ऋतुमती (RtumatI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiऋतुमती
- ऋतु-मतुप्-ड़ीप्
रजस्वला स्त्री
Shabdartha Kaustubha
Kannadaऋतुमती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪುಷ್ಪವತಿಯಾದ ಹೆಂಗಸು /ಮೈನರೆದ ಹೆಂಗಸು /ರಜಸ್ವಲೆ
निष्पत्तिः - > "मतुप्" (५-२-९४)
व्युत्पत्तिः - > ऋतुरस्त्यस्याः
प्रयोगाः - > "त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥"
उल्लेखाः - > मनु० ९-९०
Wordnet
Sanskrit रजस्वला, ऋतुमती, पुष्पिता, ऋतुमती, कुसुमवती, उदक्या, मध्यमिका, पुष्पवती, पुष्पहासा, अवि, दृष्टपुष्पा, ब्रह्मघातिनी, म्लानाङ्गी
सा स्त्री यस्याः रजं प्रवहति।
"गर्भस्य धारणाय अक्षमा रजस्वला जनैः पीडिता।"
रजस्वला, ऋतुमती, ऋतुमति, रजवती, पुष्पवती
यस्या रजः प्रवहति।
"रजस्वला स्त्री गर्भं धारणं कर्तुं शक्यते।"
अभिधानचिन्तामणिः
Sanskritनग्ना तु कोटवी वृद्धा पलिक्न्यथ रजस्वला ॥ ५३४ ॥
पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः ।
उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ ॥
नग्ना (स्त्री), कोटवी (स्त्री), वृद्धा (स्त्री), पलिक्नी (स्त्री), रजस्वला (स्त्री), पुष्पवती (स्त्री), अधि (स्त्री), आत्रेयी (स्त्री), स्त्रीधर्मिणी (स्त्री), मलिनी (स्त्री), अवी (स्त्री), उदक्या (स्त्री), ऋतुमती (स्त्री), पुष्पहीना (स्त्री), निष्कला (स्त्री)
शब्दकल्पद्रुमः
Sanskritऋतुमती, (ऋतुरस्या अस्तीति । ऋतु + मतुप्+ ङीप् ।) ऋतुयुक्ता स्त्री । तत्पर्य्यायः । ग्ज-स्वला २ स्त्रीधर्म्मिणी ३ अवी ४ आत्रेया ५मलिनी ६ पुष्पवती ७ उदक्या ८ । इत्यमरः ।(यथा, महाभारते । १ । ३ । ८७ । “उपाध्यायानीते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाय-मृतुर्बन्ध्यो न भवति तथा क्रियताम्” ॥
ऋतुमतीकृत्यमाह ।“आर्त्तवस्रावदिवसात् त्र्यहं सा ब्रह्मचारिणी ।शयीत दर्भशय्यायां पश्यदपि पतिं न च ॥
करे शरावे पर्णेंवा हविष्यं त्र्यहमाचरेत् ।अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥
नेत्रयोरञ्जनं स्नानं दितास्वप्नं प्रधावनम् ।अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ॥
आयासं भूमिखननं प्रवातञ्च विवर्जयेत् ।ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः ।भूषिताः सुमनाः पश्येत् भर्त्तारं समलङ्कृतम् ॥
पूर्व्वं पश्येत् ऋतुस्नाता यादृशं नरमङ्गना ।तादृशं जनयेत् पुत्त्रं ततः पश्येत् पतिं प्रियम्” ॥
एतदकरणे प्रत्यवायमाह ।“अज्ञानात् वा प्रमोदाद्वा लौल्याद्वा दैवतश्च वा ।सा चेत् कुर्य्यात् निषिद्धानिगर्भदोषां स्तदाप्नुयात् ॥
एतस्या रोदनात् गर्भो भवेद्विकृतलोचनः ।नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् ॥
अनुलेपात् तथा स्नानात् दुःखशीलोऽञ्जनाददृक् ।स्वापशीलो दिवास्वापात् चञ्चलः स्यात् प्रधावनात् ॥
अत्युच्चशब्दश्रवणात् वधीरः खलु जायते ।तालुदन्तौष्ठजिह्वासु श्यावो हननतो भवेत् ॥
प्रलापी भूरिकथनात् उन्मत्तस्तु परिश्रमात् ।खलतिर्भूमिखननात् उन्मत्तो वातसेवनात्” ॥
इति ।“क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम् ।स्रस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम्” ॥
इति शरीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥
“गते पुराणे रजसि नवे चावस्थिते पुनः शुद्ध-स्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतु-मतीमाचक्ष्महे” ।इति शारीरस्थाने चतुर्थेऽध्याये चरकेणोक्तम् ॥
“पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम् ।नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥
स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् ।हर्षौत्सुक्यपराञ्चापि विद्यादृतुमतीमिति” ॥
इति शारीरस्थाने तृतीयेऽध्याये, --“ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतांकृतमङ्गलस्वस्तिवाचनां भर्त्तारं दर्शयेत् । तत्-कस्य हेतोः ।पूर्व्वं पश्येदृतुस्नाता यादृशं नरमङ्गना ।तादृशं जनयेत् पुत्त्रं भर्त्तारं दर्शयेदतः ॥
ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत् ।कर्म्मान्ते च क्रमं ह्येनमारभेत विचक्षणः” ॥
“तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमना-युष्यं पुंसां भवति । यश्च तत्राधीयते गर्भः सप्रसवमानो विमुच्यते । द्वितीयेऽप्येवं सूतिकागृहेवा । तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्व्वा भवति ।चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति । नचप्रवर्त्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति यथानद्यां प्रतिस्रोतः प्लावि द्रव्यं प्रक्षिप्तं प्रतिनिव-र्त्तते नोर्द्ध्वं गच्छति तद्वदेव द्रष्टव्यम् । तस्मान्नि-यमवतीं त्रिरात्रं परिहरेत् । अतः परं मासा-दुपेयात्” । इति च शारीरस्थाने द्वितीयेऽध्यायेसुश्रुतेनोक्तम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
