| YouTube Channel

ऋफ (Rpha)

 
शब्दसागरः
English
ऋफ r. 6th cl. (ऋफति) To injure, to kill
also रिफ.
Wilson
English
ऋफ r. 6th cl. (ऋफति) To injure, to kill
also रिफ.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋफ्
मूलधातुः:
ऋफ
धात्वर्थः:
हिंसायाम्
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ऋफति
धातुप्रदीपः
Sanskrit
ऋफँ ऋफ
मानकरूपान्तरम् - ऋन्फँ
ऋन्फ हिंसायाम्
- ऋफति आनर्फ आनृफतुः ऋम्फति ऋम्फाञ्चकार ऋम्पिफिषति ऋम्फित्वा | अर्फित्वा 35, 36
शब्दकल्पद्रुमः
Sanskrit
ऋफ, दाने श्लाघायाम् हिंसायाम् निन्दा-याम् यद्धे इति कविकल्पद्रुमः
(तुदां-परं-सकं, अकं च-सेट् ।) ऋफति जनो ददातिश्लाघते हिनस्ति निन्दति युद्ध्यते वेत्यर्थः आनर्फ ।हिंसायामप्ययमित्यन्ये इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ऋफ दाने हिंसायां निन्दायां युद्धेच
सक०
श्लाघायाम् अक०तुदा०
पर०
सेट् ऋफति आर्फीत् कविकल्पद्रुमेऋफधातुस्तदर्थे पा० मते रिफधातुस्तेष्वर्थेषु ऋफधातुस्तुहिंसायामिति भेदः आनर्फ आनृफतुः
क्षीरतरङ्गिणी
Sanskrit
ऋफँ ऋफ
मानकरूपान्तरम् - ऋन्फँ
ऋन्फ हिंसायाम्
- ऋफति, ऋम्फति, शे ऋन्फादीनामुपसंख्यानाद् (द्र0 7159 वा0) अनिदिताम् (6424) इति नलोपे कृते नुम्, तृन्फादीनाम् (द्र0 7159) इत्येके 28, 29
धातुवृत्तिः
Sanskrit
ऋफँ ऋफ
मानकरूपान्तरम् - ऋन्फँ
ऋम्फ (अर्थः) हिंसायाम्
( ऋफति आनर्फ आनृफतुः ऋम्फति ऋम्फाञ्चकार अर्पिफिषति ) सनि गुणे "न न्द्राः'' इति रेफवर्जितस्य द्विर्वचनम् (ऋम्पिफिषति) इत्यात्राप्यनुस्वारसवर्णयोरसिद्धत्वान्नकारवर्जितस्य द्विर्वचनम् (अर्फित्वा ऋम्फित्वा) इत्यादि पूर्ववत् 35-36
कृदन्तरूपमाला
Sanskrit
1 {@“ऋफ हिंसायाम्”@} 2 अर्फकः-र्फिका, अर्फकः-र्फिका, अर्पिफिषकः-षिका
अर्फिता-त्री, अर्फयिता-त्री, अर्पिफिषिता-त्री
3 ऋफन्- 4 न्ती-ती, अर्फयन्-न्ती, अर्पिफिषन्-न्ती
अर्फिष्यन्-न्ती-ती, अर्फयिष्यन्-न्ती-ती, अर्पिफिषिष्यन्-न्ती-ती
-- अर्फयमाणः, अर्फयिष्यमाणः
ऋप्-ऋफौ-ऋफः
-- -- ऋफितम्-तः, अर्फितम्-तः, अर्पिफिषितः-तवान्
ऋफः, अर्फः, अर्पिफिषुः, अर्पिफयिषुः
अर्फितव्यम्, अर्फयितव्यम्, अर्पिफिषितव्यम्
अर्फणीयम्, अर्फणीयम्, अर्पिफिषणीयम्
5 ऋफ्यम्, अर्फ्यम्, अर्पिफिष्यम्
ईषदर्फः, दुरर्फः, स्वर्फः
-- -- ऋफ्यमाणः, अर्फ्यमाणः, अर्पिफिष्यमाणः
अर्फः, अर्फः, अर्पिफिषः
अर्फितुम्, अर्फयितुम्, अर्पिफिषितुम्
ऋप्तिः, अर्फणा, अर्पिफिषा, अर्पिफयिषा
अर्फणम्, अर्फणम्, अर्पिफिषणम्
अर्फित्वा, अर्फयित्वा, अर्पिफिषित्वा
समृफ्य, समर्फ्य, समर्पिफिष्य
6 अर्फम् २, अर्फित्वा २, अर्फम् २, अर्फयित्वा २, अर्पिफिषम्
अर्पिफिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२८)
02
=>
(६-तुदादिः-१३१५। सक। सेट्। पर।)
03
=>
[[१। ‘सार्वधातुकमपित्’ (१-२-४) इति शप्रत्ययस्य ङिद्वद्भावातिदेशात्, ‘क्ङिति च’ (१-१-५) इति गुणनिषेधः। ‘आच्छीनद्योः--’ (७-१-८०) इति नुम् विकल्पेन।]]
04
=>
[[आ। ‘युद्धेषूद्दृपिता हितेष्वदृफिता यस्मिन् ऋफन्ती सुरान् ऋम्फार्हा पृतना स्थिता सुगुफितैर्माल्यैः कचान् गुम्फती।।’ धा। का। २-७४।]]
05
=>
[[२। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
06
=>
[पृष्ठम्०१३१+ २४]