| YouTube Channel

ऋणी (RNI)

 
E Bharati Sampat
Sanskrit
(वि)(ऋणिन्) ऋणमस्य अस्ति ऋण+इनिः+ङीप् ‘अत इनिठनौ’ ५.२.११५। ‘जायमानो वै ब्राह्मणः त्रिभिर्ऋणैर्ऋणी भवति ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ श्रुतिः। (स्त्री) ऋण+इनिः+ङीप् ‘अत इनिठनौ’ ५.२.११५, ‘ऋन्नेभ्यो ङीप्’ ४.१.५। ऋणिनी
Wordnet
Sanskrit
Synonyms:
ऋणीकः, ऋणवान्, ऋणकर्ता, ऋणी, धारणकः, धारकः, ऋणग्रस्तः, अधमर्णः, अधमर्णी
noun
येन ऋणं गृहीतम्।
"वित्तकोषाधिकारः पूर्वतनान् ऋणीकान् ऋणं प्रत्यर्पयितुम् अकथयत्।"
शब्दकल्पद्रुमः
Sanskrit
ऋणी, [न्] त्रि, (ऋणमस्यास्तीति ऋण + इनि ।)ऋणग्रस्तः धारी
(“जायमानो वै ब्राह्मणः त्रिभिरृणैरृणी भवति” ।इति श्रुतिः “ऋणी स्यात् यथा पिता” ।इति दायभागे
)