| YouTube Channel

ऋधु (Rdhu)

 
Shabdartha Kaustubha
Kannada
ऋधु - वृद्धौ (दिव० पर० अक० से०) ऋध्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಅಭಿವೃದ್ಧಿ ಹೊಂದು
ऋधु - वृद्धौ (दिव० पर० अक० से०) ऋध्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಸಿದ್ಧಿ /ಪಡೆ
ऋधु - वृद्धौ (स्वादि पर० अक० से०) ऋध्नोति
पदविभागः - > धातुः
कन्नडार्थः - > ಅಭಿವೃದ್ಧಿ ಹೊಂದು /ಬೆಳವಣಿಗೆ ಹೊಂದು
प्रयोगाः - > "नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते"
उल्लेखाः - > मनु० ९-३२२
ऋधु - वृद्धौ (स्वादि पर० अक० से०) ऋध्नोति
पदविभागः - > धातुः
कन्नडार्थः - > ತೃಪ್ತಿಪಡಿಸು /ಸಂತೋಷಪಡಿಸು
प्रयोगाः - > "सोऽहं प्राग्भवतैव भूतजननीमृध्नोमि खङ्गाहतिव्यस्तस्कन्धकबन्धरन्ध्ररुधिरप्राग्भारनिष्यन्दिना"
उल्लेखाः - > मालती० ५-२९
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋध्
मूलधातुः:
ऋधु
धात्वर्थः:
वृद्धौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ऋध्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
ऋध्
मूलधातुः:
ऋधु
धात्वर्थः:
वृद्धौ
गणः:
स्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ऋध्नोति
धातुप्रदीपः
Sanskrit
ऋधुँ ऋधु वृद्धौ
- ऋध्यति आनर्द्ध आनृधतुः अर्धिता आर्द्धत् अर्दिधिषति ईर्त्सति अर्धित्वा ऋद्ध्वा ऋद्धम् समृद्धिः ऋध्नोतीति सौवादिकस्य 138
ऋधुँ ऋधु वृद्धौ
- ऋध्नोति आनर्द्ध आनृधतुः 26
क्षीरतरङ्गिणी
Sanskrit
ऋधुँ ऋधु वृद्धौ
- ऋध्यति आर्धत्, मा ऋधत् आनृधुः सनीवन्तर्ध (7247) इति वेट्-अर्दिधिषति ईर्त्सति, आप्ज्ञप्यृधामीत् (7455)-अर्धयति, आर्दिधत् ऋदुपधाच्च (31110) इति क्यप्-ऋध्यः घञ् (द्र0 3318, 19)-अर्धः ऋद्ध्वा अर्धित्वा, क्त्वा सेट् (1218), ऋद्धः स्वादौ (528) ऋध्नोति 133
ऋधुँ ऋधु वृद्धौ
- ऋध्नोति दिवादौ (4135) ऋध्यति तत्रैव ग्रहणान्युक्तानि 24
धातुवृत्तिः
Sanskrit
ऋधुँ ऋधु (अर्थः) वृद्धौ
( ऋध्यति आनर्ध, आनृधतुः, आनर्धिथ, आनृधिव ) "अत आदेः'' इत्यभ्यासादेर्दीर्घः "तस्मान्नुड् द्विहलः'' इति नुडागमः किद्वचनेषु गुणाभावेऽपि ऋकारस्थरश्रुत्याश्रयणेन द्विहल्त्वम् ( अर्धिता अर्धिष्यति ऋध्यतु आर्ध्यत् ऋध्येत् ऋध्यात् मा भवानृधत् अर्दिधिषति, इर्त्सति, ) "सनीवन्त'' इतीड्विकल्पः तत्रेटि गुणेऽजादित्वात् "नन्द्रा'' इति रेफवर्जितस्य द्वितीयस्यैकाचो द्विर्वचनम् अनिटि तु "आप्ज्ञपृधाम्'' इतीत्वे रपरत्वे "अत्र लोप'' इत्यभ्यासलोपः "खरि च'' इति चर्त्वं धकारस्य (अर्धयति आर्दिधत्) णिलोपस्य स्थानिवत्त्वाद्धिशब्दस्य द्विर्वचनम् (ऋद्ध्वा, अर्धित्वा)उदित्त्वादिड्विकल्पः "न क्त्वा सेट्'' इत्यकित्त्वम् (ऋद्धः ऋध्यम् ) "ऋदुपधात्'' इति क्यप् अयं स्वादौ 136
ऋधुँ ऋधु (अर्थः) वृद्धौ
(ऋध्नोति ऋध्नोतु आर्ध्नोत् ऋध्नुयात् ) शेषमृध्यतिवत् अयमकर्मकः सकर्मकश्च अत्र तृप प्रीणनइत्यात्रेयादयः पठन्ति स्तृप्नोतीत्याद्युदाहरन्ति अमुंन्यासकारादयो नेच्छन्ति यदाहुः---क्षुभ्नादिषु तृप्नोतीति व्यत्ययेन श्नुरिति तृप्यतिदृप्यती सृपिमित्यनिट्कारिकासु श्यना निर्द्देशस्य व्यावर्त्यत्वे तुदादीयौ तृपिदृपी, तावुदात्ताविति वृत्तिकारेणाभिधानात्सोऽप्यमुं नेच्छतीति प्रतीयते पुरुषकारेऽप्येवं प्रतिपादितम् 25
