| YouTube Channel

ऋतुसेव्य (Rtusevya)

 
Monier Williams Cologne
English
ऋतु—सेव्य
mfn.
to be taken or applied at certain seasons (as particular medicines or food
&c.
),
T.
Shabdartha Kaustubha
Kannada
ऋतुसेव्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಆಯಾ ಋತುಗಳಲ್ಲಿ ಸೇವಿಸಲು ಯೋಗ್ಯವಾದ ಹಿತವಾದ ಆಹಾರ
व्युत्पत्तिः - > ऋतुभेदे सेव्यम्
वाचस्पत्यम्
Sanskrit
ऋतुसेव्य
त्रि०
ऋतुभेदे सेव्यं वैद्यकोक्तगुणयुतमाहारादि ।सुश्रुतोक्ते ऋतुभेदे सेवनीये पथ्यरूपे वस्तुभेदे तच्च सुश्रु० दर्शितंयथा “यस्मिन्यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहि-नाम् तेषु तेषु प्रदातव्याः रसास्त्वेते विजानता ।प्रक्लिन्नत्वाच्छरीराणां वर्षासु खलु देहिनाम् मन्देऽग्नौकोपमायान्ति संहर्षान्मारुतादयः तस्मात् क्लेदविशुद्ध्यर्थंदोषसंहरणाय कषायतिक्तकटुकै रसैर्युक्तमथाऽद्रवम् ।नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेब देयमन्नंनृपतये यज्जलं चोक्तमादितः तप्तावरतमम्भोवा पिबे-न्मधुसमायुतम् अह्नि मेघानिलाबिष्टेऽत्यर्थशीताम्बु स-ङ्कुले तरुणत्वाद्विदाहञ्च गच्छन्त्योषधयस्तदा मति-मांस्तन्निमित्तञ्च नैव व्यायाममाचरेत् अत्यम्बुपानाव-श्यायग्राम्यधर्मातपांस्तथा भूवाष्पपरिहारार्थं शयीत चविहायसि शीते साग्नौ निवाते गुरुप्रावरणे गृहे ।यायान्नागबधूभिश्च प्रशस्तागुरुभूषितः दिवास्वप्नमजी-र्णञ्च वर्ज्जयेत्तत्र यत्नतः” वर्षासेव्यासेव्ये ।“सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः क्षीरेक्षुविकृति-क्षौद्रशालिमुद्गादिजाङ्गलाः सलिलञ्च प्रसन्नत्वात् सर्व्वमेवतदा हितम् सरःस्वाप्लवनञ्चैव कमलोत्पलशालिषु प्रदोषेशशिनः पादाश्चन्दनञ्चानुवासनम् तिक्तस्य सर्पिषः पानै-रसृक्स्रावैश्च युक्तितः वर्षासूपचितं पित्तं हरेच्चापि विरे-चनैः नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् ।रात्रिजागरणञ्चैव मैथुनञ्चापि वर्जयेत् स्वादु शीतजलंमद्यं शुचिस्फटिकनिर्मलम् शरञ्चन्द्रांशुनिर्द्धौतमगस्त्यो-दयनिर्विषम् प्रसन्नत्वाच्च सलिलं सर्व्वमेव तदा हितम् ।सचन्दनं वा कर्पूरं वासश्चामलिनं लघु भजेच्च शारदंमाल्यं सीधोः पानञ्च युक्तितः पित्तप्रशमनं यच्च तच्चसर्व्वं समाचरेत्” शरदि सेव्यासेव्ये“हेमन्तः शीतलो रूक्षो मन्दसूर्थ्योऽनिलाकुलः ततस्तु शी-तमासाद्यः वायुस्तत्र प्रकुप्यति कोष्ठस्यः शीतसंस्पर्शादन्तः-पिण्डीकृतोऽनलः ररुमुच्छोषयत्याशु तस्मात् स्निग्धं तदाहितम् हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् ससर्पि-स्तैलमहिममशनं हितमुच्यते तीक्ष्णान्यपि पानानिपिबेदगुरुभूषितः तैलाभ्यक्तः सुखोष्णे वारिकोष्ठेऽव-गाहयेत् साङ्गारधने महति कौशेयास्तरणास्तृते शयीतशयने वापि वृते गर्भगृहोदरे स्त्रीःश्लिष्ट्वागुरुधूपाढ्याःपीनोरुजघनस्तनीः प्रकामञ्च निषेवेत मैथुनं तर्पितो नृपः ।