| YouTube Channel

ऋणु (RNu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋण्
मूलधातुः:
ऋणु
धात्वर्थः:
गतौ
गणः:
तनादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ऋणोति, अर्णोति
अनुबन्धादिविशेषः:
उदित्
धातुप्रदीपः
Sanskrit
ऋणुँ ऋणु दीप्तौ, गमने
- अर्णीति अर्णुते आनर्ण आनृणे आनृणतुः आनृणाते अर्णिष्यति अर्णिष्यते अर्णोतु अर्णुताम् अर्णुहि अर्णुष्व आर्णीत् आर्णिष्ट आर्त्त णत्वस्यासिद्धत्वादकृतणत्वस्य द्विर्वचनं धातुपारायणे दर्शितम् अर्णिनिषति अर्णिनिषते अर्णयति आर्णिनत् अर्णित्वा ऋत्वा ऋतम् ऋतवान् स्वर्णं सुवर्णम् (3) सवत्र विकरणापेक्षो गुणः अन्ये तु संज्ञापूर्वकविधेरनित्यत्वाद् गुणाभावं मन्यमाना ऋणोति ऋणुत इत्यादि रूपमाहुः एवंमतान्तरेणैव क्षेणोति क्षेणुत इत्यादि 5
क्षीरतरङ्गिणी
Sanskrit
ऋणुँ ऋणु गतौ
- ऋणोति, ऋणुते 4
धातुवृत्तिः
Sanskrit
ऋणुँ ऋणु (अर्थः) गतौ
अयमपि तवर्गीयान्तोपदेशः लाक्षणिकं णत्वम् ( अर्णोति अर्णुतः अर्ण्यन्ति अर्णोषि अर्णोमि अर्णुते अर्ण्वाते अर्ण्वते अर्ण्वे आनर्ण आनृणतुः आनर्णिथ आनृण आनृणिव आनृणे आनृणिषे आनृणिवहे ) क्षिणोतिवल्लिट्प्रक्रिया ( अर्णिता अर्णिष्यति अर्णिष्यते अर्णोतु अर्णुडि ) गुणे कृते संयोगपूर्वत्वादुकारस्य "उतश्च प्रत्ययात्'' इति हेर्लुग्न भवति ( आर्णोत् आर्णुताम् ऋण्यात् अर्णुयात् ) सर्वत्र विकरणापेक्षो गुणः आशिषि ( ऋण्यात् अर्णिषीष्ट आर्णीत् अर्णिष्टाम् आर्णिष्ट आर्त आर्णिष्ट आर्णिष्ठाः आर्थाः, ) तनादित्वात्सिज्लुक्यनुनासिकलोपः ( अर्णिनिषति ) गुणे कृते "न न्द्राः'' इति रेफवर्जितस्य द्विर्वचनम् अत्रात्रेयो नान्तोपदेशत्वेऽपि द्विर्वचने कर्तव्ये णत्वस्य नासिद्धत्वम्, [पूर्वत्रासिद्धीयमद्विर्वचने] इति न्यायात् तेन प्रकृत्यभ्यासयोर्द्वयोरपि णकारावित्याह पारायणे तु णत्वस्यासिद्धत्वादणत्वस्य द्विर्ववचने परस्य व्यवधानात् णत्वाभावो दर्शितः "प्राणिणत्'इत्यादावनितेःसाभ्यासस्य णत्वविधानात् लिड्वत् [पूर्वत्रासिद्धीयमद्विर्वचने] इत्यस्यानित्यत्वज्ञापनाण्णत्वविषये तस्याप्रवृत्तेरूर्णोनूयते इत्यादिवण्णत्वस्यासिद्ध्यैव भवितव्यमिति पारायणिकपक्षो ज्यायान् अत एव पारायणिकपक्षविरोधाण्णेपदेशस्य पक्षो दूष्य एव ( अर्णयति आर्णयत्, मा भवानर्णिनत्, माभवानृणिनत् ) उरृद्वा ( माभवानृणिनेताम् माभवानृणिनथाः ) पूर्ववत्परस्य णत्वं भवति ( ऋत्वा अर्णित्वा ) उदित्त्वादिड्विकल्पः अनिट्पक्षे"अनुदात्तोपदेश'' इत्यनुनासिकलोपः ( ऋतः ऋतवान् ऋतिः ) ( स्वर्णः ) पचाद्यचि गुणः उपसर्गस्य यण् [ तनादीनां छन्दस्युपसंख्यानम् ] इत्युपसर्गस्योवङि ( सुवर्णम् ) संज्ञाशब्दत्वाद्भाषायामप्यस्य प्रयोगः साधुरित्यात्रेयमैत्रेयौ शोभनो वर्णोऽस्येत्यपि शक्यते व्युत्पादयितुम् द्वाभ्यां सुवर्णाभ्यां क्रीतं ( द्विसुवर्णम् द्विसौवर्णिकम् ) [ सुवर्णशतमानयोरुपसंख्यानम् ] इत्यार्हीयस्य ठकः पक्षे लुक् लुगभावे "परिमाणान्तस्य'' इत्युत्तरपदवृद्धिः ( अर्णः ) असुन् ( अर्णवः ) "अर्णसो लोपश्च'' इति मत्वर्थीये वप्रत्यये सलोपः अत्रात्रेयमैयादिभिः शब्विकरणे गुणः, करोतेश्च भिदेश्चेत्यापिशलिस्मरणाद्विकरणापेक्षो गुणोऽन्यस्य धातोर्न भवतीति क्षिणो ( 1 ) ( 1 ) ऋणोतीत्यादीति पुस्तकान्तरे पाठः तीत्यादि दर्शितम्, तथा क्षीरस्वाम्यपि क्षिणिप्रभृतीन्प्रस्तुत्य इमे सार्वधातुके सन्दिग्धगुणा इत्याह सार्वधातुके परे उप्रत्यये इत्यर्थंः चन्द्रस्तु गुणाभावं सहते यदाह अर्णोतीत्याद्युदाहृत्य क्षिणेर्धातोर्लघोरुपान्त्यस्य गुणो नेष्यत इत्येतस्यान्योऽभिप्रायो मृग्य इति अतः काश्यपादयः "करोतेश्च'' "मिदेश्च'' इति सूत्रमन्यथाऽव्याख्यानम् करोतेः सम्बन्धिनि विकरणे धातोर्गुणो भवतीति अत्र वर्द्धमानः करोतेः सम्बन्धिनि गुण इति व्याख्यानं न्याय्यमिति, मुनित्रयाविरोधादस्य न्याय्यत्वम् 5
