| YouTube Channel

ऋष (RSa)

 
शब्दसागरः
English
ऋष r. 1st cl. (अर्षति) To take, to receive, to choose. (ई) ऋषी r. 6th cl.
(ऋषति) To go, to approach.
Yates
English
ऋष अर्षति 1.
a. To take, choose.
Wilson
English
ऋष r. 1st cl. (अर्षति) To take, to receive, to choose. (ई)
ऋषी r. 6th cl. (ऋषति) To go, to approach.
शब्दकल्पद्रुमः
Sanskrit
ऋष, गतौ इति कविकल्पद्रुमः
(तुदां-परं-सकं-सेट् ।) ह्रस्वादिः ऋष्टः ऋषति ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ऋष गतौ बधे तुदा०
पर०
सक०
सेट् ऋषति आर्षीत् ।आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षि-ष्यत् अर्षितव्यः अर्षणीयः ऋष्यः अर्षिता ईदित् ऋष्टःऋष्टवान् ऋष्टिः “शृङ्गाभ्यां रक्ष ऋषत्यवतिम्” अथ० ९, ४, १७ अथ दाक्षणायुग्यमुपार्षति” शत० ब्रा० ५, ४, ३, “ह्रदं हित्वान्यृषन्त्यूर्म्मयः” ऋ० १, ५२, ७, “यदुदर्य्यस्य मेदस्य परिशिष्यते तद्गुदे न्यृषेत्” शत०ब्रा० २, ८, ४, “अथ पर्ष्यृषति” इत्युपक्रम्य “समं भूमिपर्यर्षणं करोति” ३, ६, १, १८ अस्य वेदे भ्वादित्वमपिदृश्यते गणव्यत्यासात् साधुः “अर्षन्त्वापस्त्वयेह प्रसूताः”ऋ० ३, ३०९ “ऋषी गतौ व्यत्ययेन शप्” भा० “तस्मा-आपोघृतमर्षन्ति सिन्धवः” १, १२५, “मही धारा-त्यन्धो अर्षति” ९, ८६, ४४ “एता अर्षन्त्यनलाभवन्ती” ४, १८, “एता स्वर्षन्ति हृद्यात् समुद्रात्”४, ५८, “शशमास्कन्दमर्षति” यजु० २३, ५५ ।अभि + आभिमुख्येन गतौ “अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मा-सु” ऋ० ४, ५८, १० “कृण्वन्ति वरिवो गवे अभ्यर्षन्तिसुष्टुतिम्” ९, ६२, ।नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे “गुहाकरिन्द्रंयाता वीर्य्येण न्यृष्टम्” ऋ० ४, १८, “न्यृष्टं नितरांप्राप्तम्” भा० “अयं निधिः सरमे अद्रिबुध्नोगोभि-रश्वेभिर्वसुभिर्न्यृष्यः” १०, १०८,