| YouTube Channel

ऋजि (Rji)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋञ्ज्
मूलधातुः:
ऋजि
धात्वर्थः:
भर्जने (भर्जनं पाकविशेषः)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ऋञ्जते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
ऋजिँ ऋजि
मानकरूपान्तरम् - भृजीँ
भृजी भर्जने
- ऋञ्जते ऋञ्जाञ्चक्रे नुमागमनिमित्तापि यस्य गुरुमत्ता ततोऽप्याम् भवति यथा इन्दाञ्चकार केचित् तु अनृञ्चे इति प्रत्युदाहरन्ति तत्रेन्धिवतिभ्याञ्च (1/2/6) इति इन्धिग्रहणेनानित्य आमिति ज्ञापितमेतत् तदनित्य आमिति भवतीति यथा कथञ्चित् समाधेयम् भर्जते बभृजे भर्जिता बिभर्जिषते भृक्तः। भृक्तवान् षत्वमनिट्त्वञ्चास्य नास्तीति भ्रस्जो रोपधयोः (6/4/47) इत्यत्रोक्तम् ।। 174, 175 ।।
क्षीरतरङ्गिणी
Sanskrit
ऋजिँ ऋजि
मानकरूपान्तरम् - भृजीँ
भृजी भर्जने
(अर्थविवरणम्) भर्जनं पाकप्रकारः
ऋञ्जते, आनृञ्जे उणादौ (द्र0422) ऋजीकं पिष्टपचनम् भर्जते घञ् (द्र03319) भर्गो रुद्रः ईदित्वाद् (द्र07214) भृक्तः भृष्ट भ्रस्जेः (64) रूपम् अबीभृजत्, अबभर्जत् ऋदुपधाच्चाक्लृपिचृतेः (31110) क्यप् - भृज्यम् अवश्यभर्ज्यम् ण्य आवश्यके (7365) इति कुत्वाभावः उणादौ भर्जूरभ्योषः 176, 177
धातुवृत्तिः
Sanskrit
ऋजिँ ऋजि
मानकरूपान्तरम् - भृजीँ
भृजी (अर्थः) भर्जने
द्वितीय ईदित् भर्जनं पाकविशेषः ( ऋञ्जते प्रार्ञ्जते ) "उपसर्गादृति'' इति वृद्धिः ऋञ्जां चक्रे आनृजइति संमतातरङ्गिण्योः तदसत् नुम्विधावुपदेशिवद्वचनात् अत एव काश्यपमैत्रेयादय आममेव सर्व उदाजह्रः ( ऋञ्जिताऋञ्जिष्यते ऋञ्जताम् आर्ञ्जत ऋञ्जेत ऋञ्जिष्ट आर्ञ्जिष्यत "आटश्च'' इति वृद्धिः ऋञ्जिजिषते "न न्द्राः'' इति नवर्जं द्विरुच्यते ( ऋञ्जयति मा भवान् ऋञ्जिजत् भर्ज्जते बभृजे भर्जितेत्यादि बिभर्ज्जिषते बरीभृज्यते ) "रीगृदुपधस्य च'' इति रीक् ( बर्भृजीति बरिभृजीति बरीभृजीति बर्भर्क्ति बरिभर्क्ति बरीभर्क्ति ) "रुगृकौ लुकि'' इति रुग्रिकौ, ( भर्जयति अबीभृजत् ) उरृद्वा अन्यदा ( अबभर्जत् भृक्तः भृक्तवान् ) "श्वीदितो निष्ठायाम्'' इति अनिट्त्वम् भर्गः घञि कुत्वम् भ्रस्ज पाक इति तुदादौ 176
कृदन्तरूपमाला
Sanskrit
1 {@“ऋजि भर्जने”@} 2 भर्जनम् = पाकविशेषः।
‘ऋञ्जते भर्जने, गत्याद्यर्थे स्यादर्जने त्वृजेः।’ 3 इति देवः।
4 5 ऋञ्जकः-ञ्जिका, ऋञ्जकः-ञ्जिका, 6 ऋञ्जिजिषकः-षिका
ऋञ्जिता-त्री, ऋञ्जयिता-त्री, ऋञ्जिजिषिता-त्री
-- ऋञ्जयन्-न्ती, ऋञ्जयिष्यन्-न्ती-ती
ऋञ्जमानः, ऋञ्जयमानः, ऋञ्जिजिषमाणः
ऋञ्जिष्यमाणः, ऋञ्जयिष्यमाणः, ऋञ्जिजिषिष्यमाणः
ऋन्-ऋञ्जौ-ऋञ्जः
-- -- 7 ऋञ्जितः-तं-तवान्, ऋञ्जितं-तः, ऋञ्जिजिषितः-तवान्
ऋञ्जः, ऋञ्जः, ऋञ्जिजिषुः, ऋञ्जिजयिषुः
ऋञ्जितव्यम्, ऋञ्जयितव्यम्, ऋञ्जिजिषितव्यम्
ऋञ्जनीयम्, ऋञ्जनीयम्, ऋञ्जिजिषणीयम्
8 ऋञ्ज्यम्, ऋञ्ज्यम्, ऋञ्जिजिष्यम्
ईषदृञ्जः, दुरृञ्जः, स्वृञ्जः
-- 9 ऋञ्ज्यमानः, ऋञ्ज्यमानः, ऋञ्जिजिष्यमाणः
ऋञ्जः, ऋञ्जः, ऋञ्जिजिषः
ऋञ्जितुम्, ऋञ्जयितुम्, ऋञ्जिजिषितुम्
ऋञ्जा, ऋञ्जना, ऋञ्जिजिषा, ऋञ्जिजयिषा
ऋञ्जनम्, ऋञ्जनम्, ऋञ्जिजिषणम्
ऋञ्जित्वा, ऋञ्जयित्वा, ऋञ्जिजिषित्वा
समृञ्ज्य, समृञ्ज्य, समृञ्जिजिष्य
ऋञ्जम् २, ऋञ्जित्वा २, ऋञ्जम् २, ऋञ्जयित्वा २, ऋञ्जिजिषम्
ऋञ्जजिषित्वा २। 10
प्रासङ्गिक्यः
01
=>
(१२२)
02
=>
(१-भ्वादिः-१७७। सक। सेट्। आत्म।)
03
=>
(श्लो-६२)
04
=>
[पृष्ठम्०१२३+ २२]
05
=>
[[१। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
06
=>
[[२। ‘न न्द्राः--(६-१-३) इति नकारस्य द्वित्वनिषेधः।]]
07
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः। समृञ्जितं कन्दममृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।]]
08
=>
[[३। निष्ठायां सेट्त्वात् ‘चजोः कु--’ (७-३-५२) इति कुत्वं न।]]
09
=>
[[४। अस्य धातोरिदित्त्वात् ‘अनिदितां हल--’ (६-४-२४) इति नलोपो न।]]
10
=>
[पृष्ठम्०१२४+ २४]