| YouTube Channel

ऋतम्भर (Rtambhara)

 
Yates
English
ऋतम्भर (रः) 1.
m.
Vishnu.
Apte 1890
English
ऋतंभरः God, upholder of truth.
Monier Williams Cologne
English
ऋत—°ं-भर
mfn.
bearing the truth in one's self
ऋत—°ं-भर
m.
N.
of Viṣṇu,
BhP.
vi, 13, 17
Benfey
English
ऋतंभर ऋतंभर, i. e. ऋत + म्
-भृ + अ,
I.
m.
A name of Brahman,
Bhāg. P. 6, 13, 17.
II.
f.
रा, Under-
standing, Prab. 68, 3.
Shabdartha Kaustubha
Kannada
ऋतम्भर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸತ್ಯವನ್ನು ಕಾಪಾಡುವ ಪರಮಾತ್ಮ
निष्पत्तिः - > डुभृञ् (धारणपोषणयोः) - "खच्" (३-२-४६)
व्युत्पत्तिः - > ऋतं बिभर्ति
प्रयोगाः - > "ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः"
उल्लेखाः - > भाग० ६-१३-१७
L R Vaidya
English
ftaMBara {% m. %} God, the upholder of truth.
पुराणम्
English
ऋतम्भर / ṚTAMBHARA. An ancient King. He worshipped kāmadhenu and obtained a son who was a devotee of viṣṇu. The son's name was satyavān. In connection with Śrī Rāma's Aśvamedhayāga, śatrughna who was leading the horse, arrived in Satyavān's city during his tour of the eastern lands. (padma purāṇa, pātāla Khaṇḍa, Chapter 30).
वाचस्पत्यम्
Sanskrit
ऋतम्भर
पु०
ऋतमित्यव्ययं तद्बिभर्त्ति अच् सत्यपालकेपरमेश्वरे “ततोगतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवा-रिताघः” भाग० ६, १३, १३ प्लक्षद्वीपान्तर्गते नदी-भेदे स्त्री तस्य वर्षाण्यभिधाय “तेषु गिरयोनद्यश्च सप्तै-वाभिज्ञाताः” इत्युक्त्वा “अरुणा नृम्णाङ्गिररी सावित्रीसुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः” भाग० ५, २०, पात० उक्ते विपर्य्यासशून्ये समाधिस्थप्रज्ञा-भेदे स्त्री “ऋतम्भरा तत्र प्रज्ञा” सू० “तस्मिन् समा-हितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञाभवति अन्वर्था सा सत्यमेव बिभर्त्ति तत्र विपर्य्या-सज्ञानगन्धोऽप्यस्तीति तथा चोक्तम् “आगमेनानुमानेनध्यानाभ्यासरसेन त्रिघा प्रकल्पयन् प्रज्ञां लभते योग-मुत्तममिति” पा० भा० तस्याः शाब्दादिभ्यो विशेषादिकमुक्ततत्रैव “श्रुतानुमानप्रज्ञाभ्यामन्यविषयविशेषार्थत्वात्” सू० ।“श्रुतमागमविज्ञानं तत् सामान्यविषयं ह्यागमेन शक्यो-विशेषोऽभिधातुं कस्मात्? नहि विशेषेण कृतसंङ्केतः शब्दइति तथानुमानं सामान्यविषयमेव यत्र प्राप्तिस्तत्रततिः यत्राप्राप्तिस्तत्र भवति गतिरित्युक्तम् अनु-मानेन सामान्येनोपसंहारः तस्मात् श्रुतानुमानवि-षयो विशेषः कश्चिदस्तीति चास्य सूक्ष्मव्यवहित-विप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणम् चास्य