ऋत्विक् (Rtvik)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishऋत्विक् - Rtvik - - priest
पुराणम्
Englishऋत्विक् / ṚTVIK. A Priest who officiates at a yāga. Those who perform yāgas like Agnisandhāna, agniṣṭoma, Pākayaña etc. are called Ṛtviks. manusmṛti, Chapter 2, Verse 143).
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
अमरकोशः
SanskritWord: ऋत्विक्
Root: ऋत्विज्
Gender: पुं
Number: all
Meaning(s):
⇒ priest
⇒ priest, sacrificial
⇒ sacrificing regularly
⇒ sacrificing at the proper time
Shloka(s):
2|7|17|2 ► आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥ (ब्रह्मवर्गः)
Synonym(s):
➠ 2|7|17|2 ⇢ ऋत्विक् (ऋत्विज्) (पुं) ⇒ priest, priest, sacrificial, sacrificing regularly, sacrificing at the proper time
➠ 2|7|17|2 ⇢ याजकः (याजक) (पुं) ⇒ royal elephant, elephant in rut, one who offers sacrifices or oblations for or to
Related word(s):
परा_अपरासंबन्धः ➡ ऋग्वेदकर्मकर्ता
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritऋत्विक्, [ज्] (ऋतौ यजतीति । ऋतु + यज् +ऋत्विगादिना क्विन्नन्तो निपातितः ।) पुरोहितः ।यथा, --“अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते” ॥
इति मानवे २ । १४३ ॥
तत्पर्य्यायः । याजकः २ ।इत्यमरः ॥
भरताः ३ कुरवः ४ वाग्यतः ५ वृक्त-वर्हिषः ६ यतश्रुचः ७ मरुतः ८ सबाधः ९ देव-यवः १० । इत्यष्टावृत्विङ्नामानि । इति वेदनि-र्घण्टौ ३ अध्यायः ॥
अयं हि नायकस्य धर्म्मसहायः । यदुक्तं साहि-त्यदर्पणे । ३ । ५१ । “ऋत्विक्पुरोधसः स्युर्ब्रह्म-विदस्तापसास्तथा धर्म्मे” ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“यज देवपूजासङ्गतिकरणदानेषु”@} 2 याजकः-जिका, याजकः-जिका, 3 यियक्षकः-क्षिका, यायजकः-जिका
4 यष्टा-यष्ट्री, याजयिता-त्री, यियक्षिता-त्री, यायजिता-त्री
यजन्-न्ती, याजयन्-न्ती, यियक्षन्-न्ती
-- यक्ष्यन्-न्ती-ती, याजयिष्यन्-न्ती-ती, यियक्षिष्यन्-न्ती-ती
-- यजमानः, याजयमानः, 5 यियक्षमाणः, यायज्यमानः
यक्ष्यमाणः, याजयिष्यमाणः, यियक्षिष्यमाणः, यायजिष्यमाणः
6 7 देवेट्-देवेड्-देवेजौ-देवेजः
-- -- 8 इष्टम्-इष्टः-इष्टवान्-इष्टी, याजितः, यियक्षितः, यायजितः-तवान्
यजः, 9 सोमयाजी-हविर्याजी 10, अग्निष्टोमयाजी, 11 यज्वा, 12 13 यजमानः, 14 ऋत्विक्, ‘त्वं यज्ञे वरुणस्य 15 अवया असि।’ 16 उपयट्, 17 साधुयाजी, याजः, यियक्षुः, 18 यायजूकः, 19 यायजः
20 यष्टव्यम्, याजयितव्यम्, यियक्षितव्यम्, यायजितव्यम्
यजनीयम्, याजनीयम्, यियक्षणीयम्, यायजनीयम्
21 याज्यम्, 22 देवयज्या, 23 याज्या, याज्यम्, यियक्ष्यम्, यायज्यम्
ईषद्यजः-दुर्यजः-सुयजः
-- -- 24 इज्यमानः, याज्यमानः, यियक्ष्यमाणः, यायज्यमानः
25 यागः-अनुयागः-प्रयागः, 26 प्रयाजः-अनुयाजः, 27 उपांशुयाजः-पत्नीसंयाजः-ऋतुयाजः-उपयाजः, 28 यज्ञः, याजः, यियक्षः, यायजः
यष्टुम्, 29 यष्टुं, याजको 30, याजयितुम्, यियक्षितुम्, यायजितुम्
