| YouTube Channel

ऋतुग्रह (Rtugraha)

 
Monier Williams Cologne
English
ऋतु—ग्रह॑
m.
a libation offered to the Ṛtus or seasons,
ŚBr.
KātyŚr.
वाचस्पत्यम्
Sanskrit
ऋतुग्रह
पु०
ऋतूनां ग्रहः पात्रभेदग्रहणं यत्र यागभेदेतत्परपाटी कात्या० ९, १२ अ० दर्शिता यथा “उपविष्टेऽ-च्छावाके” इत्युपक्रन्य “ऋतुग्रहैश्चरतः” सृ० “अच्छा-वाके सदः प्रविश्य स्वस्य धिष्ण्यस्य पश्चादुपविष्टे सत्य-ध्वर्य्युप्रतिपस्थातारौ ऋतुग्र हैश्चरतः अत्रेडाभक्षणेपत्नीयजमानाभ्यामृत्विग्भिश्चाशने कृते मार्ज्जनभागप-रिहरणवाजिनयागप्रणीताविमोकराक्षसभागभागावेक्षणभा-गप्राशनानि कर्त्तव्यानि तत ॠतुग्रहप्रचारः अथ “ऋतु-ग्रहप्रचारस्य विधिमुपदिशति” कर्कः “द्रोणकलशादुपयाम-गृहीतोऽसि मधवे त्वेति द्वादशप्रतिमन्त्रम्” सू० “ऋ-तुग्रहान् गृह्णीतः द्रोणकलशादिति नियमाथमुक्तम् ।मन्त्रविभागमाह” कर्कः “अध्वर्य्योः पूर्वः” सू० पूर्वोमन्त्रः ।षणां मन्त्रयुग्मानां पूर्वोमन्त्रोऽध्वर्योः स्यात्” कर्कः ।“उत्तर उत्तरः प्रतिप्रस्थातुः” सू० “युगपत्प्रथमौगृह्णीतः” सू० “उत्तमौ च” सू० “व्यत्यासम्” सू०“मध्ये युगपत् प्रचरणं सर्वेषाम्” सू० ।“सर्वेषाम् द्वादशानामप्यृतुग्रहाणां प्रचरणं यांगानुष्ठानंचकारात् व्यात्यासं व्यात्यासेनैव पूर्व्वमध्वर्य्योः ततः प्रतिप्र-स्थातुः पुनरध्वर्य्यो पुनःप्रतिप्रस्थातुरित्येवं सर्वेषामपि ।स व्यत्यासः कथं कर्त्तव्य इत्यपेक्षायामाह “निष्क्रामत्येकःप्रविशतीतरः” सू० “हविर्धानमध्यात् अपरोहवि-धानं प्रविशति” कर्कः “उत्तरौत्तरः प्रतिप्रस्थाता पर-कालत्वात्” १० सू० अत्र ग्रहणे प्रचरणे देशतःकालतश्च प्रतिप्रस्थाता उत्तरो भवेत् कुतः अपरकाल-त्वात् प्रतिप्रस्थातृमन्त्राणां पश्चात्कालीनत्वात् परकाल-त्वादिति केचित् एवार्थोऽस्मिन्नपि पाठे “उभयतोऽध्व-र्य्युपात्रेण परिप्रगृह्णाति” ११ सू० उभयत इति “स वैहविर्धानान्निष्क्रामन्तं हविर्धाने प्रविशन्तं चाध्वर्य्युंप्रतिप्रस्थाता पात्रेण परि गृह्णाति अव्यवायार्थं पात्रमध्वर्योर्दक्षिणतोहरति स्वयमुत्तरतो यातीत्यर्थः मानवे“हुत्वा गृहीत्वा प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्यपात्रं हरति नान्योऽन्यमभि प्रपद्येते शेषे पूर्वस्योत्तर-मभि परिगृह्णीतः” इति काठके “प्रपद्यमानः प्रतिप्रस्थातादक्षिणेनाध्वर्योः पात्रं हरेदुत्तर एव सञ्चरेदिति” कर्कः ।“सर्वहुताः प्रागुत्तमाभ्याम्” १२ सू० “उत्तमाभ्यामे-कादशद्वादशाभ्यां प्राग्ये दश ऋतुग्रहाः ते सर्वहुताःकार्याः सकृदव सर्वं होतव्यम् अनुवषट्कारोऽपि नभवति” कर्कः “ऋतुनेति षट् प्रेष्यतः” १३ सू० “आ-द्येषु षट्सु ऋतुग्रहयागेषु ऋतुना प्रेष्येत्येव मैत्रावरुणंप्रेष्यतः” कर्कः ‘ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य’१४ सू० “ततः पात्रमुखयोर्विपर्यासं कृत्वा सप्तमाष्टमन-वमदशमेष्वृतुग्रहयागेषु ऋतुभिः प्रेष्येत्येवं प्रशास्तारप्रेष्यतः मानवे “ऋतुना प्रेष्येति षड्भिः प्रचरतो यतोहुतम् ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भि-र्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्यामिति”अतश्च षण्णामग्रेण होमः ततश्चतुर्णां पात्रमूलेन होमोऽग्रं हस्ते गृहीत्वा उत्तमयोः पुनरग्रेणैव ग्रहणमपि पात्रमुखयोर्विपर्यस्यैव कार्यम्” कर्कः “षद्धदुत्तमौ”१५ सू० “उत्तमावेकादशद्वादशावृतुग्रहौ षद्धत् प्रचरतः तेनपात्रयोरग्रेण होमः ऋतुना प्रेप्येति चेत्येतद्वतिनागृह्यते पुनर्मन्त्रार्थः ऋतुना इत्येवं रूपां तृतीयैक-वचनान्तर्तुशब्दयुक्तां याज्यां प्रेष्येत्यर्थः ऋतुनेत्येतत्पदयुक्तेन प्रैषेण वा एवमृतुभिः प्रेष्येन्यत्रापि” कर्कः “य-जमानः प्रेषितो होतरेतद्यजेति ब्रूयात्” १६ सू० ।