| YouTube Channel

ऋतं (RtaM)

 
Hindi
Hindi
सच
शब्दकल्पद्रुमः
Sanskrit
ऋतं,
क्ली,
(ऋ + क्त ।) उञ्छशिलम् (यथा, मनुः ।४ --
“ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।सत्यानृताभ्यामपि वा श्ववृत्त्या कदाचन
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्”
)जलम् (यथा, ऋग्वेदे १०१ “तन्मऋतं पातु शतशारदाय” “ऋतमुदकम्” इतिभाष्यम्
) सत्यं इति मेदिनी
(यथा, मनुः ।८ ८२ ।“साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् ।“विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेदृतम्”
कर्म्मफलं यथा, “ऋतं पिवन्तौ सुकृतस्य लोके” ।इति श्रुतिः
विष्णुः
यथा, महाभारते ।१ २५३ ।“भगवान् वासुदेवश्च कीर्त्त्यतेऽत्र सनातनः ।स हि सत्यमृतञ्चैव पतित्रं पुण्यमेव ।शाश्वतं ब्रह्म परमं धुवं ज्योतिः सनातनम्”
पुं,
सूर्य्यः यथा, शतपथब्राह्मणे “ब्रह्म वाऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं ब्रह्म एवायुः”
परब्रह्म यथा, श्रुतिः “ऋतमेकाक्षरं ब्रह्म”
सत्याचारः यथा, ऋग्वेदे १३७ ।“सुतो मित्राय वरुणाय पीतये चारूरृतायपीतये”
“ऋताय सत्याचाराय” इति दया-नन्दभाष्यम्
रुद्रः यथा, सामगानां सन्ध्यामन्त्रेरुद्रोपस्थाने “ऋतमित्यस्य कालाग्नी रुद्र ऋषि-रनुष्टुप्छन्दो रुद्रो देवता रुद्रोपस्थाने विनि-योगः”
देवमेदः यथा, ऋग्वेदे २३ ।“ऋतस्य हि सुरुषः सन्ति पूर्व्वीरृतस्य धीति-र्वृजिनानि हन्ति” “ऋतस्य ऋतदेवस्य” इतिभाष्यम्
यज्ञः यथा, ऋग्वेदे १४५ ।“ऋतचिद्धि सत्यम्” “ऋतस्य यज्ञस्य जलस्यवा चित् ज्ञाता” इति भाष्यम्
अग्नेरृषि-भेदः यथा, यजुषि १७ ८२ “ऋतश्चसत्यश्च” इति
)