ऋतुकाल (RtukAla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
Englishऋतुकाल ṛtu-kāla, proper season
period 🞄of the menses
the days immediately following 🞄[Page57-2] 🞄suitable for conception
-juṣ, being 🞄in the days favourable for conception
🞄-thā́, ad. regularly
-páti, lord of seasons
🞄duly
exactly
-parṇa, N. of a king of 🞄Ayodhyā
-mát, observing regular seasons
🞄-ī, marriageable
being at the period 🞄suitable for conception
-rāja, spring
🞄-liṅga, characteristic mark of a season
🞄-śás, ad. duly
-saṃhāra, collection of 🞄the seasons: T. of a poem by Kālidāsa
🞄-samaya, time favourable for conception
🞄-snātā, pp. having bathed after menstruation, 🞄prepared for sexual intercourse.
Apte Hindi
Hindiऋतुकालः
ऋतु-कालः -
गर्भाधान के लिए अनुकूल समय अर्थात् ऋतुस्राव से लेकर १६ रातें
ऋतुकालः
ऋतु-कालः -
गर्भाधान के लिए उपयुक्त काल
ऋतुकालः
ऋतु-कालः -
मौसम की अवधि
Shabdartha Kaustubha
Kannadaऋतुकाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ऋतु ಪದದ ೪ನೆಯ ಅರ್ಥ
L R Vaidya
Englishपुराणम्
Englishऋतुकाल / ṚTUKĀLA. The time that is most auspicious for sexual intercourse for a woman with her husband. In ancient india certain days were prescribed as the best period for women to become pregnant. This period is called ṛtukāla. (Ṛtu--Menstruation. kāla--time, period.)
The sixteen days following menstruation are supposed to be good
but the first three days are not very good and it is advisable not to have sexual intercourse during those days. The next even days beginning with the fourth day (4th, 6th, 8th, 10th, 12th, 14th and 16th) are the best days for coitus if a male issue (a son) is desired. The odd days (5th, 7th, 9th, 11th 13th, 15th) are to be preferred if a female issue (daughter) is desired. (agni purāṇa, Chapter 151).
वाचस्पत्यम्
Sanskritऋतुकाल वसन्तसमयवत् कर्म्म० राहुशिरोवत् ६ त०वा । स्त्रीणां पुष्पदर्शनयोग्ये षोडशरात्र्यात्मके काले ।“ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” मनुः ।“ऋतुकालाभिगामी स्यात्” मनुः । पर्व्वादिवर्जे तत्-काले च स्त्रीगमनं नियम्यते । तत्र नियमस्वरूपनिर्वा-हककारणादिप्रदर्शनेन ऋत्वभिगमस्य यथानियमविधित्वंतथा प्रा० त० न्यायवाक्येनोक्तम् यथा “स्वरुच्या क्रिय-माणे तु पत्रावश्यं क्रिया क्वचित् । नोद्यते नियमस्तत्रऋतावभिगमो यथा” मीमांसकवाक्यम् । ऋत्वभिगम-नस्य परिसंख्यापरत्वनिराकरणेन नियमपरत्वं समर्थितंमिता० यथा ।“तस्मिन् युग्मासु संविशेदिति” । “किमयं विधिर्नियमःपरिसंख्या वा । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिकेसति । तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते” ।उच्यते । न तावद्विधिः, प्राप्तार्थत्वात् । नापि परिसंख्या, दोषत्रयसमासक्तैः । अतो नियमम्प्रपेदिरे न्यायविदः ।