| YouTube Channel

ऋतुमयी (RtumayI)

 
वाचस्पत्यम्
Sanskrit
ऋतुमयी
त्रि०
ऋतुप्रचुरा चितिः ऋतुः + प्राचुर्य्येमयट् ङीप् ।ऋतुप्रधाने चितिभेदे तदुपधानप्रकारः शत० ब्रा० ८, ५, २, १० उक्तः यथा “अथ उत्तरतः ग्रीष्मस्तासां प्रथमा, वर्षा द्वितीया, हेमन्तस्ततीया, हेमन्तश्चतुर्थी, वर्षाः पञ्चमीग्रीष्मः षष्ठी, ग्रीष्मः सप्तमी, वर्षा अष्टमी, हेमन्तो नवमी, यजमान एवात्र दशमी सएष यजमान एतस्यां विराज्यधि-रूढः प्रतिष्ठितः ऋतुमय्यामर्व्वाचीश्च पराचीश्चोपदधाति”