31 32 इष्टिः- 33 इज्या 34, 35 तिप्रत्यये रूपमेवमिति क्षीरतरङ्गिणी।]] यष्टिः, याजना, यियक्षा, यायजा
यजनम्, याजनम्, यियक्षणम्, यायजनम्
इष्ट्वा, याजयित्वा, यियक्षित्वा, यायजित्वा
अन्विज्य, प्रयाज्य, प्रयियक्ष्य, प्रयायज्य
याजम् २, इष्ट्वा २, याजम् २, याजयित्वा २, यियक्षम् २, यियक्षित्वा २, यायजम् २
यायजित्वा २
36 एणुप्रत्यये रूपम्।
यजेणुः = याजकः, ऋत्विक्।]] यजेणुः
37 इति युच्प्रत्यये, प्रत्ययस्याननुनासिकत्वेनाना- देशाभावे च रूपमेवम्।
यज्युः = अध्वर्युः।]] यज्युः, 38 इत्यत्रन्प्रत्ययः।
इज्यन्तेऽस्मिन् देवता इति यजत्रम् = यज्ञस्थानम्।
अग्निहोत्रमिति केचित्।]] यजत्रम्, 39 इत्युसिप्रत्ययः।
यजुः = वेदः।]] यजुः।
01 (१३३५)
02 (१-भ्वादिः-१००२। सक। अनि। उभ।)
03 [[४। सन्नन्ते सर्वत्र, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः’ (८-२-३६) इति षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे, षत्वे च रूपनिष्पत्तिरिति ज्ञेयम्।]]
04 [[५। तृजादिषु, ‘व्रश्च--’ (८-२-३६) इति षत्वे, ष्टुत्वे च रूपम्। एवं तव्यदादिष्वपि प्रक्रियोह्या।]]
05 [[B। ‘यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्।’ शि। व। २। १।]]
06 [पृष्ठम्१०६५+ ३०]
07 [[१। देवान् यजतीति देवेट्। कर्मण्युपपदे, ‘क्विप् च’ (३-२-७६) इति क्विपि ‘वचिस्वपियजादीनां किति’ (६-१-१५) इति यकारस्य सम्प्रसारणे, ‘सम्प्रसार- णाच्च’ (६-१-१०८) इति पूर्वरूपे, षत्वे, जश्त्वे च रूपमेवम्।]]
08 [[२। निष्ठायाम्, यजादित्वेन सम्प्रसारणे पूर्वरूपे, षत्वे ष्टुत्वे च रूपमेवम्। ‘इष्टादि- भ्यश्च’ (५-२-८८) इतीन्प्रत्यये इष्टी इति रूपम्। एवमेव क्त्वाप्रभृतिष्वपि प्रक्रिया ज्ञेया।]]
09 [[३। ‘भूते’ (३-२-८४) इत्यधिकारे, ‘करणे यजः’ (३-२-८५) इति णिनिप्रत्यये रूपमेवम्। सोमेन इष्टवान् सोमयाजी। एवमेव अग्निष्टोमयाजी इत्यादि- सिद्धिरूह्या।]]
10 [[आ। ‘मृषाऽसि त्वं हविर्याजी राघव च्छद्मतापसः।’ भ। का। ६-१२९।]]
11 [[४। भूतार्थे, ‘सुयजोर्ङ्वनिप्’ (३-२-१०३) इति ङ्वनिप्प्रत्यये प्रथमैकवचने उपधादीर्घे नकारलोपे च यज्वा इति रूपम्।]]
12 [[B। ‘यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः।।’ भ। का। ५-३७।]]
13 [[५। तच्छीलादिषु कर्तृषु ‘पूङ्यजोः शानन्’ (३-२-१२८) इति शानन्प्रत्ययः। शित्त्वात् शपि, ‘आने मुक्’ (७-२-८२) इति मुगागमे यजमानः इति रूपम्। यस्त्वसकृत् यागादिकं करोति स एवमुच्यते।]]
14 [[६। ऋतौ यजते, ऋतुं यजते, ऋतुप्रयुक्तो वा यजतीत्यर्थे धातोरस्मात् ऋतुशब्द उपपदे, ‘ऋत्विक्--’ (३-२-५९) इत्यादिना क्विन्। सम्प्रसारणे, पूर्वरूपे च कृते, निपातनात्, व्रश्चादिषत्वापवादतया ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे च ऋत्विक् इति सिद्ध्यति।]]
15 [[७। ‘अवे यजः’ (३-२-७२) इति मन्त्रे ण्विन्प्रत्यये, उपधावृद्धौ ‘अवयाः श्वेतवाः पुरोडाश्च’ (८-२-६७) इति निपातनाद्रुत्वे च रूपमेवम्। छन्दस्येवायं प्रयोगः।]]