विशे-षस्याप्रमणकस्याभावोऽस्त्विति” समाधिप्रज्ञानिर्ग्राह्य एवस विशेषो भवति भूतसूक्ष्मागतो वा पुरुषगतो वा तस्मात्श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वा-दिति समाधिप्रप्माप्रतिलम्भे योगिनः प्रज्ञाकृतःसंस्कारो नवो नवोजायते समाधिप्रज्ञाभवः संस्का-रोव्युत्थानसंस्काराशयं बाधते व्युथानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया भवन्ति पात० भा० ।“तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी” सू० ।“प्रत्ययनिरोधे समाधिरुपतिष्ठते ततः समाधिजा प्रज्ञाततः प्रज्ञाकृताः संस्कारा इति नवोनवः संस्काराशयोजायते ततः प्रज्ञा ततश्च संस्कारा इति कथमसौसंस्कारातिशयश्चित्तं समाप्ताधिकारं करिष्यतीति? नते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वात् चित्तमधिका-रविशिष्टं कुर्व्वन्ति चित्तं हि ते स्वकार्य्यादवसादयन्ति ।ख्यातिपर्य्यवसानं हि चित्तचेष्टितमिति” पात० भा० ।विवृतञ्चैतत् वाचस्पतिना “अत्रैव योगिजनप्रसिद्धा-न्वर्थसंज्ञाकथनेन योगिसंमतिमाह ऋतम्भरेति आग-मेनेति वेदविहितं श्रवणमुक्तम् अनुमानेनेतिमननं, ध्यानं चिन्ता तत्राभ्यासः पौनः पुन्येनानुष्ठानंतस्मिन् रस आदरः तदनेन निदिध्यासनमुक्तम् स्या-देतत् आगमानुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मा-निर्विचारा आगमानुमानविषयमेव गोचरयेत् खल्व-न्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जन-यितुम्, अतिप्रसङ्गात् तस्मान्निर्विचारा चेदृतम्भरा आग-मांनुमानयोरपि तत्प्रसङ्ग इत्यत आह श्रुतानुमाने-त्यादि बुद्धिसत्वं हि प्रकाशस्वभवं सर्व्वार्थदर्शने-समर्थमपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैवगृह्णाति यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमन-वद्यवैशारद्यमुद्द्योतते तदास्यातिपतितसमस्तमानमेय-सीम्नः प्रकाशवत्त्वे सति किं नाम यन्न गोचर इतिभावः व्याचष्टे श्रुतमागमज्ञानं तत्सामान्यविषयंकस्मात्? नह्यागमेन शक्योविशेषोऽभिधातुं, कुतः?यस्मादानन्त्याद्व्यभिचाराच्च विशेषेण कृतसङ्केतः शब्दःयस्मादस्य विशेषेण सह वाच्यवाचकसम्बन्धः प्रतीयेतनच वाक्यार्थोऽपीदृशो विशेषः सम्भवति अनुमाने-ऽपि लिङ्गलिङ्गिसम्बन्धग्रहणाधीनजन्मनि गतिरेषैवेत्याह तथानुमानमिति यत्र प्राप्तिरिति यत्रतत्रश-ब्दयोः स्थानपरिवर्त्तनेन व्याप्यव्यापकभावो गमयितव्यः ।