| YouTube Channel

ऋज्यमानः (RjyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ऋज गतिस्थानार्जनोपार्जनेषु”@} 2 ‘ऊर्जनेषु’ इति क्षीरस्वाम्यादीनां पाठः।
ऊर्जनम् = शक्तिप्राप्तिः प्राणनं वेति धातुकाव्ये।
‘ऋञ्जते भर्जने, गत्याद्यर्थे स्यादर्जते त्वृजेः।’ 3 इति देवः।
4 अर्जकः-र्जिका, अर्जकः-र्जिका, अर्जिजिषकः-षिका
अर्जिता-त्री, अर्जयिता-त्री, अर्जिजिषिता-त्री
-- अर्जयन्-न्ती, अर्जयिष्यन्-न्ती-ती
5 अर्जमानः, अर्जयमानः, अर्जिजिषमाणः
अर्जिष्यमाणः, अर्जयिष्यमाणः, अर्जिजिषिष्यमाणः
ऋक्-ऋग्-ऋजौ-ऋजः
-- -- ऋजितम्-तः-तवान्, 6 उपार्जितः, अर्जितः-तम्, अर्जिजिषितः-तवान्
ऋजः, अर्जः, अर्जिजिषुः, अर्जिजयिषुः
अर्जितव्यम्, अर्जयितव्यम्, अर्जिजिषितव्यम्
अर्जनीयम्, अर्जनीयम्, अर्जिजिषणीयम्
7 ऋज्यम्, अर्ज्यम्, अर्जिजिष्यम्
ईषदर्जः, दुरर्जः, स्वर्जः
-- -- ऋज्यमानः, अर्ज्यमानः, अर्जिजिष्यमाणः
अर्जः, 8 स्वर्गः, अर्जः, अर्जिजिषः
अर्जितुम्, अर्जयितुम्, अर्जिजिषितुम्
ऋक्तिः, अर्जना, अर्जिजिषा, अर्जिजयिषा
अर्जनम्, अर्जनम्, अर्जिजिषणम्
9 अर्जित्वा, अर्जयित्वा, अर्जिजिषित्वा
समृज्य, समर्ज्य, समर्जिजिष्य
अर्जम् २, अर्जित्वा २, अर्जम् २, अर्जयित्वा २, अर्जिजिषम्
अर्जिजिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२१)
02
=>
(१-भ्वादिः-१७६। सक। सेट्। आत्म।)
03
=>
(श्लो-६२)
04
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैश्शुभार्जकैः। समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।]]
05
=>
[पृष्ठम्०१२२+ २४]
06
=>
[[१। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिः।]]
07
=>
[[२। ‘ऋदुपधाच्च--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
08
=>
[[३। ‘सुप्रु ऋज्यते = स्थीयते अस्मिन्--इत्यधिकरणे संज्ञायां ‘हलश्च’ (३-३-१२१) इति घञ्। न्यङ्क्वादित्वात् (७-३-५३) कुत्वम्।’ इति अमरसुधा। निष्ठायां सेट्त्वात् अर्ज इत्यत्र कुत्वं न।]]
09
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद्गुणः।]]