| YouTube Channel

ऋष्यशृङ्गः (RSyazRGgaH)

 
Apte Hindi
Hindi
ऋष्यशृङ्गः
पुं*
ऋष्यः-शृङ्गः -
एक मुनि का नाम
E Bharati Sampat
Sanskrit
(पुं) ऋष्यस्य मृगस्य शृङ्गमिव शृङ्गमस्य विभाण्डकहरिणोः जातःरोमपादमहाराज्ञः पुत्री शान्तादेव्याः पतिः ऋष्यशृङ्गमहर्षिः।
Wordnet
Sanskrit
Synonyms:
ऋष्यशृङ्गः
noun
पौराणिकः ऋषिविशेषः।
"ऋष्यशृङ्गः विभाण्डकस्य पुत्रः आसीत्।"
Synonyms:
ऋष्यशृङ्गः
noun
पुरुषस्य नामविशेषः
"ऋष्यशृङ्गः ग्रामं गच्छति"
शब्दकल्पद्रुमः
Sanskrit
ऋष्यशृङ्गः,
पुं,
(ऋष्यस्य मृगस्य शृङ्गमिव शृङ्ग-मस्य ।) मुनिविशेषः तु विभाण्डकसुतः ।तस्य भार्य्या लोमपादराजकन्या शान्ता इतिरामायणम्
(“मान्यो मुनिः स्वां पुरमृष्यशृङ्गः” ।इति भट्टिः १०
अस्य जन्मनः प्रभृतिविवरणमुच्यते ।आसीत्पुरा महातेजास्तपस्विसत्तमः काश्यपोविभाण्डको नाम ऋषिः महाह्रदं समा-साद्य दीर्घकालं तपसि स्थितः एकदाप्सरस-मुर्व्वशीं दृष्ट्वा चलितचित्तस्यास्य रेतः अप्सु प्रच-स्कन्द ततः काचित् मृगी तृषिता तोयेन सहतत्पीत्वा गर्भिणी अभवत् इत्यं हि मृगी पुराकाचित् देवकन्यासीत् शापवशात् मृगरूप-धारिणी वने विचरन्ती स्थिता अथामोघत्वात्ब्रह्मरेतसस्तस्यां मृग्यामेकः पुत्त्रः समभवत् मृ-गीगर्भजातत्वादस्य शिरसि शृङ्गमजायत तेनास्यऋष्यशृङ्ग इति नाम समभवत् अनेन हिपितुरन्यः कोऽपि मानुषो दृष्टपूर्व्वस्तस्माद-नन्यविषयं अस्य मनः सदा ब्रह्मचर्य्ये एवाभवत् ।एतस्मिन्नेव काले दशरथस्य बन्धुर्लोमपाद इतिख्यातोऽङ्गानामीश्वरः समभवत् तेन कामात्ब्राह्मणस्य मिथ्याकृतम् अस्मात् सर्व्वे ब्राह्मणास्तंपरितत्यजुः प्रणष्टयज्ञस्यास्य राज्ये ववर्ष शत-क्रतुः अतः क्लिष्टचित्तः राजा ब्राह्मणान्सन्तोषयित्वा कञ्चिदुपायं पर्य्यपृच्छत् तेन पृष्टास्तेब्राह्मणा यज्ञार्थं ऋष्यशृङ्गमानेतुं उपदिदिशुः ।अथ राजा दुष्करत्वादस्य कार्य्यस्य ऋष्य-शृङ्गमानेतुं शापाद्यभीताभिर्वाराङ्गनाभिर्यत्नमक-रोत् अथ रूपयौवनसम्पन्नाः काश्चित् वारा-ङ्गना बहूनि उपायनद्रव्याणि गृहीत्वा जलपथेनतं तपोधनम् लोभयित्वानेतुं प्रतस्थिरे अथ ताःकाश्यपस्याश्रमं समासाद्य व्याजकृताश्रमां नावम-दूरे निबध्य तत्रोत्तस्थुः अथ कदाचित् तासांकाचित् कुशला ऋषेः सुतं तं दृष्ट्वा वाग्भङ्ग्यामोहयित्वा विचित्राणि माल्यानि वासांसि चदत्त्वा पेयानि पाययित्वा तेन सह चिक्रीडप्रजहास एतादृशेन विविधोपायेन तं प्राप-यित्वा कामवशतां अग्निहोत्रस्योपदेशं कृत्वा चस्वस्थानमाजगाम गतायाञ्च तस्यां मदनेन मत्तोविचेतनश्चाभवदृष्यशृङ्गः अथ विभाण्डकस्तपसःप्रतिनिवृत्य स्वसुतं तथाविधं दृष्ट्वा प्रबोधयामास ।प्रबोध्य तपस्यार्थं प्रस्थिते तस्मिन् पुनः साऋषिरूपधारिणी वेश्या तं विभाण्डकसुतं प्रलोभ्यनाव्याश्रममानीय द्रुततरं लोमपादराज्यमायता ।अथ राजा ते प्राप्य विभाण्डकसुतं प्रहृष्ट-मना अन्तःपुरे निवेशयामास प्रविष्टे तस्मिन्तपोधने समस्तराज्यं प्रवृष्टं जलेनापूर्य्यमाणमभ-वत् एवं लोमपादः परिपूर्णकामः तपोधनाग्र-गण्यात् विभाण्डकात् शापमुक्तिमिच्छन् स्वमित्रस्यदशरथस्य सुतां शान्तां ऋष्यशृङ्गाय प्रददौ ।अथ विभाण्डको मुनिः तपसः प्रतिनिवृत्तः सुत-मनवलोक्य ध्यानधिया सर्व्वमवगम्य क्रुधा ज्वल-न्निव लोमपादराज्यं आजगाम आगते चतस्मिन् विभीतैः सर्व्वैः ऋष्यशृङ्गस्य राज्यमिद-मिति आचख्ये पूजितश्च तेन राजषिणा दिविइन्द्रमिव पुत्त्रं शचीमिव शान्तां स्नुषाञ्चावलोक्यग्रामांश्च घोषांश्च सुतस्य इत्यवगम्य शान्तकोपःस्वाश्रमं प्रति प्रययौ अथ ऋष्यशृङ्गः शान्तयासह तस्मिन् राज्ये सुखमतिचिरमवसत्
अथ गच्छति काले सूर्य्यवंशावतंसो राजादशरथः अनपत्यतया क्लिश्यमानहृदयो निजगुरुंवशिष्ठदेवं पुत्त्रलाभोपायं प्रप्रच्छ एवमुक्तस्तेनऋषिप्रवरो वशिष्ठः लोमपादराज्यात् ऋष्यशृङ्गंतपोधनं समानीय पुत्त्रेष्टिं कर्तुं समादिशत् ।अथासौ राजा एवमभिहितः स्वजामातरममुंऋष्यशृङ्गमानेतुं यत्नमकरोत् तत आगतेनतेन क्रियमाणे यज्ञे दैवश्चरुर्वह्निमध्यादुदतिष्ठत् ।एतच्चरुभक्षणात् नारायणावतारस्वरूपा रामा-दयश्चत्वारो दशरथस्य तनया जाताः अयंविभाण्डकसुतस्तु महाप्रतापवान् यज्ञनिष्ठश्चेतिप्रसिद्धः एतत्कथा महाभारते ११०अध्यायन्तथा रामायणे अध्यायञ्चारभ्यद्रष्टव्या
*
सावर्णिके मन्वन्तरे ऋषिभेदः ।यथा, मार्कण्डेये ८० ।“रामो व्यासो गालवश्च दीप्तिमान् कृपएव ।ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्”
)