| YouTube Channel

ऋतजित् (Rtajit)

 
Monier Williams Cologne
English
ऋत—जि॑त्
mfn.
gaining the right [BRD. ],
VS.
xvii, 83
ऋत—जि॑त्
m.
(त्)
N.
of a Yakṣa,
VP.
शब्दकल्पद्रुमः
Sanskrit
ऋतजित्,
पुं,
(ऋतं जयति ऋत + जि + क्विप् ।)यक्षविशेषः यथा, --“त्वष्टा जमदग्निश्च कम्बलोऽथ तिलोत्तमा ।ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः
माघमासे वसन्त्येते सप्त मैत्रेय भास्करे ।श्रूयतां चापरे सूर्य्ये फाल्गुने निवसन्ति ये”
इति श्रीविष्णुपुराणे १० १५ -- १६ “त्वष्टासूर्य्यः कम्बलः सर्पः ब्रह्मापेतो राक्षसः ऋत-जिद्यक्षः धृतराष्ट्रो गन्धर्व्वः इति तट्टीकायांश्रीधरस्वामी
(त्रि, यज्ञजेता यथा, यजुषि १७ ।८३ “ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च”
)
वाचस्पत्यम्
Sanskrit
ऋतजित्
पु०
ऋतं जयति जि--क्विप् त० यक्षभेदे ।“त्वष्टा जमदग्निश्च कम्बलोऽथ तिलोत्तमा ब्रह्मापेतो-ऽथ ऋतजित् धृतराष्ट्रश्च सत्तमः माघमासे वसन्त्येते सप्तमैत्रेय! भास्करे” विष्णु० १० अ० “ब्रह्मापेतो ब्रह्मराक्षसःऋतजित् यक्षभेदः” श्रीधरः यज्ञजयिनि
त्रि०
“ऋतजिच्चसत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽमित्रश्च गणः”यजु० १७, ८३ अयञ्चाग्नेर्धामप्रियभेदः “सप्त तेऽग्ने!समिधः, सप्त जिह्वाः, सप्तऋपयः, सप्तधामप्रियाणि ।सप्त होत्राः सप्तधा ता यजन्ति सप्त योनीरापृणस्व घृतेनस्वाहा” यजु० १७, ७९ इत्युपक्रम्य “अग्नेः समिधादिसप्त-सप्तकोपक्रमेणु धामप्रियरूपमध्ये तस्याभिधानात्