कः पुनरेषां भेदः । उच्यते । अत्यन्ताप्राप्तपापणं विधिः ।यथा अग्निहोत्रं जुहुयात्” “अष्टकाः कर्त्तव्याः” इति ।पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः । यथा “समे यजे-तेति” “दर्शपूर्न्नमाणाभ्यां यजेतेति” यागः कर्त्तव्यतया-विहितः स च देशमन्तरेण कर्त्तुमशक्य इत्यर्थात् देशःप्राप्तः । स च समो विषमश्चेति द्विविधः । यदा यज-मानः समे यियक्षते तदा “समे यजेतेति” वचनमुदास्तेस्वार्थस्य प्राप्तार्थत्वात् । यदा तु विषमे देशे यियक्षते तदासमे यजेतेति” स्वार्थं विधत्ते स्वार्थस्य तदानीमप्राप्तत्वात् ।विषमदेशनिवृत्तिस्त्वार्थिकी नोदितदेशेनैव यागनिष्यत्तेः ।अनोदितदेशोपादानेन यथाशास्त्रं यागोनानुष्ठितः स्या-दिति । तथा “प्राङ्मुखोऽन्नानि भुञ्जीतेति” । इदमपिस्मार्त्तमुदाहरणं पूर्वेण व्याख्यातम् । एकस्यानेकत्र प्राप्त-स्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या । तद्-यथा । “इमामगृभ्नन् रशनामृतस्येत्यश्वाभिधानीमादत्ते”इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्या गर्दभाभिधान्याश्चरशनाया ग्रहणे विनियुक्तः । पुनरश्वाभिधानीमादत्तइति वचनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्याविनिवर्त्तते । तथा “पञ्च पञ्चनखा भक्ष्याः” इत्यत्रयदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तम् । पुनःशशादिषु श्रूयमाणं श्वादिभ्यो निवर्त्तत इति । किंपुनरत्र युक्तं परिसंख्येत्याह । तथाहि कृतदारम्रं-ग्रहस्य स्वेच्छयैव ऋतौ गमनं प्राप्तमिति न विधेरयंविषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् ।एवं हि स्मरन्ति गृह्यकाराः “दारसंग्रहानन्तरं त्रिरात्रंद्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यादिति” । तत्रद्बादशरात्रात् संवत्सरात् वा पूर्वमेवर्त्तुसम्भवे ऋतौ गच्छे-देवेति नियमात् ब्रह्मचर्य्यम्मरणं बध्येत । अपि चप्राप्ते भावार्थे वचनं विशेषणपरं युक्तम् । प्राप्तञ्चर्त्तौभार्य्यागमनमिच्छयैवातो यदि गच्छेदृतावेवेति वचनव्य-क्तिर्युक्ता । किञ्च नैयमिकात् पुत्रोत्पत्तिविधेरेवर्त्तौ नित्यंगमनं प्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकःस्यात् । नियमे चादृष्टं कल्पनीयम् । किञ्च ऋतौ गन्तव्य-मेवेति नियमेऽसन्निहितस्य व्याध्यादिनाऽसमर्थस्यानि-च्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्चनियमे । तथा हि एकः शब्दः सकृदुच्चरितस्तमेवार्थं पक्षेऽ-नुवदति पक्षे विधत्ते चेति । तस्मादृतावेव गच्छेन्ना-न्यत्र इति परिसंख्यैव युक्ता । तदिदम्भारुचिविश्वरू-पादयोनानुमन्यन्ते । यतो नियम एव युक्तः पक्षे स्वार्थविधिसम्भवात् । अगमने दोषश्रवणाच्च यथा ह पराशरः“ऋतुस्नातान्तु यो भार्यां सन्निधौ नोपगच्छति । घोरायांभ्रूणहत्यायां युज्यते नात्र संशय इति” न च विध्यनु-वादविरोधोऽनुबादाभावात् विध्यर्थत्वाद्व चनस्य । तत्र हिविध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदि-तव्यमप्राप्ततयान्योद्देशेन विधातव्यञ्चेति । यथा वा-जपेयाधिकरणे पूर्वपक्षे “वाजपेयेन स्वाराज्यकामो यजे-तेति” वाजपेयलक्षणगुणविधानावधित्वेन यागोनुवदि-तव्यः स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्यश्चेति । न चानुवादेनेह कृत्यमस्ति । यत्तु नियमेऽदृष्टंकल्पनीयमित्युक्तं तत्परिसंख्यायामपि समानम् । अ-नृतौ गच्छतो दोषकल्पनात् । यत्तु नैयमिकपुत्रोत्पा-दनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम इति ।