| YouTube Channel

ऋज (Rja)

 
शब्दसागरः
English
ऋज r. 1st cl. (अर्जते)
1. To go.
2. To stand or be firm.
3. To be strong.
4. To acquire, to gain or earn.
5. To live. With a prefix ending in
अ, the radical vowel is changed to आर, as in the pass. voice,
(प्रार्ज्यते) (इ) ऋनि (ऋजते) To fry.
Wilson
English
ऋज r. 1st cl. (अर्जते)
1 To go.
2 To stand or be firm.
3 To be strong.
4 To acquire, to gain or earn.
5 To live. With a prefix ending in अ, the radical vowel is changed to
आर, as in the pass. voice, (प्रार्ज्यते.) (इ) ऋजि (ऋजते) To
fry.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऋज्
मूलधातुः:
ऋज
धात्वर्थः:
गति-स्थान-अर्जन-उपार्जनेषु
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
अर्जते
धातुप्रदीपः
Sanskrit
ऋजँ ऋज गति, स्थानार्जन, उपार्जनेषु
- अर्जते ऋकारस्थोऽपि रेफो द्विहल्ग्रहणसामर्थ्याद्धल्ग्रहणेन गृह्यते तस्मान्नुड् (7/4/71) इति नुट् आनृजे ।। 173 ।।
शब्दकल्पद्रुमः
Sanskrit
ऋज, गत्याम् स्थैर्य्ये ऊर्ज्जने अर्ज्जने इतिकविकल्पद्रुमः
(भ्वादिं-आत्मं-सकं-अकञ्च-सेट् ।)ङ अर्ज्जते ऊर्ज्जनं जीवनं बलवद्भावश्च इतिदुर्गादासः
ऋज, भृजि इति कविकल्पद्रुमः
(इदित्भ्वादिं-आत्मं-सकं-सेट् ।) ह्रस्वादिः भृजि भर्जने ।इ ऋञ्ज्यते ऋञ्जते मत्स्यं सूपकारः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
ऋज गतौ ऊर्जने (बलाधाने) अर्ज्जुने
भ्वा०
आत्म०मक० स्थैर्य्ये अक० सेट् ऊर्ज्जते आर्ज्जिष्ट आनृजे
ऋज भर्ज्जने इदित्
भ्वा०
आ०
सक०
सेट् ऋञ्जतेआर्ञ्जिष्ट ऋञ्जां बभूव आस चक्रे ऋञ्जसानः
क्षीरतरङ्गिणी
Sanskrit
ऋजँ ऋज गति, स्थानार्जन, उपार्जनेषु
(अर्थविवरणम्) ऊर्जनम् प्राणनम्
अर्जते, उपार्जते, आनृजे अन्ये तूद्रिक्तोद्रेकार्थं हलादिमेनं मन्यन्ते 175
धातुवृत्तिः
Sanskrit
ऋजँ ऋज (अर्थः) गति, स्थानार्जन, उपार्जनेषु
' अयं पाठो मैत्रेयस्य ऊर्जनेष्विति क्षीरस्वामिधनपालशाकटायनाः अर्जते "उरण् रपरः'' इति रपरो गुणः आनृते अत्र ऋजशब्दस्य द्विर्चचने हलादिशेषे "उरत् '' इति ऋवर्णान्ताभ्यासत्त्वाद् इति नुट् ऋकारैकरेशस्यापि रेफस्य हल्त्वाश्रयणाद् द्विहल्त्वम् तत्र हि द्विहलपरत्वं गौणस्येदृशस्य हलः परिग्रहार्थम् अन्यथा तस्मान्नुडित्येव ब्रूयात् चाटतुरित्यादावेकहल्यतिप्रसङ्गः "अश्नोतेश्च'' इत्यनेनद्विहलो यदि भवत्यश्नोतेरेवेति नियमात्, अस्याश्नोतिमात्रनिवृत्यर्थत्वे नाश्न इत्येव ब्रूयात् "ऐऔच्'' इत्यत्र द्विहल्ग्रहणं करिष्यत इति भाष्यम् तत्र कैयटे "अवर्णोपधस्य यदि भवति अश्नोतेरेवेति नियमाश्रयेण द्विहल्ग्रहणं प्रत्याख्याय नुडुक्तः' ( अर्जिता अर्जिष्यते अर्जताम् आर्जत ) आशिषि ( अर्जिषीष्ट आर्जिष्ट अर्जिष्यत अजादित्वादाडागमः ( अर्जिजिषते ) सनीटि गुणे "न न्द्रा'' इति रेफवर्जं द्विरुच्यते ( अर्जयति आर्जिजत् ) प्रार्ज्यतइत्यत्र कर्मादौ यकि ( सूत्रम्) "उपसर्गादृति धातोः'' (इति सूत्रम्) परे पूर्वपरयोर्वृद्धिरेकादेश इति आर्वृद्धिः ( अर्जित्वा ) "न क्त्वा सेट्'' इत्यकित्त्वाद्गुणः ऋज्यम् "ऋदुपधाच्चाक्लृपिचृतेः'' इति भावकर्मणोः क्यप् 174
कृदन्तरूपमाला
Sanskrit
1 {@“ऋज गतिस्थानार्जनोपार्जनेषु”@} 2 ‘ऊर्जनेषु’ इति क्षीरस्वाम्यादीनां पाठः।
ऊर्जनम् = शक्तिप्राप्तिः प्राणनं वेति धातुकाव्ये।
‘ऋञ्जते भर्जने, गत्याद्यर्थे स्यादर्जते त्वृजेः।’ 3 इति देवः।
4 अर्जकः-र्जिका, अर्जकः-र्जिका, अर्जिजिषकः-षिका
अर्जिता-त्री, अर्जयिता-त्री, अर्जिजिषिता-त्री
-- अर्जयन्-न्ती, अर्जयिष्यन्-न्ती-ती
5 अर्जमानः, अर्जयमानः, अर्जिजिषमाणः
अर्जिष्यमाणः, अर्जयिष्यमाणः, अर्जिजिषिष्यमाणः
ऋक्-ऋग्-ऋजौ-ऋजः
-- -- ऋजितम्-तः-तवान्, 6 उपार्जितः, अर्जितः-तम्, अर्जिजिषितः-तवान्
ऋजः, अर्जः, अर्जिजिषुः, अर्जिजयिषुः
अर्जितव्यम्, अर्जयितव्यम्, अर्जिजिषितव्यम्
अर्जनीयम्, अर्जनीयम्, अर्जिजिषणीयम्
7 ऋज्यम्, अर्ज्यम्, अर्जिजिष्यम्
ईषदर्जः, दुरर्जः, स्वर्जः
-- -- ऋज्यमानः, अर्ज्यमानः, अर्जिजिष्यमाणः
अर्जः, 8 स्वर्गः, अर्जः, अर्जिजिषः
अर्जितुम्, अर्जयितुम्, अर्जिजिषितुम्
ऋक्तिः, अर्जना, अर्जिजिषा, अर्जिजयिषा
अर्जनम्, अर्जनम्, अर्जिजिषणम्
9 अर्जित्वा, अर्जयित्वा, अर्जिजिषित्वा
समृज्य, समर्ज्य, समर्जिजिष्य
अर्जम् २, अर्जित्वा २, अर्जम् २, अर्जयित्वा २, अर्जिजिषम्
अर्जिजिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२१)
02
=>
(१-भ्वादिः-१७६। सक। सेट्। आत्म।)
03
=>
(श्लो-६२)
04
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैश्शुभार्जकैः। समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।]]
05
=>
[पृष्ठम्०१२२+ २४]
06
=>
[[१। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिः।]]
07
=>
[[२। ‘ऋदुपधाच्च--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
08
=>
[[३। ‘सुप्रु ऋज्यते = स्थीयते अस्मिन्--इत्यधिकरणे संज्ञायां ‘हलश्च’ (३-३-१२१) इति घञ्। न्यङ्क्वादित्वात् (७-३-५३) कुत्वम्।’ इति अमरसुधा। निष्ठायां सेट्त्वात् अर्ज इत्यत्र कुत्वं न।]]
09
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद्गुणः।]]