“द्वादशे ऋतुग्रहे गृहपते यजेत्येवं प्रशास्त्रा प्रेषितोयजमानः होतरेतद्यजेति एवं ब्रूयात् ततस्तां यजमान-याज्यां होता ब्रूयात्” कर्कः “अध्वर्यू च” १७ सू०“एकादशे ऋतुग्रहे प्रशास्त्रा अध्वर्यू यजतमित्येवं प्रेषि-तावध्वर्यू होतरेतद्यजेति एवं ब्रूयाताम् ततश्च तद्या-ज्यामपि होतैव ब्रूयात् शाखान्तरे तु विकल्पेन होतुःप्रेषणं खयं वा याज्यापठनमित्येवमुक्तमस्ति मानवे“एकादशे प्रैषेऽध्यर्यू यजतमित्युक्ते तयोरन्यतरो मध्य-मस्य परिधेः पश्चादुपविश्य ये यजामहेऽश्विनावध्वर्यू आ-ध्वर्यवादृतुना सोमं पिबतां वौषडिति प्रैषेण यजेदथचेदृचा ये यजामहेऽश्विना पिबतं मधु दीद्यग्नी शुचिघ्रत ऋतुना यज्ञवाहसा वौषडित्यनवानं यजेति होत-रेतद्यजेति वा पेष्यत्युत्तमे प्रैषे यजमानस्ययाज्यानिप्रैषो वेति” काठके विशेषः “द्वारे हविर्धानस्योपविश्याध्वर्यू-यजतमित्युक्तेऽश्विनावध्वर्यू यजतम् आध्वर्यवादृतुना सोनंपिवतमिति होतारं वा प्रेष्येद्धोतरेतद्यजेति यद्यध्व-र्युर्वजेतोन्नेता ग्रहेण चरेदिति” कर्कः “त्रयोदशं गृह्णी-यादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति” १८ सू० ।शत० ब्रा० ४, ३, १, ३, द्वादशादिग्रहग्रहणे हेतुर्दर्शितोयथा “सन्नेऽच्छावाके ऋतुग्रहैश्चरति तद्यत् सन्नेऽच्छावाकऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नोह्यच्छावाकोद्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं एतस्मान्मिथु-नात् प्रजननादृतूत् संवत्सरं प्रजनयति यद्धेवसन्नेऽच्छावाके ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्-सरः सर्वमेवैतत् प्रजनयति तस्मात् सन्नेऽच्छावाक ऋतु-ग्रहैश्चरति तान्वै द्वादश गृह्णीयात् द्वादश वै मासाः सं-वत्सरस्य तस्माद्द्वादश मासा इति द्वादश त्वेव गृह्णीयादेषैव सम्पत् द्रोणकलशाद् गृह्णीयात् प्रजापतिर्वै द्रो-णकलशः एतस्मात् प्रजापतेरृतूत् संवत्सरं प्रजन-यति उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति कुतस्तयो-रन्तोये उभयतोमुखे तस्मादयमनन्तः संवत्सरः परिप्लवतेतं गृहात्वा सादयति तस्मादयमसन्नः संवत्सरः नानु-वाक्यमन्वाह ह्वयति वाऽनुवाक्यया गतोह्येवायमृतुर्यदिदिवा यदि नक्तं नानुवषट्करोति नेदृतूनपवृणजा इतिसहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत् सर्वंसंवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृही-तम् निरेवान्यतरः क्रामति प्रान्यतरः पद्यते तस्मा-दिमेऽन्वञ्चोमासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौषा सह प्रपद्येयातां पृथगुहैवेममासा ईयुस्तस्मान्निरेवा-न्यतरः क्रामति प्रान्यतरः पद्यते तौ वा ऋतुनेति षट्प्रचरतः तद्देवाऽहरसृजन्तर्त्तुभिरिति चतुस्तद्रात्रिमसृ-जन्त यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्ययवत्-स्यत् तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः तद्देवाः परस्तादहरददुस्तस्मादिदमद्याहरथ श्वोऽहर्भविता ऋतुनेतिवै देवाः मनुष्यानसृजन्तऽर्त्तुभिरिति पशून्त्स यत् तन्म-ध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः परि-गृहीतावशमुपेता मनुष्याणाम् तौ वा ऋतुनेति षट्प्रचर्य्य इतरथा पात्रे विपर्य्यस्येते ऋतुभिरिति चतुश्चरि-त्वेतरथा पात्रे विपर्य्यस्येते