| YouTube Channel

ऋतपर्ण (RtaparNa)

 
Monier Williams Cologne
English
ऋत—पर्ण
m.
=
ऋतुपर्ण, q.v.
वाचस्पत्यम्
Sanskrit
ऋतपर्ण्ण सूर्य्यवंश्ये नृपभेदे “भगीरथसुतो राजा” इत्युप-क्रम्य “अयुताजित्सुतस्यासीदृतपर्ण्णो महायशाः दि-व्याक्षहृदयज्ञोऽयं राजा नलसखो बली ऋतपर्ण्णसुत-श्चासीदार्त्त पर्ण्णिर्बहीपतिः” हरिवं० १६ अ० तस्य चनलेन सख्यमक्षहृदयज्ञत्वञ्च भा० व० ७२ अ० दर्शितं यथा“एवमुक्तो नलेनाथ तदा भाङ्गासुरिर्नृपः आससाद वनेराजन्! फलवन्तं विभीतकम् तं दृष्ट्वा वाहुकं राजात्वरमाणोऽभ्यभाषत ममामि सूत! पश्य त्वं सङ्ख्यानेपरमं बलम् सर्वः सर्वं जानाति सर्वज्ञो नास्ति कश्चन ।नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि वाहुक! पतितान्यपियान्यत्र तत्रैकमधिकं शतम् एकमत्राधिकं पत्रं फल-मेकञ्च वाहुक पञ्चकोट्योऽथ पत्राणां द्वयोरपि शा-खयोः प्रचिनुह्यस्य शास्वे द्वे याश्चायन्याः प्रशाखिवाः ।आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव ततो रथमव-स्थाप्य राजान वाहुकोऽब्रवीत् परोक्षमिव मे राजन्!कत्थसे शत्रुकर्षण! प्रत्यक्षमेतत् कर्त्तास्मि शातयित्वाविभीतकम् अथत्र गणिते राजन्! विद्यते परोक्षता ।प्रत्यक्षं ते महाराज! शातयिष्ये विभीतकम् अहं हिनाभिजानामि भवेदेवं वेति वा सङ्ख्यास्यामिफलान्यस्य पश्यतस्ते जनाधिप! मुहूर्त्तमपि वार्ष्णेयोरश्मीन् यच्छतु वाजिनाम् तमब्रवीन्नृपः सूतं नायंकालो विलम्बितुम् वाहुकस्त्वब्रवीदेनं परं यत्नं समा-स्थितः प्रतीक्षस्व मुहूर्त्तं त्वमथ वा त्वरते भवान् ।एष याति शिवः पन्था याहि वाष्णर्ये! सारथिः अब्र-वीदृतुपर्णस्तु सान्त्वयन् कुरुनन्दन! त्वमेव यन्ता नान्यो-ऽस्ति पृथिव्यामपि वाहुक! त्वत्कृते यातुमिच्छामिब्दिर्भा हयकोविद! शरणं त्वां प्रपन्नोऽस्मि विघ्नंकर्त्तुमर्हसि कामञ्च ते करिष्यामि यन्मां वक्ष्यसिवाहुक! विदर्भां यदि यात्वाद्य सूर्य्यं दर्शयितासि मे ।अथाब्रवीद्वाहुकस्तं संख्याय विभीतकम् ततो वि-दर्भां यास्यामि कुरुष्वैवं वचो मम अकाम इव तंराजा गणयस्वेत्युवाच सोऽवतीर्य्य रथात्तूर्ण्णं शात-यामास तं द्रुमम् ततः विस्मयाविष्टो राजानमिद-मब्रवीत् गणयित्वा ययोक्तानि तावन्त्येव फलानि ।अत्यद्भुतमिदं राजन्! दृष्टवानस्मि ते बलम् श्रोतुमि-च्छामि ते विद्यां ययैतज् ज्ञायते नृप! तमुवाच ततोराजा त्वरितो गमने नृपः विद्ध्यक्षहृदयज्ञं मां सङ्ख्यानेच विशारदम् वाहुकस्तमुवाचाथ देहि विद्यामिमांमम मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ऋतुप-र्ण्णस्ततो राजा वाहुकं कार्य्यगौरवात् हयज्ञानस्य लोभाच्चतं तथेत्यब्रवीद्वचः यथोक्तं त्वं गृहाणेदमक्षाणांहृदयं परम् निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु वाहु-क!” नलस्य वाहुकच्छद्मरूपतामुपवर्ण्य अन्त, उक्तं यथा“ऋतुपर्ण्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम् दमयन्त्यासमायुक्तं जहृषे नराधिपः तमानाय्य नलं राजाक्षमयामास पार्थिवम् क्षमयामास हेतुभिर्बु-द्धिसम्मतः! सत्कृतो महीपालो नैषधं विस्मिता-ननः उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः दिष्ट्यासमेतो दारैः स्वैर्भवानित्यभ्यनन्दत कच्चित्तु नाप-राधं ते कृतवानस्मिनैषध! अज्ञातवासं वसतो मद्-गृहे वसुधाधिप! यदि वा बुद्धिपूर्वाणि यद्यबुद्ध्यापिकानिचित् मया कृतान्यकार्य्याकि तानि त्वं क्षन्तुमम-र्हसि नल उवाच मेऽपराधं कृतवांस्त्वं स्वल्पमपिपार्थिव! कृतेऽपि मे कोपः क्षन्तव्यं हि मयातव पूर्वं ह्यपि सखा मेऽसि सम्बन्धी जनाधिप! अतऊर्द्धन्तु भूयस्त्वं प्रीतिमाहर्त्तुमर्हसि सर्वकामैः सुवि-हितैः सुखमस्म्युषितस्त्वयि तथा स्वगृहे राजन्! यथातव गृहे सदा इदञ्चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।तदुपाहर्त्तुमिच्छामि मन्यसे यदि पार्थिव! एवमुक्त्वाददौ विद्यामृतपर्ण्णाय नैषधः तां प्रतिजग्राहविधिदृष्टेन कर्म्मणा गृहीत्वा चाश्वहृदयं राजन्!भाङ्गासुरिर्नृपः! निषधाधिपतेश्चापि दत्त्वाक्षहृदयंनृप!” भा० व० ७५ अ० “कर्कोटस्य नागस्य दम-यन्त्या नलस्य ऋतपर्णस्य राजर्षेः कीर्त्तनं कलि-नाशनम्” भा० “ऋतपर्ण्णमादृतम्” नैष०