| YouTube Channel

ऋणोद्ग्राहणं (RNodgrAhaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऋणोद्ग्राहणं,
क्ली,
(ऋणस्य उद्ग्राहणं ।) अधमर्ण-गृहीतर्णग्रहणं यत्र ऋणं प्रार्थनकाले प्रार्थितो-ऽपि ऋणी ददाति तत्र धनिकेन यत् कर्त्तव्यंतदाह मनुः ४८ -- ४९ ।“यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।तैस्तैरुपायैः संगृह्य साधयेदधमर्णिकम्”
धर्म्मेण व्यवहारेण छलेनाचरितेन ।प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च”
अयमर्थः पूर्व्वपूर्व्वसामर्थ्याभावे उत्तरोत्तरम्संगृह्य वशीकृत्य धर्म्मे वृहस्पतिराह ।“सुहृत्सम्बन्धिसन्दिष्टैः सामोक्तानुगमेन ।प्रायेण वा ऋणी दाप्यो धर्म्म एष उदाहृतः”
अस्यार्थः ऋणिकस्य ये सुहृत्सम्बन्धिनस्तेषुसन्देशो यो यच्च साभवचनं यच्चानुगमनं प्रायोप-वेशनं वा धनिकस्य सधर्म्म ऋणोद्ग्राहणोपायः
व्यवहारे कात्यायनः ।“धार्य्योऽवरुद्ध ऋणिकः प्रकाशं जनसंसदि ।यावन्न दद्याद्देयञ्च देशाचारस्थितिर्यथा”
अस्यार्थः यावद्दानं जनसंसदि ऋणिकस्य धनि-केन धारणं व्यवहारः
छलाचरितबलात्कारेषुवृहस्पतिः ।“छद्मना याचयित्वार्थमानीय ऋणिकादृणी ।अन्नाहितादि वाहृत्यं दाप्यते यत्र सोपधिः”
अस्यार्थः ऋणिकस्य धनमन्नाहितादि वा छद्मनाआहृत्य वा यत्र दाप्यते तत्र साधनोपायःसोपधिः सच्छलमुच्यते
“पुत्त्रदारपशून् रुद्ध्वा कृत्वा द्वारोपवेशनम् ।यत्रर्णी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते
बद्ध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः ।ऋणिको दाप्यते यत्र बलात्कारः उच्यते”
अनयोरर्थः पुत्त्रदारपशुरोधो द्वारोपवेशनञ्चय उद्ग्राहणोपायस्तदाचरितमुच्यते स्वगृहमा-नीय ताडनादिलक्षण उद्ग्राहणोपायो बला-त्कार उच्यते
*
कोऽधमर्णः केनोपायेनसाध्यस्तदाह कात्यायनः ।“राजानं स्वामिनं विप्रं सान्त्वेनैव प्रसाधयेत् ।ऋक्थिनं दुर्हृदं वापि च्छलेनैव प्रसाधयेत्”
ऋक्थिनं दायादम्
तथा“बणिजः कर्षकांश्चैव शिल्पिनश्चाब्रवीद् भृगुः ।देशाचारेण दाप्याः स्युर्दुष्टान् संपीड्य दापयेत्
*
यत्र धनं लभ्यते तत्राह वृहस्पतिः ।“निर्धनं ऋणिकं कर्म्म गृहमानीय कारयेत् ।शौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैः”
याज्ञवल्क्यः, --“हीनजातिं परिक्षीणमृणार्थं कर्म्म कारयेत् ।ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम्
यथोदयं यथा धनोत्पत्तिरित्यर्थः
*
व्यापार-द्वारा ब्राह्मणस्य ऋणशोधनमाह कात्यायनः ।“कर्म्मणाक्षत्त्रविट्शूद्रान् समहीनांस्तु दापयेत्”
*ऋणशोधनाय निन्दितं कर्म्म कारयितुरुत्तमर्णस्यदण्डमाह कात्यायनः ।“यदि ह्यादावनादिष्टमशुभं कर्म्म कारयेत् ।प्राप्नुयात् साहसं पूर्व्वमृणान्मुच्येत चर्णिकः
* ।यदि परमवृद्धिप्राप्तं धनमृणिको दातुं शक्नोतितदा चक्रवृद्ध्या स्वेच्छया धारयेत् यथा वृहस्पतिः ।“पूर्णावधौ शान्तलाभमृणमुद्ग्राहयेद्धनी ।कारयेद्वा धनी लेख्यं चक्रवृद्धिव्यवस्थया”
तथा वृहस्पतिः ।“हिरण्ये द्विगुणीभूते मृते नष्टेऽधमर्णिके ।द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम्
रक्षेद्वा कृतमूल्यन्तु दशाहं जनसंसदि ।ऋणानुरूपं परतो गृह्णीतान्यत्तु वर्जयेत्
स्वधनञ्च स्थिरीकृत्य गणनाकुशलैर्नरैः ।तद्बन्धुज्ञातिविदितं प्रगृह्णन्नापराध्नुयात्”
*
यथाविषयं धर्म्मादीन् धनसाधनोपायान् प्रयुञ्जानोन राज्ञा निवर्त्तनीय इत्याह मनुः ।“यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम्”
*
धनवता ऋणिकेनादत्ते ऋणे राजा स्वयं विंशति-तमभागं गृहीत्वा उत्तमर्णाय दापयेत् इत्याहनारदः
“ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति ।राज्ञा दापयितव्यः स्यातगृहीत्वांशन्तु विंशकम्”
*
यदा अधमर्णिकः सकलमृणं दातुमसमर्थः शक्त्यनु-सारेण दत्त्वा पूर्व्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत्एतावद्दत्तं उत्तमर्णेन उपगतं प्राप्तमिति धनीतस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत् इत्याहयाज्ञवल्क्यः ।“लेख्यस्य पृष्ठेऽभिलिखेत् दत्त्वा दत्त्वाधनं ऋणी ।धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम्”
इति विवादार्णवसेतुः