| YouTube Channel

ऋत्-ऋतौ-ऋतः (Rt-Rtau-RtaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ऋणु गतौ”@} 2 3 अर्णकः-र्णिका, अर्णकः-र्णिका, 4 अर्णिनिषकः-षिका
अर्णिता-त्री, अर्णयिता-त्री, अर्णिनिषिता-त्री
5 अर्णुवन्-वती, अर्णयन्-न्ती, अर्णिनिषन्-न्ती
अर्णिष्यन्-न्ती-ती, अर्णयिष्यन्-न्ती-ती, अर्णिनिषिष्यन्-न्ती-ती
6 अर्णुवानः, अर्णयमानः, अर्णिनिषमाणः
अर्णिष्यमाणः, अर्णयिष्यमाणः, अर्णिनिषिष्यमाणः
7 ऋत्-ऋतौ-ऋतः
-- -- 8 ऋतम्-ऋतः-ऋतवान्, अर्णितं-तः, अर्णिनिषितः-तवान्
9 ऋणः, अर्णः, अर्णिनिषुः, अर्णिनयिषुः
अर्णितव्यम्, अर्णयितव्यम्, अर्णिनिषितव्यम्
अर्णनीयम्, अर्णनीयम्, अर्णिनिषणीयम्
10 ऋण्यम्, अर्ण्यम्, अर्णिनिष्यम्
ईषदर्णः-दुरर्णः-स्वर्णः
-- -- अर्ण्यमानः, अर्ण्यमाणः, अर्णिनिष्यमाणः
11 अर्णः, 12 स्वर्णम्, अर्णः, अर्णिनिषः
अर्णितुम्, अर्णयितुम्, अर्णिनिषितुम्
ऋतिः, अर्णना, अर्णिनिषा, अर्णिनयिषा
अर्णनम्, अर्णनम्, अर्णिनिषणम्
13 अर्णित्वा-ऋत्वा, अर्णयित्वा, अर्णिनिषित्वा
14 समृत्य, 15 प्रार्त्य, समर्ण्य, समर्णिनिष्य
अर्णम् २, अर्णित्वा २, ऋत्वा २, अर्णम् २, अर्णयित्वा २, अर्णिनिषम्
अर्णिनिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२३)
02
=>
(८-तनादिः-१४६७। सक। सेट्। उभ।)
03
=>
[[१। ‘पुगन्तलघूपधस्य--’ (७-३-८६) इति गुणः।]]
04
=>
[[२। धातुरयं नकारान्तः, णत्वं तु लाक्षणिकम्। अतः ‘नि’ शब्दस्यैव ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। पूर्वखण्डे रेफात् परत्वात् णत्वम्, उत्तरखण्डे तु नकारस्यैव श्रवणम्। ‘पूर्वत्रासिद्धमद्वित्वे’ (वा। १-१-५८) इति तु
\n\n ‘उभौ साभ्यासस्य’ (८-४-२१) इति लिङ्गात् तस्यानित्यत्वात्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। ‘तनादिकृञ्भ्य डः’ (३-१-७९) इति उः विकरणप्रत्ययः। विकरणनिमित्तके गुणे, उवङि रूपम्। आत्रेयादयस्तु ‘संज्ञापूर्वको विधिरनित्यः’ इत्यङ्गीकृत्य ‘ऋण्वन्-ण्वती’ इति गुणरहिततया रूपं साधयन्ति। तत्र भाष्यानुग्रहो नास्ति।]]
06
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसस्तृणीकृतरिपुर्धृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
07
=>
[[४। ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे तुक्।]]
08
=>
[[५। उदित्त्वात् क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायां इण्णि- षेधः। अनुनासिकलोपः। एवं क्तिनि, इडभावपक्षे क्त्वाप्रत्यये बोध्यम्।]]
09
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
10
=>
[[७। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
11
=>
[पृष्ठम्०१२५+ २३]
12
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य’ इति न्यायात् नपुंसकलिङ्गत्वम्।]]
13
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
14
=>
[[३। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् अनुनासिकलोपो नित्यः। तुक्।]]
15
=>
[[४। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिरेकादेशः।]]
1 {@“ऋतिः”@} 2 धातुपाठेऽपठितोऽपि सूत्रेऽनुवादात् धातुत्वं बोध्यम्।
घृणायां वर्तते इति केचित्।
जुगुप्सायामयं धातुरिति बहवः।
