्यधितस्थुः आश्रित्य तिष्ठन्ति कालाधी-नत्वात् सर्व्वस्याः स्थितेः । ईदृशस्य कालस्य का-रणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञान-मोक्षाक्षरप्रशंसा च” ॥
नृपाद्वयविशिष्टम् । एक-राजविशिष्टम् । यथा, भागवते । ३ । १ । २० ।“इत्थं व्रजन् भारतमेव वर्षंकालेन यावत् गतवान् प्रभासम् ।तावच्छशास क्षितिमेकचक्रा-मेकातपत्रामजितेन पार्थः” ॥
असुरभेदः । यथा, हरिवंशे ३ । ८४ ।“एकचक्रो महाबाहुस्तारकश्च महाबलः” ।अयं हि प्रतिविन्ध्य इति नाम्ना प्रसिद्धः । यथा ।महाभारते १ । सम्भवपर्ब्बण्यंशावतरणे ६७ । २२ ।“एकचक्र इवि ख्यात आसीद्यस्तु महासुरः ।प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” ॥
स्वनामख्याता पुरी । अत्रस्थो भीमसेनोमहाबलं वकनामानमसुरं हतवान् ॥
यथा, --महाभारते । १ । अंशावतारपर्ब्बणि भारतसूत्रे ।६१ । २६-२८ ।“ते तत्र नियता कालम् कञ्चिदूषुर्नरर्षभाः ।मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥
तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।भीमसेनो महाबाहुर्व्वकं नाम महाबलम् ॥
तञ्चापि पुरुषव्याघ्रो बाहुवीर्य्येण पाण्डवः ।निहत्य तरसा वीरो नागरान् पर्य्यसान्त्वयत्” ॥
)
वाचस्पत्यम्
Sanskritएकचक्र एकं श्रेष्ठं वा चक्रं यत्र । १ हरिगृहे २ सूर्य्यरथेपु० ।३ पुरीभेदे स्त्री यत्र वकासुरस्य बधो भीमेन कृतः ।“एकचक्रोरथो यस्य” सूर्यस्तुतिः “पृथुवर्त्तुलतन्नितम्बकृन्-मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमुनिर्मित्सति मान्मथं रथम्” नैष० सूर्यरथस्यैकचक्रचा-रित्वमुकम्” । ४ असहायचरे “सूर्यरथवर्णनञ्च” ऋ०१, १६४, २ । “सप्त युञ्चन्ति रथमेकचक्रमेकोऽश्वो वहतिसप्तनामा । त्रिनाभि चक्रमजरमनर्व्वं यत्रेमा विश्वाभुवनाधितस्थुः” । व्याख्यातैषा भाष्यकृता यथा“एकचक्रमेकरथाङ्गोपेतम् । यद्यपि त्रीणि चक्राणितथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावंसृर्यस्य सम्बन्धिनं सप्तैतत्संख्यका अश्वा युञ्जन्ति अनु-बध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किं वस्तुतः सप्त नेत्याह ।एकोऽश्वः सप्तनामा । एक एव सप्ताभिधानः सप्तधा न-मनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहती-त्यर्थः वाय्वधीनत्वादन्तरिक्षसञ्चारस्य एकचक्रमित्युक्तंकीदृशं तदित्यत आह । त्रिनाभि बलयत्रयमध्यस्थि-तनाभिस्थानीयच्छिद्रत्रयोपेतम् । अजरम् अमरणधर्मा-कम् । अनर्वम् अशिथिलं पुनस्तदेव विशेष्यते । यत्रयस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणिभूतजातान्यधि आश्रित्य तस्थुः तिष्ठन्ति । यद्वा एकचक्रमे-कचारिणमसाहाय्येन सञ्चरन्तं रथमादित्यमण्डलं सप्तयुञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकार-कार्य्या असाधारणाह् परस्परविलक्षणाः षडृतवः एकः-साधारण इत्येवं रूपाः अथवा मासद्वयात्मकाः षट् अपरोऽधिमासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति । एतस्य कार्यंनिर्वहन्तीत्यर्थः । स चैकोऽसहायोऽश्वो व्यापनशील आ-दित्यः सप्तनामा सप्तरसानां सन्नमयितारोरश्मयो यस्यतादृशः । सप्त ऋषिभिः स्तूयमानो वादित्यो वहति धार-यति भ्रमयतीत्यर्थः । किं भूतं? त्रिनाभि चक्रम् । तिस्रोनाभिस्थानीया सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशंके ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्त्तमाना-ख्यास्त्रयः कालास्त्रिनाभयः । तद्विशिष्टं चक्रं