| YouTube Channel

ऋभुः (RbhuH)

 
Apte Hindi
Hindi
ऋभुः
पुं*
- अरि स्वर्गे अदितौ वा भवति इति - ऋ-भू-डु
"देवता, दिव्यता, देव"
E Bharati Sampat
Sanskrit
(पुं) अरिः स्वर्गे अदित्यां वा भवति ऋ+भू(सत्तायाम्)+डुः। वा०३.२.१८०। १.देवता ‘आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः’ अमरः। २.देवतैः पूजिता देवता ‘ऋभवो नाम तत्रान्ते देवानामपि देवताः’ भा०वन०। ३.चाक्षुषमन्वन्तरस्येकः देवतागणः। ‘आप्याः प्रभूता ऋभवः पृथुकाश्च दिवोकसः’ हरिवं०७.३२।
Wordnet
Sanskrit
Synonyms:
देवः, देवता, सुरः, अमरः, निर्जरः, त्रिदशः, सुपर्वा, सुमनाः, त्रिदिवेशः, दिवौकाः, आदितायः, दिविषत्, लेखः, अदितिनन्दनः, ऋभुः, अमर्त्यः, अमृतान्धाः, बर्हिर्मुखा, क्रतुभुक्, गीर्वाणः, वृन्दारकः, दनुजारिः, आदित्यः, विबुधः, सुचिरायुः, अस्वप्नः, अनिमिषः, दैत्यारिः, दानवारिः, शौभः, निलिम्पः, स्वाबाभुक्, दनुजद्विट्, द्युषत्, दौषत्, स्वर्गी, स्थिरः, कविः
noun
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
"अस्मिन् देवालये नैकाः देवताः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
ऋभुः,
पुं,
(ऋ स्वर्गे देवमातुरदितेर्व्वा भवति यः ।ऋ + भू + डु ।) देवता इत्यमरः
(यथा, ऋग्-वेदे २१ ।“ऋभुर्न रथ्यं नवं दधतो केतुमादिशे”
देवानामपि देवः यथा, महाभारते वनपर्ब्बणि ।“ऋभवो नाम तत्रान्ये देवानामपि देवताः ।तेषां लोकाः परतरे यान्यजन्तीह देवताः”
)चाक्षुषमन्वन्तरे देवगणभेदः यथा, --“आद्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः” ।इति हरिवंशे ३२
)