| YouTube Channel

ऋणलेख्य (RNalekhya)

 
Spoken Sanskrit
English
ऋणलेख्य - RNalekhya -
n.
- note of hand
ऋणलेख्य - RNalekhya -
n.
- bond
Monier Williams Cologne
English
ऋण—लेख्य
n.
a bond, note of hand.
Apte Hindi
Hindi
ऋणलेख्यम्
नपुं*
ऋणम्-लेख्यम् -
ऋण-बन्धपत्र' तमस्सुक जिसमें ऋण की स्वीकृति दर्ज हो
L R Vaidya
English
fRa-leKya {% n. %} a bond acknowledging a debt (in law).
वाचस्पत्यम्
Sanskrit
ऋणलेख्य
न०
ऋणसूचकं लेख्यं लेखपत्रम् ऋणग्रहण-सूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादिप्रसिद्धे पत्रभेदे तल्लेखनप्रकारादि मिता० दर्शितंयथा “तत्र लेख्यं द्विबिधं शासनं जानपदं चेति शा-सनं निरूपितं जानपदमभिधीयते तच्च द्विविधम्स्वहस्तकृतमन्यकृतं चेति तत्र स्वहस्तकृतमसाक्षिकम्, अन्यकृत ससाक्षिकम् अनयोश्च देशाचारानुसारेणप्रामाण्यम् यदाह नारदः “लेख्यन्तु द्विविधंज्ञेयं स्वहस्तान्यकृतं तथा असाक्षिमत्साक्षिमच्च सिद्धि-र्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह “यः कश्चिद-र्थोनिष्णातः स्वरुच्या तु परस्परम् लेख्यन्तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम्” या० धनिकाधमर्णयोर्योऽर्थोहिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमि-तीयती प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः त-स्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम्साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन्तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत्कार्यं कर्त्तव्यम् उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः“कर्त्रा तु यत्कृतं कार्यं सिद्ध्यर्थन्तस्य साक्षिणः प्रवर्त्तन्तेविवादेषु स्वकृतं वाप्यलेखकमिति” स्मरणात् अपि च“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः सब्रह्मचारिका-त्मीयपितृनामादिचिह्नितम्” या० समा संवत्सरः मासःचैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रति-पदादिः नाम धनिकाधमर्णयोः जातिः ब्राह्मणादिःस्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम् तथासब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचःकठ इति आत्मीयपितृनाम धनिकर्णिकपितृनाम ।आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम् एतेश्चि-ह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः किञ्च “समाप्तेऽर्थेऋणी नाम स्वहस्तेन निवेशयेत् मतं मेऽसुकपुत्रस्य यद-त्रोपरि लेखितम्” या० धनिकाधमर्णयोर्योऽर्थः स्वरुच्याव्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोना-मात्मीयं स्वहस्तेनास्मिँल्लेख्ये यदुपरि लेखितं तन्ममामुक-पुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् ।तथा “साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् अत्राहम-मुकः साक्षी लिखेयुरिति ते समाः” या० तस्मिन् लेख्ये येसाक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मि-न्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लि-खेयुस्ते समाः संख्यातो गुणतश्च कर्त्तव्याः यद्यधमर्णःसाक्षी वा लिपिज्ञो भवति तदाऽधमर्णोऽन्येन साक्षी चसाक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत् यथा-ह नारदः “अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु सलेखयेत् साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः”इति अपि “उभयाभ्यर्थितेनैतन्मयाह्यमुकसूनुना ।लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” या० ततोलेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽ-मुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखित-मित्यन्ते लिखेत्” साम्प्रतं स्वकृतं लेख्यमाह “विनापिसाक्षिभिर्ल्लेख्यं स्वहस्तलिखितं तु यत् तत्प्रमाणं स्मृतंलेख्यं बलोपधिकृतादृते” या० यल्लेख्यं स्वहस्तेन लिखितंअधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वा-दिभिः बलोपधिकृतादृते बलेन बलात्कारेण, उप-धिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्वि-ना नारदोऽप्याह “मत्ताभियुक्तस्त्रीबालबलात्कार-कृतं यत् तदप्रमाणं लिखितं भयोपधिकृतन्तथेति” ।तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानु-सारेण सबन्धकव्यवहारे बन्धकव्यवहारयुक्तमर्थक्रमापरि-लोपेन लिप्यक्षरापरिलोपेन लेख्यमित्येतावन्न पुनःसाधुशब्दैरेव प्रातिस्विकदेशभाषयापि लेखनीयम् यथा-ह नारदः “देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्ष-णम् तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति” ।विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्षणम् गो-प्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्ट य-स्मिंस्तद्व्यक्ताधिविधिलक्षणम् अविलुप्तक्र माक्षरम्अर्थानां क्रमः क्रमश्चाक्षराणि क्रमाक्षराणि अविलुप्ता-नि क्रमाक्षराणि यस्मिंस्तटविलुप्तक्रमाक्षरम् तदेवंभूतं लिखितं प्रमाणम् राजशासंनवन्न साधुशब्दनिय-मोऽत्रेत्यभिप्रायः लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभि-रेव देयमित्याह “ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयम् तथा लेख्यकृ-तमप्याहर्तृपुत्रतत्पुत्रैस्त्रिभिरेव देयम् चतुर्थादि-भिरिति नियम्यते ननु पुत्रपौत्रैरृणन्देयमित्यविशे-षेणर्ण्णमात्रं त्रिभिरेव देयमिति नियतमेव बाढम-स्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभबामपवादशङ्कामपनेतुमिदं वचनमारब्धम् तथा हि पत्रलक्षण-मभिधाय कात्यायनेनाभिहितम् “एवं कालमतिक्रान्तंपितॄणां दाप्यते ऋणमिति” इत्थं पत्रारूढमतिक्रान्त-कालमपि पितॄणां सम्बन्धि दाप्यते अत्र पितॄणा-मिति बहुवचननिदशात् कालमतिक्रान्तमिति वचना-च्चतुर्थादिर्दाप्यत इति प्रतीयते तथा हारीतेनापि“लेख्यं यस्य भवेद्धस्ते लाभन्तस्य विनिर्दिशेदिति” अत्रापियस्य हस्ते पत्रमस्ति तस्यर्ण्णलाभ इति साभान्येन चतुर्था-दिभ्योप्यृणलाभोऽस्तीति प्रतीयते अतश्चैतदाशङ्कानिवृत्त्यर्थम् एतद्वचनमिति युक्तम् वचनद्वयन्तु योगीश्वरवच-नानुसारेण योजनीयम् अस्यापवादमाह “आधिस्तुभुज्यते तावद्यावत्तन्न प्रदीयते” सबन्धकेऽपि पत्रारूढेऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधिकारेणा-ऽऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते यावच्चतुर्थेनपञ्चमेन वा ऋणं दीयते तावदेवाधिर्भुज्यत इति वदतासबन्धकर्ण्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः नन्वे-तदप्ययुक्तमेव “फलभोग्यो नश्यतीति” सत्थम् तदप्येतस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादितिसर्वमनवद्यम् प्रसिङ्गिकं परिसमाप्य प्रकृतमेवानुसरति ।“देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा भिन्ने दग्धे-ऽथवा छिन्नेलेख्यमन्यत्तु कारयेत्” या० व्यवहाराक्षमे पत्रेपत्रान्तरं कुर्यादिति विधीयते व्यवहाराक्षमत्वं चा-त्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्ल्लेख्ये दुष्टानि सन्दि-ह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणिपदानि वा यस्मिंस्तस्मिन् दुर्ल्लेख्ये नष्टे कालवशेन, उन्मृष्टेमसीदौर्बल्यादिना, मृदिते लिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे अग्निना, छिन्ने द्विधाभूते सति द्वि-र्भवति एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्या-न्तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाध्वापेक्षयाकालोदातव्यः दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभि-रेव व्यवहारनिर्ण्णयः कार्यः यथा नारदः “लेख्येदेशान्तरन्यस्ते शीर्ण्णेदुर्ल्लिखिते हृते सतस्तत्कालक-रणमसतोद्रष्टृदर्शनमिति” सतो विद्यमानपत्रस्य देशान्तर-स्थस्यानयनाय कालकरणं कालावधिर्दातव्यः असतःपुनरविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनंव्यवहारपरिसमापनं कार्यम् यदा तु साक्षिणो नसन्ति तदा दिव्येन निर्ण्णयः कार्यः “अलेख्यसाक्षिकेदैवीं व्यवहारे विनिर्दिशेदिति” स्मरणात् एतच्च जान-पदं व्यवस्थापत्रं सन्दिग्धं चेत् स्वहस्तलिखितादिभिः शोध-नीयम् “सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिःक्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः” या० उक्तेः