16 [[८। ‘विजुपे छन्दसि (३-२-७३) इति छन्दसि विषये उपोपपदे धातोरस्य विच्प्रत्यये षत्वे जश्त्वे च रूपमेवम्।]]
17 [[९। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिप्रत्यये रूपमेवम्।]]
18 [[१०। ‘यजजपदशां यङः’ (३-२-१६६) इति यङन्तादूकप्रत्यये, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासदीर्घे च रूपमेवम्।]]
19 [[C। ‘तं यायजूकाः सह भिक्षुमुख्यैस्तपःकृशाः शान्त्युदकुम्भहस्ताः।’ भ। का। २-२०।]]
20 [पृष्ठम्१०६६+ २८]
21 [[१। ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति कुत्वनिषेधः।]]
22 [[२। देवशब्द उपपदे छन्दसि विषये कर्मणि यत्प्रत्यये रूपमेवम्। निपातनात् स्त्रीलिङ्ग- त्वम्।]]
23 [[३। यजन्त्यनेनेति याज्या = ऋक्। बाहुलकात् करणे ण्यत्।]]
24 [[४। कर्मणि, यगन्ताच्छानचि सम्प्रसारणे पूर्वरूपे च रूपम्।]]
25 [[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे च रूपमेवम्। अनुयागः = भोजनम्, उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। प्रयागः = क्षेत्रविशेषः। अत्र सङ्गतिकरणं धातोरर्थः। नदीत्रयसङ्गति- करणं ह्यत्र देशे वदन्ति।]]
26 [[६। घञि, ‘प्रयाजानुयाजौ यज्ञाङ्गे’ (७-३-६२) इति निपातनात् यज्ञाङ्गविषये कुत्वं न। पञ्च प्रयाजाः। त्रयोऽनुयाजाः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घे अनूयाज इत्यपि भवति।]]
27 [[७। “प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्--अन्यत्राप्येवंप्रकारे कुत्वं न भवति। ‘एकादश उपयाजाः’, ‘उपांशुयाजमन्तरा यजति’, ‘अष्टौ पत्नीसंयाजा भवन्ति’ ‘ऋतुयाजैश्चरन्ति’--इत्येवमादि सिद्धं भवति।’ इति काशिका- (७-३-६२) वाक्यमिहावधेयम्। तेनैतेषां साधुत्वं बोध्यम्। ‘जाघन्या पत्नीः संयाजयन्ति’ (शतपथब्राह्मणे-३-७-६-१) इति श्रौतनिर्वचनपर्यालोचनायां तु पत्नीः संयाजयन्तीति पत्नीसंयाजः इति ण्यन्तात् ‘कर्मण्यण्’ (३-२-१) इत्यणेवात्रेति न कुत्वप्रसक्तिः। अतोऽत्रेतरेषां विषये कुत्वाभावस्योपपत्तिकल्पनेऽपि पत्नीसंयाजशब्दविषये नोपपत्तिकल्पनपरिश्रमः कार्यः इति ज्ञेयम्।]]
28 [[८। भावे, ‘यजयाच--’ (३-३-९०) इत्यादिना नङ्प्रत्यये, जकारस्य श्चुत्वे च रूपमेवम्।]]
29 [[९। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्, ण्वुल् च भवतः। यष्टुं याति--यागाय यातीत्यर्थः।]]
30 [वा याति]
31 [पृष्ठम्१०६७+ २९]
32 [[१। ‘श्रुयजीषिस्तुभ्यः--’ (वा। ३-३-९५) इति करणे क्तिन्प्रत्यये सम्प्रसारणादिके च रूपम्।]]
33 [[२। ‘व्रजयजोर्भावे क्यप्’ (३-३-९८) इति स्त्रियां भावे क्यपि, कित्त्वेन सम्प्र- सारणादिकेषु चैवं रूपम्।]]
34 [[आ। ‘निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिन कुमारः।।’ भ। का। २-३७।]]
35 [[३। बाहुलकादौणादिके [द। उ। १-७४]
36 [[४। बाहुलकादौणादिके [द। उ। १-१३३]
37 [[५। ‘यजिमनि--’ [द। उ। १-१३४]
38 [[६। ‘अमिनक्षियजि--’ [द। उ। ८-५६]
39 [[७। ‘अर्त्तिपॄवपियजि--’ [द। उ। ९-३९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
