| YouTube Channel

ऋणिधनिचक्र (RNidhanicakra)

 
Aufrecht Catalogus Catalogorum
English
ऋणिधनिचक्र tantr. AS p. 32.
वाचस्पत्यम्
Sanskrit
ऋणिधनिचक्र
न०
तन्त्रोक्ते ग्राह्यमन्त्रशु भाशुभज्ञानार्थे चक्रभेदे तच्चक्रलेखनप्रकार उक्तः तन्त्रसारे “अथ ऋणि-धनिचक्रम् तद्यथा रुद्रया० “कोष्ठन्येकादशैवेह वेदेनपूरितानि अकारादिहकारान्तं लिखेत् कोष्ठेषु तन्त्र-वित् प्रममं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु द्वयं द्वयंलिखेत् तत्र विचारे खलु साधकः शेषेष्वेकैकशोवर्णान्क्रमतस्तु लिखेत् सुधीः षट्कालकालवियदग्निसमुद्रवेदखाकाशशून्यदहनाः खलु साध्यवर्णाः युग्मद्विपञ्चवियदम्बरयुक्शशाङ्कव्योमाब्धि वेदशशिनः खलु साध्य-कार्णाः नामाज्झलादकठबाद्गजभक्तशेषं ज्ञात्वोभयोरधि-कशेषमृणं धनं स्यात्” अस्यार्थः साध्यवर्णान् स्वरव्यञ्जन-रूपेण पृथक्कृतान् षट्कालाद्यङ्कैर्गणितान् (मिलितान्) तथासाधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि युन्माद्यै-रङ्कैर्गणयित्वा (सकङ्कलय्य) अष्टसंख्याभिर्हृत्वा उभयोः साध्य-साधकयोश्चाधिकम् ॠणंशेषं धनं ज्ञात्वा मन्त्रं दद्यात् ।मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति धनीचेन्न तन्त्रान्तरे “मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी चतुल्यो यदा समफलः कथितो मुनीन्द्रैः” अन्यच्च “शून्येमृत्युमवाप्नोति धने विफलोभवत् ऋणे तु प्राप्ति-मात्रेण सर्वसिद्धिस्तु जायते” तथा रुद्रयामले “मन्त्रेयद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः समेऽपिजपेन्मन्त्रं जपेत् तु ऋणाधिके शून्ये मृत्युं विजा-नीयात् तस्मात् शून्यं विवर्ज्जयेत् “तथा इन्द्रर्क्षनेत्र रविप-ञ्चदशर्त्तुवेदवह्न्यायुधाष्टनवभिर्गुणितानथ साध्यवर्णान् दि-ग्सूगिरिश्रुतिगजाग्निमुनीषुवेदैः षड्वह्निभिस्तु गुणितानथसाधकार्णान्” इदन्तु वचनं विष्णुविषयम् रामार्चनचन्द्रिकाधृतत्वादिति केचित् वस्तुतस्तु पूर्वस्यैव विवरणं तथाहि इन्द्रर्क्षनेत्रेत्याद्यनन्तरं “नामार्णकोष्ठाङ्मथाभि-हन्यात् एकादिरुद्राङ्कगतक्रमेण” व्यक्तं रुद्रयामसे“साध्याङ्कान् साधकाङ्कांश्च पूरयेद्ग्रहसंख्यया गुणिते तुहृतेऽष्टाभिर्यच्छेषं जायते स्फुटम् तदङ्कं कथयाम्यत्रएकादशगृहस्थितम्” इत्युक्त्वा षट्कालेत्याद्युक्तम् प्र-कारान्तरं यथा “नामाद्यक्षरमारभ्य यावत् मन्त्रादिमा-क्षरम् त्रिधाकृत्वा स्वरैर्भिन्नं तदन्यद्विपरीतकम्” अस्यार्थःसाधकनामाद्यक्षरतोगणनया यावत् मन्त्रादिमाक्षरम् तत्-संख्यां त्रिधा कृत्वा सप्तभिर्हृत्वा अधिकम् ऋणं शेफंधनंस्यात् तदन्यदिति मन्त्राद्यक्षरमारभ्य यावत् साधकाद्य-क्षरं भवेत् तावत् संख्यां सप्तगुणां कृत्वा त्रिभिर्हरेत् ।अन्यच्च “साध्यनाम द्विगुणितं साधकेन समन्वितम् अ-ष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम्” अस्यार्थः साध्य-नामस्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकनाम्ना स्वरव्यञ्ज-नभेदेन मिलितं कृत्वा अष्टभिर्हरेत् अधिकम् ऋणंशेषं धनम् तदन्यदिति साधमनाम खण्व्यंञ्जनभेदेनद्विगुणीकृत्य साध्यं युक्तं कृत्वा अष्टभिर्हरेत् नामग्र-हणप्रकारमाह पिङ्गलामते “प्रसिद्धं यद्भवेन्नाम किंवास्य जन्मनामतः यवीनां पुष्पपातेन गुरुणा यत्कृतं भवेत् लोकप्रसिद्धमथ वा मात्रा पित्रा तथा कृ-तम्” यामले “सुप्तोजागर्त्तियेनासौ दूरस्थश्च प्रभाषते ।वदत्यन्यमनमस्कोऽपि तन्नाम ग्राह्यमत्र तु” सनत्कु-मारीये “पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् ।श्रीवर्ण्णञ्च ततो विद्वान् चक्रेषु योजयेत् क्रमात्”