कृदन्तरूपमाला
Sanskrit
1 {@“ऋधु वृद्धौ”@} 2 ‘ऋध्नोतीति भवेद् वृद्धावृध्यतीत्यत्र तु श्यनि।’ 3 इति देवः।
अर्धकः-र्धिका, अर्धकः-र्धिका, अर्दिधिषकः-षिका, 4 ईर्त्सकः-र्त्सिका
अर्घिता-त्री, अर्घयिता-त्री, अर्दिधिषिता-त्री, ईर्त्सिता-त्री
ऋध्यन्-न्ती, अर्धयन्-न्ती, अर्दिधिषन्-न्ती, ईर्त्सन्-न्ती
अर्धिष्यन्-न्ती-ती, अर्धयिष्यन्-न्ती-ती, अर्दिधिषिष्यन्-न्ती-ती, ईर्त्सिष्यन्-न्ती
-- अर्धयमानः, अर्धयिष्यमाणः
-- ऋत्-ऋध्-ऋधौ-ऋधः
-- -- -- 5 ऋद्धम्-द्धः-द्धवान्, अर्धितः-तं, अर्दिधिषितः-ईर्त्सितः-तवान्
6 7 ऋधः, अर्धः, 8 अर्दिधिषुः, 9 ईर्त्सुः, अर्दिधयिषुः
अर्धितव्यम्, अर्धंयितव्यम्, अर्दिधिषितव्यम्, ईर्त्सितव्यम्
अर्धनीयम्, अर्धनीयम्, अर्दिधिषणीयम्, ईर्त्सनीयम्
10 ऋद्ध्यम्, अर्ध्यम्, अर्दिधिष्यम्, ईर्त्स्यम्
ईषदर्धः, दुरर्धः, स्वर्धः
-- -- ऋध्यमानः, अर्ध्यमानः, अर्दिधिष्यमाणः, ईर्त्स्यमानः
अर्धः, अर्धः, अर्दिधिषः, ईर्त्सः
अर्धितुम्, अर्धयितुम्, अर्दिधिषितुम्, ईर्त्सितुम्
11 ऋद्धिः, अर्धना, अर्दिधिषा, ईर्त्सा, अर्दिधयिषा
अर्धनम्, अर्धनम्, अर्दिधिषणम्, ईर्त्सनम्
12 अर्धित्वा ऋद्ध्वा अर्धयित्वा, अर्दिधिषित्वा, ईर्त्सित्वा
अमृद्ध्य, समर्ध्य, अमर्दिधिष्य, समीर्त्स्य
अर्धम् २, अर्धित्वा, ऋद्ध्वा २, अर्धम् २, अर्धयित्वा २, अर्दिधिषम् २, अर्दिधिषित्वा २, ईर्त्सम्
ईर्त्सित्वा २।
प्रासङ्गिक्यः
01
=>
(१२५)
02
=>
(४-दिवादिः-१२४५। अक। सेट्। पर।)
03
=>
(श्लो-१२२)
04
=>
[[३। ‘सनीवन्तर्ध--’ (७-२-४९) इतीड्विकल्पः। ‘आप्ज्ञपृधामीत्’ (७-४-५५) इति ईत्वम्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः।]]
05
=>
[[४। उदित्त्वात्, निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इतीडभावः।]]
06
=>
[पृष्ठम्०१२८+ २४]
07
=>
[[१। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
08
=>
[[आ। ‘शस्त्रैर्दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः। अर्दिधिषुः यशः कीतिं ईर्त्सु वृक्षैरताडयत्।।’ भ। का। ९। ३२।]]
09
=>
[[आ। ‘शस्त्रैर्दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः। अर्दिधिषुः यशः कीतिं ईर्त्सु वृक्षैरताडयत्।।’ भ। का। ९। ३२।]]
10
=>
[[२। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्।]]
11
=>
[[B। ‘नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्यद्रुजं क्ष्विद्यन् ऋद्धिम् अगृघ्नवेऽपि विमृश्याक्षीयमानां ददौ।।’ धा। का। २। ६७।]]
12
=>
[[३। क्त्वायां ‘उदितो वा’ (७-३-५६) इतीड्विकल्पः। सेटः क्त्वायाः ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वं न।]]
1 {@“ऋधु वृद्धौ”@} 2 ‘ऋध्नोतीति भवेद् वृद्धौ ऋध्यतीत्यत्र तु श्यनि।’ 3 इति देवः।
अस्य धातोः पूर्वोक्त 4 दैवादिक ऋधुधातुवत् सर्वत्र रूपाणि ज्ञेयानि।
शतरि परं ऋध्नुवन्-वती, इति रूपमिति विशेषः।
स्वादित्वात् 5 ‘स्वादिभ्यः श्नुः’ 6 इति श्नुः प्रत्ययः।
श्नुप्रत्ययस्य ‘सार्वधातुकमपित्’ 7 इति ङिद्वद्भावातिदेशात् गुणो न।
उवङ्।
प्रासङ्गिक्यः
01
=>
(१२६)
02
=>
(५-स्वादिः।-१२७१। अक। सेट्। पर।)
03
=>
(श्लो। १२२)
04
=>
(१२५)
05
=>
[पृष्ठम्०१२९+ २३]
06
=>
(३-१-७३)
07
=>
(१-२-४)