| YouTube Channel

ऋष्यादि (RSyAdi)

 
वाचस्पत्यम्
Sanskrit
ऋष्यादि
पु०
ऋषिरादिरस्य वैदिकमन्त्रस्यावश्यज्ञातव्येऋषिप्रभृतिपञ्चके तच्च पञ्चकं यथा “आर्षं छन्दश्च दैवत्यंविनियोगस्तथैव वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चि-ता” योगिया० ब्राह्मणेन सह आर्षादिकमित्यर्थः व्यक्त-माह एव “यस्तु जानाति तत्त्वेन आर्षं छन्दश्चदैवतम् ।विनियोगं ब्राह्मणञ्च मन्त्रार्थज्ञानकर्म एकैकस्या ऋचःसोऽभिवन्द्यीह्यतिथिवद्भवेत् देवतायाश्च सायुज्यं गच्छ-त्यत्र संशयः पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति योद्विजः अधिकारोभवेत्तस्य रहस्यादिषु कर्मसु मन्त्रेमन्त्रे प्रयत्नेन ज्ञातव्यं ब्राह्मणेन तु विज्ञानपरिपू-र्णस्तु स्वाध्यायफलमश्नुते छन्दांस्ययातयामानि भवन्तिफलदान्यपि श्रेयश्च लभते सोऽत्र धर्ममायुश्च बिन्दति ।दिव्यं वर्षसहस्रन्तु स्वस्थाने ऋषिभिः सह तिष्ठन्तितत्र तैः सार्द्धं तत्तुल्यश्चैव जायते” ऋष्यादिपदार्था-नाह एव “येन यदृषिणा दृष्टं सिद्धिः प्राप्ता येनवै मन्त्रेण, तस्य तत्प्रोक्तमृषिभावस्तदात्मकः छादना-च्छन्द इत्युक्तं वाससीबाऽथ वा कृते आत्मातु च्छादितो-देवैर्मृत्योर्भीतेस्तु वै पुरा आदित्यैर्वसुभीरुद्रैस्तेन च्छन्दइतीरितम् यस्य यस्य देवस्य उद्दिष्टा या देवता ।तदाकारं भवेत्तस्य दैवतं देवतोच्यते पुरा कल्पेससुत्पन्नामन्त्राः कर्मार्थमेव अनेनेदं तु कर्त्तव्यंविनियोगः उच्यते निरुक्तं यस्य मन्त्रस्य समुत्-पत्तिः प्रयोजनम् प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं त्वभि-धीयते एवं पञ्चविधं प्रोक्तं जपकालेष्वनुस्मरेत् होमेवान्तर्जले योगे स्वाध्याये याजने तथा”