कृदन्तरूपमाला
Sanskrit
1 {@“ऋणु गतौ”@} 2 3 अर्णकः-र्णिका, अर्णकः-र्णिका, 4 अर्णिनिषकः-षिका
अर्णिता-त्री, अर्णयिता-त्री, अर्णिनिषिता-त्री
5 अर्णुवन्-वती, अर्णयन्-न्ती, अर्णिनिषन्-न्ती
अर्णिष्यन्-न्ती-ती, अर्णयिष्यन्-न्ती-ती, अर्णिनिषिष्यन्-न्ती-ती
6 अर्णुवानः, अर्णयमानः, अर्णिनिषमाणः
अर्णिष्यमाणः, अर्णयिष्यमाणः, अर्णिनिषिष्यमाणः
7 ऋत्-ऋतौ-ऋतः
-- -- 8 ऋतम्-ऋतः-ऋतवान्, अर्णितं-तः, अर्णिनिषितः-तवान्
9 ऋणः, अर्णः, अर्णिनिषुः, अर्णिनयिषुः
अर्णितव्यम्, अर्णयितव्यम्, अर्णिनिषितव्यम्
अर्णनीयम्, अर्णनीयम्, अर्णिनिषणीयम्
10 ऋण्यम्, अर्ण्यम्, अर्णिनिष्यम्
ईषदर्णः-दुरर्णः-स्वर्णः
-- -- अर्ण्यमानः, अर्ण्यमाणः, अर्णिनिष्यमाणः
11 अर्णः, 12 स्वर्णम्, अर्णः, अर्णिनिषः
अर्णितुम्, अर्णयितुम्, अर्णिनिषितुम्
ऋतिः, अर्णना, अर्णिनिषा, अर्णिनयिषा
अर्णनम्, अर्णनम्, अर्णिनिषणम्
13 अर्णित्वा-ऋत्वा, अर्णयित्वा, अर्णिनिषित्वा
14 समृत्य, 15 प्रार्त्य, समर्ण्य, समर्णिनिष्य
अर्णम् २, अर्णित्वा २, ऋत्वा २, अर्णम् २, अर्णयित्वा २, अर्णिनिषम्
अर्णिनिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२३)
02
=>
(८-तनादिः-१४६७। सक। सेट्। उभ।)
03
=>
[[१। ‘पुगन्तलघूपधस्य--’ (७-३-८६) इति गुणः।]]
04
=>
[[२। धातुरयं नकारान्तः, णत्वं तु लाक्षणिकम्। अतः ‘नि’ शब्दस्यैव ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। पूर्वखण्डे रेफात् परत्वात् णत्वम्, उत्तरखण्डे तु नकारस्यैव श्रवणम्। ‘पूर्वत्रासिद्धमद्वित्वे’ (वा। १-१-५८) इति तु
\n\n ‘उभौ साभ्यासस्य’ (८-४-२१) इति लिङ्गात् तस्यानित्यत्वात्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। ‘तनादिकृञ्भ्य डः’ (३-१-७९) इति उः विकरणप्रत्ययः। विकरणनिमित्तके गुणे, उवङि रूपम्। आत्रेयादयस्तु ‘संज्ञापूर्वको विधिरनित्यः’ इत्यङ्गीकृत्य ‘ऋण्वन्-ण्वती’ इति गुणरहिततया रूपं साधयन्ति। तत्र भाष्यानुग्रहो नास्ति।]]
06
=>
[[आ। ‘तन्वन् मञ्चभुवि सातरसः स्वबन्धून् अक्षण्वतां क्षितिकरो मुदमर्णुवानः। कंसस्तृणीकृतरिपुर्धृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
07
=>
[[४। ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे तुक्।]]
08
=>
[[५। उदित्त्वात् क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायां इण्णि- षेधः। अनुनासिकलोपः। एवं क्तिनि, इडभावपक्षे क्त्वाप्रत्यये बोध्यम्।]]
09
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
10
=>
[[७। ‘ऋदुपधाच्चाकॢपि--’ (३-१-११०) इति क्यप्।]]
11
=>
[पृष्ठम्०१२५+ २३]
12
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्य’ इति न्यायात् नपुंसकलिङ्गत्वम्।]]
13
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
14
=>
[[३। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणात् अनुनासिकलोपो नित्यः। तुक्।]]
15
=>
[[४। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिरेकादेशः।]]