3 ऋतीयकः-यिका, अर्तकः-र्तिका, ऋतीयकः-यिका, अर्तकः-र्तिका, 4 ऋतितीयिषकः-षिका
अर्तितिषकः-षिका
ऋतीयिता-त्री अर्तिता-त्री, 5 ऋतीययिता-त्री, अर्तयिता-त्री, ऋतितीयिषिता-त्री
अर्तितिषिता-त्री
-- ऋतीययन्-न्ती, अर्तयन्-न्ती, अर्तितिषन्-न्ती
6 7 अर्तिष्यन्-न्ती-ती, ऋतीययिष्यन्-न्ती-ती, अर्तयिष्यन्-न्ती-ती, अर्तितिषिष्यन्-न्ती-ती
ऋतीयमानः, ऋतीययमानः, अर्तयमानः ऋतितीयिषमाणः
ऋतीयिष्यमाणः, ऋतीययिष्यमाणः, अर्तयिष्यमाणः, ऋतितीयिषिष्यमाणः
8 ऋतीः-ऋत्यौ-ऋत्यः, ऋत्-ऋतौ-ऋतः
-- ऋतीयितम्-तः-तवान्, ऋतितम्-तः-तवान्, ऋतीयितं-तः, अर्तितम्-तः, ऋतितीयिषितः-तवान्
अर्तितिषितः-तवान्
ऋतीयः ऋतः ऋतीयः अर्तः ऋतितीयिषुः-अर्तितिषुः
-- ऋतीयितव्यम्, अर्तितव्यम्, ऋतीययितव्यम्, अर्तयितव्यम्, ऋतितीयिषितव्यम्
अर्तितिषितव्यम्
ऋतीयनीयम्, अर्तनीयम्, 9 ऋतीयनीयम्, अर्तनीयम्, ऋतितीयिषणीयम्
अर्तितिषणीयम्
10 ऋतीय्यम्, ऋर्त्यम्, ऋतीय्यम्, अर्त्यम्, ऋतितीयिष्यम्-अर्तितिष्यम्
ऋतीय्यमानः, ऋर्त्यमानः, ऋतीय्यमानः, अर्त्यमानः, ऋतितीयिष्यमाणः
अर्तितिष्यमाणः
ईषदृतीयः-दुऋतीयः-स्वृतीयः, ईषदर्तः-दुरर्तः-स्वर्तः
ऋतीयः, अर्तः, ऋतीयः, अर्तः, ऋतितीयिषः-अर्तितिषः
ऋतीयितुम्, अर्तितुम्, ऋतीययितुम्, अर्तयितुम्, ऋतितीयिषितुम्
अर्तितिषितुम्
11 12 ऋतीया, ऋत्तिः, ऋतीयना, अर्तना, ऋतितीयिषा
अर्तितिषा
ऋतीयनम्, अर्तनम्, ऋतीयनम्, अर्तनम्, ऋतितीयिषणम्
अर्तितिषणम्
ऋतीयित्वा, 13 अर्तित्वा-ऋतित्वा, ऋतीययित्वा, अर्तयित्वा, ऋतितीयिषित्वा
अर्तितिषित्वा
समृतीय्य, समृत्य, समृतीय्य, समर्त्य, समृतितीयिष्य
समर्तितिष्य
ऋतीयम् २, ऋतीयित्वा २, अर्तम् २, अर्तित्वा २, ऋतित्वा २, ऋतीयम् २, अर्तम् २, ऋतीययित्वा २, अर्तयित्वा २, ऋतितीयिषम्
ऋतितीयिषित्वा
अर्तितिषम्
अर्तितिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२४)
02
=>
(१-भ्वादिः-१०१०-आ। अक। सेट्। आत्म।)
03
=>
[[५। ‘ऋतेरीयङ्’ (३-१-२९) इति स्वार्थे ईयङ् प्रत्ययः। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति ईयङन्तस्य धातुत्वम्। ततो ण्वुलादयः। ईयङ् प्रत्ययः ‘आयादय आर्घधातुके वा’ (३-१-३१) इति विकल्पेन भवति। ततश्च ‘अर्तकः--’ इत्यादीनि रूपाणि पक्षे बोध्यानि। एवं णिजन्तात् सन्नन्तादपि आयप्रत्ययस्य वैकल्पिकत्वं ज्ञेयम्।]]
04
=>
[[६। ईयङो ङित्त्वाल्लघूपधगुणाभावे, अजादित्वेन द्वितीयस्यैकाचः ‘ती’ शब्दस्य द्वित्वे, अभ्यासह्रस्वत्वे रूपम्। एवं सर्वत्र सन्नन्ते ज्ञेयम्।]]
05
=>
[[७। णिचः गुणायादेशयोः एवं रूपम्।]]
06
=>
[पृष्ठम्०१२६+ १६]
07
=>
[[१। ईयङभावे ‘शेषात् कर्तरि--’ (१-३-७८) इति लृटः शता।]]
08
=>
[[२। ईयङन्तात् क्विपि, अतो लोपे, वलि लोपे एवं रूपम्। ईयङभावे ‘ऋत्’ इति रूपम्।]]
09
=>
[[३। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
10
=>
[[४। ईयङन्तात् ‘अचो यत्’ (३-१-९७) इति यति द्वियकारघटितं रूपम्। ईयङभाव- पक्षे ‘ऋदुपधात्--’ (३-१-११०) इति क्यपि रूपम्।]]
11
=>
[पृष्ठम्०१२७+ १८]
12
=>
[[१। ‘अ प्रत्ययात्’ (३-३-१०२) इति ईयङन्तादकारः प्रत्ययः।]]
13
=>
[[२। ‘वञ्चिलुञ्च्यृतश्च’ (१-२-२४) इति क्त्वायाः कित्त्वविकल्पः। तेन कदाचित् गुणः, कदाचिन्न गुणः।]]