| YouTube Channel

एकं (ekaM)

 
Hindi
Hindi
एक
शब्दकल्पद्रुमः
Sanskrit
एकं त्रि, (एतीति इण गतौ “इण्भीकापा-शल्यतिमर्च्चिभ्यः कन्”
४३ इत्युणादिसूत्रेणकन् ।) मुख्यम् अन्यत् केवलम् इत्यमरः
(“त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः” ।इति मनौ “अजामेकां लोहितशुक्लकृष्णाम्”इति श्रुतिः
“एकातपत्रं जगतः प्रभुत्वम्” इतिरघुवंशे ४७ “ममात्र भावैकरसं मनः स्थिरम्”इति कुमारे ८२
) आदिसंख्या इति मेदिनी ।अथैकवाचकानि परमात्मा विधुः क्षितिः३ गणेशदन्तः शुक्रचक्षुः इति कविकल्प-लता
अग्निः सूर्य्यः देवराजः यमः ।इति महाभारते वनपर्ब्ब
(सर्व्वनामशब्दोऽयम् ।तथा सिद्धान्तकौमुद्यां “सर्व्वादयश्च पञ्चत्रिं-शत्” इत्युक्त्वा “त्यद्-तद्-यद् एतद्-इदम्-अदस्एक-द्वि-युष्मद्-अस्मद्-भवत्-किम्” इत्युक्तवान् ।यथा शाकुन्तले अङ्के “विश्रान्तेन भवताममाप्येकस्मिन् कर्म्मणि सहायेन भवितव्यम्” ।पुं, स्वनामख्यात ऐलवंशीयो नृपतिभेदः ।यथा, भागवते १५ ।‘श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतं जयः ।रयस्य सुतएकश्च जयस्य तनयोऽमितः’
परमेश्वरः विष्णुः यथा विष्णुसंहितायाम् ।“एको नैकः सवः कः किम्” “परमार्थतः सजा-तीयविजातीयस्वगतभेदराहित्यादेकः” इतिभाष्यम् घटे घटान्तरात् भेदः सजातीयभेदः ।घटे पटात् भेदः विजातीयभेदः घटे कपाला-देर्भेदः स्वगतभेदः
)