अन्यतरत एव तद्देवाअहरसृजन्तान्यतरतोरात्रिमन्यतरतएव तद्देवामनुष्यानसृ-जन्तान्यतरतः पशून् अथातोगृह्णात्येव उपयामगृती-तोऽसि मधवे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतो-ऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौस यद्वसन्त ओषधयो जायन्ते वनस्पतयः पव्यन्तेतेनोहैतौ मधुश्च नाधवश्च उपयामगृहीतोऽसि शुक्रायत्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि शुचये त्वेतिप्रतिप्रस्थातैतावेव ग्रैष्मौ यदेतयोर्बलिष्ठं तपतितेन हैतौ शुक्रश्च शुचिश्च उपयामगृहीतोऽसि नभसे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि नमस्याय-त्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवोवर्षतितेनोहैतौ नभश्च नभस्यश्च उपयामगृहीतोऽसिइषे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽस्यूर्जे त्वेति प्रति-प्रस्थातैतावेव शारदौ यच्छरद्यूर्ग्रस ओषधयः प-च्यन्ते तेनोहैताविषश्चोर्जश्च उपयामगृहीतोऽसि सहसेत्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि सहस्यायत्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ यद्धेमन्त इमाःप्रजाः सहसेव स्वं वशमुपनयते तेनोहैतौ सहश्च सह-स्यश्च उपयामगृहीतोऽसि तपसे त्वेत्येवाध्वर्य्युर्गृह्णात्यु-पयामगृहीतोऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव शै-शिरौ यदेतयोर्वलिष्ठंश्यायति तेनोहैतौ तपश्च तप-स्यश्च उपयामगृहीतोऽसि अंहसस्पतये त्वेति त्रयोदशंग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाता-ध्वर्य्योः पात्रे संस्रवमवन यत्यध्यर्युर्वा प्रतिप्रस्थातुः पात्रेसंस्रमवनयत्याहरति भक्षम् अथ प्रतिप्रस्थाता भक्षितेनपात्रेण ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रे-णैन्द्राग्नं ग्रहं गृह्णाति वा ऋतुग्रहाणामनु वषट्कु-र्व्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीप्यन् भवतितदास्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति यद्धैवैन्द्राग्नं ग्रहंगृह्णाति सर्वं वा इदं प्राजीजनद्य ऋतुग्र हानग्रहीत्सइदं सर्वं प्रजनय्येदमेवैतत् सर्वं प्राणोदानयोः प्रति-ष्ठापयति तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नीहि प्राणोदानाविमे हि द्यावापृथवी प्राणोदानावनयो-र्हीदं सर्वं प्रतिष्ठितम् यद्धेवैन्द्राग्नं ग्रहं गृह्णाति ।सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदंसर्वं प्रजनय्यास्मिन्नेवैतत् सर्व्वस्मिन् प्राणोदानौ दधातिताविमावस्मिन् त्सर्व्वस्मिन् प्राणोदानौ हितौ अथातोगृह्णात्येव इन्द्राग्नी आगतं सुतं गीर्भिर्न्नभोवरेण्यम् ।अस्य पातं धियेषिता उपयामगृहीतोऽसीन्द्राग्नि-भ्यां त्वैष ते यो निरिन्द्राग्निभ्यां त्वेति सादयतीन्द्रा-ग्निभ्यां ह्येनं गृह्णाति अथ वैश्वदेवग्रहं गृह्णाति सर्वंवा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्ध्वैतावदेवाभविष्यन्न प्राजनिष्यन्त अथ यद्वैश्वदेवं ग्रहं गृह्णाति ।इदमेवैतत् सर्व्वमिमाः प्रजा यथायथं व्यवसृजति तस्मा-दिमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते शुक्रपात्रेणगृह्णात्येष वै शुक्रो एष तपति तस्य ये रश्मयस्ते विश्वेदेवास्तस्माच्छुक्रपात्रेण गृह्णाति अथातोगृह्णात्येव औमासश्चर्षणीर्धृतो विश्वे देवास आगत दाश्वासौ दाशुषःसुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष तेयोनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनंदेवेभ्यो गृह्णाति”