तदसत् स एवायं नैयमिकः पुत्रोत्पादनविधिः । स्यान्मतम्“एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेदिति”स्त्र्यभिगमनारिक्तः पुत्रोत्पादनविधिरिति । तन्न गमन-करणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते ।“एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन” यथाग्निहोत्रंजुह्वत् स्वर्गं भावयेदिति । न चासन्निहितादेरशक्यार्थेविथिप्रसङ्गः सन्निहितशक्तयोरेवोपदेशात् “ऋतुस्नातांतु यो भार्यां सन्निधौ नोपगच्छतीति” “यः स्वादारानृतु-स्नातान् स्वस्थः सन्नोपगच्छतीति” विशेषोपादानात् ।अनिच्छानिवृत्तिस्तु नियमविधानादेव । न च विशेषण-परता पक्षे भावार्थविधिसम्भवात् । नापि गृह्यस्मृतिविरोधः संवत्सरात् पूर्वमेवर्त्तुदर्शने संविशतो न ब्रह्म-चर्यस्खलनदोषः । यथा श्राद्धादिषु, तस्मात् स्यार्थहामि-परार्थकल्पनप्राप्तबाधलक्षणदोषत्रयवती परिमंख्या नयुक्ता । “पञ्च पञ्चनखा भक्ष्याः” इत्यत्र यद्यपि शशादिषुभक्षणस्य पक्षे प्राप्ते नियमः, शशादिषु श्वादिषु च प्राप्तेपरिसंख्येति उभयसम्भवस्तथापि नियमपक्षे शशाद्य-भक्षणे दोषप्रसङ्गः । श्वादिभक्षणे चादोषप्रसङ्रेन प्राय-श्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता । एतेन “सायंप्रातर्द्विजातीनामशनं श्रुतिनोदितम्” इत्यत्रापि नियमोव्याख्यातः “नान्तरा भोजनं कुर्यादिति” च पुनरुक्तं स्यात्परिसंख्यायाम् । एवं च “नियमे सकृत्सकृदृतावृताविति” वीप्सा लभ्यते “निमित्तावृत्तौ नैमित्तिकमप्यावर्त्तत”इति न्यायात् । “यदा कामी भवेदित्यपि” नियम एवानृता-वपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति” । “ऋतावुपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” इत्येतदपि गौतमीयंसूत्रद्वयं नियमपरमेव । ऋतावुपेयादेवानृतावपि स्त्री-कामनायां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेनेति” ।“अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः । सुखस्यनित्यं दातेह परलोके च योषितः” “तद्वृती रतिकाभ्य-या” इति च मनुना अन्यकाले स्त्रीकामनया गमन-स्योक्तेः “यथा कामी भवेद्वापि स्त्रीणां वरमनुस्मरन्”या० अन्यकाले स्त्रीगमनोक्तेश्च न परिसंख्यापरत्वम् ।तासां स्त्रीणां वरश्च इन्द्रदत्तः । स च मिता० श्रुतौदर्शितो यथा “ता अब्रुवन् वरं वृणीमहै ऋत्वियात् प्रजांविन्दामहै ऋत्वियो भर्त्तुः काममाविजनितोः सम्भवामेतितस्मादृग्वियाः स्त्रियः प्रजां विन्दते काममाविजनितोःसन्म वन्तीति वरं वृतं ह्यासाम्” इति तासां वरमुप-वर्ण्य “भवतीनां कामविहन्ता पातकी स्यादिति” इन्द्रेणतासां वरोदत्तः । वृत्तासुरबधजन्यब्रह्महत्याया भाग-शःस्त्रीभिर्ग्रहणतोषितेन शक्रेण तासां वरदानम् भार-तादौ वर्णितम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