अतोऽत्रानुमानेन सामान्येनोपसंहारः उपसंहरतितस्मादिति अस्तु तर्हि सम्बन्धग्रहानपेक्षं लोकप्रत्यक्षंन तत् सामान्यविषयमित्यत आह चास्येत्यादि-मा भूत् सम्बन्धग्रहाधीनं, लोकप्रत्यक्षमिन्द्रियाधीनन्तु-स्यात् नचेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः ननु यद्या-शमानुमानप्रत्यक्षागोचरः विशेषः तर्हि नास्ति प्रमाण-विरहादित्यत आह चेति हि प्रमाणं व्यापकंकारणं वा प्रमेयस्य, येन तन्निवृत्तौ निवर्त्तेत स्वलुकलावतश्चन्द्रस्य परभागवर्त्तिहरिणसद्भावं प्रति स-न्दिहते प्रामाणिका इत्यर्थः तस्मात् समाधिप्रज्ञानिर्ग्राह्य एवेति अत्र विवादाध्यासिताः पर-माणवः आत्मानश्च प्रातिस्विकविशेषशालिनः द्रव्यत्वे सतिपरस्परं व्यवर्त्तमानत्वात् ये द्रव्यत्वे सति परस्परंव्यावर्त्तन्ते ते प्रातिस्विकविशेषशालिनः यथा खण्ड-मुण्डादय इत्यनुमानेनागमेन ऋतम्भरप्रज्ञोपदेशपरेणयद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यात्न्यायप्राप्तत्वात् तथाप्यदूरविप्रकर्षेण तत्सत्त्वं कथञ्चिद्गो-चरयतः श्रुतानुमाने तु साक्षाच्चार्थमिव समुच्चयादिपदानि लिङ्गसंख्यायोगितया, तस्मात् सिद्धं श्रुता-नुमानप्रज्ञाभ्यामन्यविषयेति स्यादेतत् भवतु परमार्थवि-षयसम्प्रज्ञातो यथोक्तोपायाभ्यासात् अनादिना तु व्यु-त्थानसंस्कारेण निगूढनिविडतया प्रतिबन्धनीया समाधि-प्रज्ञा वात्यावर्त्तमध्यवर्त्तिप्रदीपपरमाणुरिवेति शङ्कामप-नेतुं सूत्रमवतारयति समाधिप्रज्ञेति सूत्रं पठति तज्ज-इति तदिति निर्विचारां समापत्तिं परामृशति अन्येति ।व्युत्यानमाह भूतार्थपक्षपातो हि धियां स्वभावः, तावदेवेयमनवस्थिता भ्राभ्यति यावत् तत्त्वं प्रतिलभतेतत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कार-वुद्धिचक्रक्रमेणावर्त्तमाना सती अनादिमप्यतत्त्वसंस्कारबुद्ध्वि-क्रमं बाधत एवेति तथा वाह्या अप्याहुः “निरुपद्रवभू-तार्थस्वभावस्य विपर्य्ययैः बाधो नादिमत्त्वेऽपि बुद्धेस्तत्पक्षपाततः” इति स्यादेतत् समाधिप्रज्ञातीऽस्तु-व्युथानजन्यसंस्कारस्य निरोधः ससाविजस्तु संस्का-रातिशयः समाधिप्रज्ञाप्रसवे हेतुरस्त्व्यऽविकल इतितदवस्थैव चित्तस्य साधिकारतेति चोदयति कथम-साविति परिहरति इति चित्तस्य हि कार्य्य-द्वयं शब्दाद्युपभोगः विवेकख्यातिश्चेति तत्र क्लेशकर्म्मा-शयसहितं शब्दाद्युपभोगे वर्त्तते प्रज्ञाप्रभवसंस्कारो-न्मूलितनिखिलक्लेशकर्म्माशयस्य तु चेतसोऽवसितपायाधि-कारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् तस्मात्समाधिसंस्काराश्चित्तस्य भोगाधिकारहेतवः प्रत्युततत्परिपन्थिन इति स्वकार्य्याद्भोगलक्षणादवसादयन्तिअसमर्थं कुर्व्वन्ति इत्यर्थः कस्मात्? विवेकख्यातिपर्य्य-वसानं हि चित्तचेष्टितम् तावद्धि भोगाय चित्त चेष्टते नयावद्विवेकख्यातिमनुभबति सञ्जातविवेकख्यातेस्तु क्लेशनिवृत्तौ भोगाधिकार इत्यर्थः तदत्र भोगाधिकारप्र-शान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् “तत् प्रचिनुचित्तप्रसाधनीश्चतस्रोमैत्र्यादिभावनाः प्रसीदतु ते विशोकाज्योतिष्मती नाम चित्तवृत्तिः समापयतु परशुञ्च तत्प-सादज ऋतम्भराभिधानप्रवाहः साधनोपाधेयः” वी० च०