| YouTube Channel

ऋषी (RSI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋष्
मूलधातुः:
ऋषी
धात्वर्थः:
गतौ
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ऋषति
अनुबन्धादिविशेषः:
ऋषिः
धातुप्रदीपः
Sanskrit
ऋषीँ ऋषी गतौ
- पूर्वोत्तरधातुसादृश्यानुरोधेन (1) पृथगयं परस्मैपदी निर्द्दिश्यते ऋषति ऋषतः आनर्ष आनृषतुः अर्षिता अर्षिषिषति ऋष्टः ऋषिः 7
वाचस्पत्यम्
Sanskrit
ऋषी स्त्री ऋषि + गौरा० स्त्रियां ङीष् ऋषिपत्न्याम्
क्षीरतरङ्गिणी
Sanskrit
ऋषीँ ऋषी गतौ
- उदात्त उदात्तेत्- ऋषति उपसर्गाद् ऋति धातौ (6191) वृद्धिरेकादेशः-उपार्षति अर्षिता स्नुवृश्चिकृत्यृषिभ्यः कित् (उ0 366)-ऋक्षः इक्-ऋषिः क्तिन् (द्र0 3394)-ऋष्टिः ऋषिवृषिभ्यां कित् (उ0 3123) ऋषभः श्वीदितो निष्ठायाम् (7214)-ऋष्टः 7
धातुवृत्तिः
Sanskrit
ऋषीँ ऋषी (अर्थः) गतौ
( ऋषति प्रार्षति ) "उपसर्गादृति'' इति वृद्धिः ( आनर्ष आनृषतुः आनृषुः आनर्षिथ आनृषिव ) अभ्यासस्योरदत्वे हलादिः शेषे "अत आदेः'' इति दीर्घः "तस्मान्नुड् द्विहल'' इति नुट् ( अर्षिता अर्षिष्यति ऋषतु आर्षत् ) "आटश्च'' इति वृद्धिः ( ऋषेत् ऋष्यात् ) मा भवानर्षीत् "नेटि'' इति वृद्धिः ( अर्षिषिषति ) परत्वाद्गुणे कृते द्वितीयस्यैकाचो द्विर्वचनं "नन्द्राः'' इति रेफस्य भवति (अर्षयति आर्षिषत् अर्षित्वा ) "न क्वा सेड्'' इत्यकित्त्वम् ( ऋष्टः ऋष्टवान् ) ईदित्त्वादनिट्त्वम् ( ऋषभः ) "ऋषिवृषिभ्यां किद्'' इत्यभच् प्रत्ययः ( आर्षभ्यो ) वत्सः "ऋषभोपानहोर्ञ्यः'' इति विकृतिवाचिन ऋषभशब्दाद्विकृत्यर्थायां प्रकृतौ ञ्यः अत्र ऋषभावस्था विकृतिः वत्सावस्था प्रकृतिः ( ऋषभतरः ) भारवहने मन्दशक्तितरनड्वान् "वत्सोक्ष'' इत्यादिना ष्टरच् अत्र तनुत्वेन भारवहनाशक्तिरुच्यते (ऋक्षः) "स्नुव्रश्चिकृत्यृषिभ्यः कित्'' इति उदात्त उदात्तेत् 7
कृदन्तरूपमाला
Sanskrit
1 {@“ऋषी गतौ”@} 2 अर्षकः-र्षिका, अर्षकः र्षिका, अर्षिषिषकः-षिका
अर्षिता-त्री, अर्षयिता-त्री, अर्षिषिषिता-त्री
3 ऋषन्- 4 न्ती-ती, अर्षयन्-न्ती, अर्षिषिषन्-न्ती
अर्षिष्यन्-न्ती-ती, अर्षयिष्यन्-न्ती-ती, अर्षिषिषिष्यन्-न्ती-ती
-- अर्षयमाणः, अर्षयिष्यमाणः
5 ऋट्-ऋड्-ऋषौ-ऋषः
-- -- 6 ऋष्टम्-ष्टः-ष्टवान्, अर्षितः-तम्, अर्षिषिषितः-तवान्
ऋषः, अर्षः, अर्षिषिषुः, अर्षिषयिषुः
अर्षितव्यम्, अर्षयितव्यम्, अर्षिषिषितव्यम्
अर्षणीयम्, अर्षणीयम्, अर्षिषिषणीयम्
7 ऋष्यम्, अर्ष्यम्, अर्षिषिष्यम्
ईषदर्षः, दुरर्षः, स्वर्षः
-- -- ऋष्यमाणः, अर्ष्यमाणः, अर्षिषिष्यमाणः
अर्षः, अर्षः, अर्षिषिषः
अर्षितुम्, अर्षयितुम्, अर्षिषिषितुम्
ऋष्टिः, अर्षणा, अर्षिषिषा, अर्षिषयिषा
अर्षणम्, अर्षणम्, अर्षिषिषणम्
अर्षित्वा, अर्षयित्वा, अर्षिषिषित्वा
समृष्य, समर्ष्य, समर्षिषिष्य
8 अर्षम् २, अर्षित्वा २, अर्षम् २, अर्षयित्वा २, अर्षिषिषम्
अर्षिषिषित्वा २। 9 ऋषिः, 10 ऋषभः।
प्रासङ्गिक्यः
01
=>
(१२९)
02
=>
(६-तुदादिः। सक। सेट्। पर।)
03
=>
[[१। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः प्रत्ययः। तस्य ङिद्वद्भावात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधः।]]
04
=>
[[आ। ‘ऋषन् अजुषत क्रमात् नगरगर्भमुद्वेजयन् अलग्नमनसः खलानवशलज्जमानाङ्गनम्।।’ धा। का। २-७२।]]
05
=>
[[२। ‘झलां जशोऽन्ते’ (८-२-३९) इति षकारस्य जश्त्वम्। चर्त्वविकल्पः।]]
06
=>
[[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः।]]
07
=>
[[४। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
08
=>
[पृष्ठम्०१३२+ २३]
09
=>
[[१। औणादिके (द। उ। १-४८) इन् प्रत्यये किद्वद्भवान्न गुणः।]]
10
=>
[[२। औणादिके (द। उ। ७-१९) अभच् प्रत्यये रूपम्। कित्त्वान्न गुणः। गोपतिः, युवा वाऽर्थः।]]