| YouTube Channel

ऋतुस्नानं (RtusnAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऋतुस्नानं,
क्ली,
(ऋतौ स्नानम् ।) रजस्वलास्त्रियाःचतुर्थाहकर्त्तव्यस्नानम् इति स्मृतिः
तत्स्ना-नानन्तरं भर्तृवदनं द्रष्टव्यं नान्यस्य भर्त्रसन्निधानेभर्त्तारं मनसि ध्यात्वा सूर्य्यं विलोकयेत् इतिकाशीखण्डम्
(“ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम् ।मृजालङ्काररहिता दर्भसंस्तरशायिनी
क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् ।पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी
चतुर्थेऽह्नि ततः स्नात्वा शुक्लमाल्याम्बरा शुचिः ।इच्छन्ती भर्तृसदृशं पुत्त्रं पश्येत् पुरः पतिम्”
इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्वम्
)