मधुरं तिक्तकटुकमभ्लं लवणमेव अन्नपानं तिलान्माषान् शाकानि दधीनि तथेक्षुविकृतीः शा-लीन् सुगन्धांश्च नवानपि प्रसह्यानूपमांसानि क्रव्याद-बिलशायिनाम् औदकानां प्लवानाञ्च पादिनाञ्चोप-जायते मद्यानि प्रसन्नानि यच्च किञ्चिद्बलप्रदम् ।कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे” हेमन्तसेव्यादि“एष एव विधिः कार्यः शिशिरे समुदाहृतः” ।“हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् ।औष्ण्याद्वसन्ते कुपितः कुरुते गदान् बहून् ततोऽम्लमधुरस्निग्धलवणानि गुरूणि वर्जयेद्वमनादीनिकर्म्माण्यपि कारयेत् षष्टिकान्नं यवान् शोतान्मुद्गान् नीवारकोद्रवान् लावादिविष्किररसैर्दद्याद्यूषैश्चयुक्तितः पटोलनिम्बवार्त्ताकुतिक्तकैश्च हिमात्यये सेवे-तं माधवेऽरिष्टान् सीधु माध्वीकमासवान् व्यायाममञ्जनंधूमं तीक्ष्णञ्च कवलग्रहम् सुखाम्बु ना सर्वार्थान्सेवेत कुसुमागमे तीक्षणरूक्षकटुक्षारकषायं कोष्णम-द्रवम् यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् व्या-यामोऽत्र नियुद्ध्वाध्वशिलानिर्घातजो हितः उत्सादनंतथा स्नानं वनिताः काननानि सेवेत निर्हरेच्चापिहेमन्तोपचितं कफम् शिरोविरेकवमननिरूहकवलादि-भिः वर्ज्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्” वसन्तसे०“व्यायाममुष्णमायासं मैथुनञ्चातिशोषि रसां-श्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् सरांसिमरितोवापि वनानि रुचिराणि चन्दनानि परा-र्ध्यानि स्रजः सकमलोत्पलाः तालवृन्तानिलाहारां-स्तथा शीतगृहाणि घर्मकाले निषेवेत वासांसिसुलघूनि शर्कराखण्डदिग्धानि सुगन्धीनि हिमा-नि षानकानि सेवेत मन्थांश्चापि सशर्करान् ।भोजनं हितं शीतं सघृतं मधुरद्रवम् शृतेन पयसारात्रौ शर्करामधुरेण प्रत्यग्रकुसुमाकीर्णशयने हर्म्य-संस्थिते शयीत चन्दनार्द्राङ्गःस्पृश्यमानोऽनिलैः सुखैः”ग्रीष्मसेव्यादि ।“तापात्यये हिता नित्यं रसा ये गुरवस्तथा पयो-मांसरसाः कोष्णास्तैलानि घृतानि वृंहणञ्चापियत्किञ्चिदभिष्यन्दि तथैव निदाघोपचितञ्चैव प्रकु-प्यन्तं समीरणम् निहन्यादनिलघ्नेन विधिना विधि-कोविदः नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम् व्या-यामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् यवषष्टि-कगोधूमान् शालींश्चाप्यनवांस्तथा हर्भ्यमध्ये निवातेच भजेच्छष्यां मृदूत्तराम् सविषप्राणिविण्मूत्रलाला-निष्ठीवनादिभिः समाप्लुतं तदा तोयमान्तरीक्षं विषोप-मम् वायुना विषदुष्टेन प्रावृष्येण दूषितम् तद्धिसर्वोपयोगेषु तस्मित्काले विवर्जयेत् निरूहैर्वस्तिभि-श्चान्यैस्तथान्यैर्मारुताग्रहैः कुपितं शमयेद्वायुं वार्षिकं वाचरेद्विधिम् ऋतावृतौ एतेन विधिना वर्त्तते नरः ।घोरानृतुकृतान् रोगान्नाप्नोति कदाचन” प्रावृट्से०