चक्रवत्पुनःपुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणं नहि कदाचिदपि कालोम्रियते “अनादिनिधनः कालः” इतिस्मृतेः । अर्नवमप्रतिहतम् । ईदृशं संवत्सराख्यं चक्रंनानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्त्तयति सं-वत्सरादर्वाचीनानां तत्र वान्तर्भावात् युगादीनां तदावृत्तिसाध्यत्वात् संवत्सरस्य चक्रत्वेन रूपणम् । पुनः कीदृशंतत् । यत्र यस्मिंश्चक्र इमा विश्वा भुवना इमानि सर्वाणिभूतान्यधितस्थुः । आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्याःस्थितेः । ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञा-नेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा चेत्यनुक्रम-ण्यामुक्तम् । अयमपि मन्त्रो यास्कैन सप्त युञ्चन्ति रथ-मेकचक्रमेकचारिणमित्यादिना व्याख्यातः तदत्राप्यनु-सन्धेयम्” भा० ।भाष्येऽनुसन्धेयतयोक्तं यास्कवाक्यमुदाह्रियते “सप्त युञ्ज-न्ति रथमेकचक्रमित्यादि” श्रुतिमधिकृत्योक्तम् सप्त युञ्जन्तिरथमेकचक्रमेकचारिणम् । चक्रं चकतेर्वा चरतेर्वा क्रा-मतेर्वा । एकोऽश्वो वहति सप्तनामादित्यः सप्तास्य र-श्मयो रसानभि संनामयन्ति सप्तैनमृषयः स्तुव-न्तीति वा । इदमपीतरं नामेतस्मादेवाभिसंनामात् ।संवत्सरप्रधान उत्तरोऽर्धर्चः । त्रिनाभि चक्रं त्र्यृतुः सं-वत्सरो ग्रोष्मो वर्षा हेमन्त इति । संवत्सरः संवसन्तेऽस्मिन् भूतानि । ग्रीष्मोग्रस्यन्तेऽस्मिन्रसाः, वर्षा वर्षत्यासुपर्जन्यो हेमन्तो हिमवान् हिमं पुनर्हन्तेर्वा हिनोतेर्वा ।अजरममरणधर्माणमनर्वमप्रत्यृतमन्यस्मिन् यत्रेमानिसर्वाणि भूतान्यभि संतिष्ठन्ते तं संवत्सरं सर्वमात्राभिःस्तौति । “पञ्चारे चक्रे परिवर्त्तमानः” श्रुतिःपञ्चर्तु-तया । “पञ्चर्तवः संवत्सरस्येति” इति च ब्राह्मणं हेमन्तशिशिरयोः समासेन । “षडर आहुरर्पितमिति” श्रुतिःषडृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः ।“द्वादशारं नहि तज्जराय द्वादशप्रधयश्चक्रमेकम्” इतिश्रुतिः मासानाम् । मासा मानात् । प्रधिः प्रहितोभवति“तस्मिन्त् साकं त्रिंशता न शङ्कवोऽर्पिताः षष्टिर्न चला-चलासः” श्रुतिः । “षष्टिश्च हवै त्रोणि च शतानि संवत्-सरस्याहोरात्रा इति च” ब्राह्मणं समासेन । “सप्त-शतानि विंशतिश्च तस्थुः” श्रुतिः । “सप्त च वै शतानि विं-शतिश्च संवत्सरस्याहोरात्रा इति च” ब्राह्मणं विभागेन”५ दनोः पुत्रभेदे “चत्वारिंशद्दनोः पुत्राः” इत्युपक्रम्य“एकपादेकचक्रश्च विरूपाक्षमहोदरौ” भा० अ० ६५ ।स एव प्रतिविन्ध्यतया जातः यथाह भा० आ० ६७ ।“एकचक्र इति ख्यात आसीद् यस्त महासुरः । प्रति-विन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” भा० पुरीभेदस्तु“एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः”इत्युपक्रम्य “मात्रा सहैकचक्रायां ब्राह्मणस्य नि-वेशने । तत्राससाद क्षुधितं पुरुषादं वृकोदरः । भीम-सेनो महाबाहुर्वकं नाम महाबलम्” भा० आ० ६१ अ०उक्तः । एकमेव चक्रं सैन्यसंघो यत्र । ६ एकराजचिह्नेत्रि० । “तावत् शशास क्षितिमेकचक्रामेकातपत्रामजि-तेन पार्थः” भाग० ३, १, ६० । “एकस्यैव चक्रं सैन्यंयत्र” श्रीधरः । “वकराक्षसमिव गृहीतैकचक्राम्” काद० ।वकस्य तत्पुरीग्रहणभीमकर्त्तृकबधकथा च” भा० आ० १५७अध्यायादौ । “एकचक्रां गतास्ते तु कुन्तीपुत्राः महा-बला” इत्यादिना “भज्यमानस्य भीमेन तस्य घोरस्यरक्षस” इत्यन्तन १६३ अ० वर्णिता ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
