ऋग्विधान (RgvidhAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English ऋग्विधान RgvidhAna employing Rc verses
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiऋग्विधानम्
ऋच्-विधानम् -
ऋग्वेद के मंत्रों का पाठ करके कुछ संस्कारों का अनुष्ठान
Shabdartha Kaustubha
Kannadaऋग्विधान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಋಗ್ವೇದ ಮಂತ್ರಗಳಿಂದ ಕರ್ಮಾಚರಣೆಯನ್ನು ವಿಧಿಸುವ ಗ್ರಂಥ
व्युत्पत्तिः - > ऋचा ऋग्वेदेन कर्मणो विधानं यत्र
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishऋग्विधान attributed to Śaunaka. IO. 1732. W. p. 31.
32 (Jyeṣṭha). Oxf. 382^a. L. 1519. Khn. 8. K. 6.
B. 1, 160 (and C.). Ben. 5. Bik. 144. 145. NP.
VII, 2. X, 6. Oppert 1662. II, 6745. 8013. Peters.
2, 168. Quoted by Ṣaḍguruśiṣya, in Viṣṇu-
dharmottara as stated in Halāyudha's Brāhmaṇa-
sarvasva.
--contained in another recension in Agnipurāṇa. Oxf. 7^b.
Bṛhadṛgvidhāna. L. 1518. Bik. 168. Bh. 7.
Jyeṣṭha, Kaniṣṭha, Bṛhat. Burnell 5^a.
Ṛgvidhānakārikā. Haug 31.
Ṛgvidhāne Gāyatrībrahmakalpaḥ. L. 900.
वाचस्पत्यम्
Sanskritऋग्विधान ऋचा ऋग्वेदेन कर्मविशेषस्य विधानम् ।ऋग्वेदोक्तमन्त्रभेदेन कर्मविशेषविधाने तच्च हेमाद्रौ व्रत-खण्डे विस्तरेणोक्तम् । वह्निपुराणोक्तमत्र दर्श्यते“अग्निरुवाच प्रतिवेदन्तु कर्म्माणि काम्यानि प्रवदामिते । प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ।अन्तर्जले तथा होमे जपतो मनसेप्सितम् । कामं करोतिगायत्री प्राणायामाद्विशेषतः । गायत्र्यादशसाहस्रो जपो-नक्ताशनोद्विजः । आश्रमाद्बहिः स्नातश्च सर्व्वकल्मषना-शनः । दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् ।प्रणवोहि परं ब्रह्म तज्जपः स च पापहा । ओङ्कारशतजप्तस्तु नाभिमात्रोदक्रे स्थितः । जलं पिवेत् स सर्व्वैस्तुपापैर्विप्रः प्रमुच्यते । मात्रात्रयं त्रयोवेदास्त्रयोदेवास्त्र-योऽग्नयः । महाव्याहृतयःसप्त लोकाहोमोमला-पहः । अन्तर्जले तथा राम! प्रोक्तश्चैवाघमर्षणः । अग्नि-मीले पुरोहितं सूक्तोऽयं वह्निदैवतः । शिरसा धारयन्वह्निं योजपेत् परिवत्सरम् । होमं त्रिषवणं भैक्ष्यमन-ग्निज्वलन चरेत् । अतःपरमृचां सप्त आद्याद्या याः प्रको-र्त्तिताः । भोजयन् प्रयतोनित्यमिष्टान् कामान् समश्नुते ।मेधाकामोजपेन्नित्यं सदसस्पतिमित्यृचम् । अम्ब य-जन्ति याः प्रोक्ता नवर्च्चो मृत्थुनाशनः । शुनःशेफमृषिंवद्धः सन्निरुद्धोऽथ वा जपेत् । मुच्यते सर्व्वपापेभ्यो गदीचाप्यगदी भवेत् । यैच्छेत् शाश्वतं कामं मित्रं प्राज्ञंपुरन्दरम् । ऋग्भिः षोडशभिः कुर्य्यादिन्द्रस्येति दिने-दिने । हिरण्यस्तु समिह्येतत् जपन् शत्रून् प्रवाधते ।क्षेमी भवति चाध्माने ये ते पन्था जपन्नरः । रौद्रीतिषद्भिरीशानं स्तूयाद्योवै दिने दिने । चरुं वा कल्पयेद्रौद्रंतस्य शान्तिः परा भवेत् । उद्यद्युदितमादित्यमुपतिष्ठन्दिनेदिने । क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविना-शनः । द्विषन्तमित्यथर्व्वेदं यद्विष्यान्तं जपन् स्मरेत् ।आगम्यो सप्तरात्रेण विद्वेषमधिगच्छति । आरोग्य-कामोयोधी च प्रज्ञश्चाम्यात्तमञ्जपेत् । उत्तमस्तस्यचार्द्धाधोजपेद्वैरिविनाशने । उदयस्यायुरक्षय्यं तेजो म-ध्यंदिने जपेत् । अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबा-धने । तव यश्चेति सूक्तानि जपन् शत्रून्नियच्छति । एक-देशं सुवर्ण्णस्य सर्व्वकामान् विनिर्द्दिशेत् । आध्या-त्मिका क इत्येता जपन्मोक्षमवाप्नुयात् । आ नोभद्रा इ-त्यनेन दीर्घमायुरवाप्नुयात् । त्वा सोमेति च सूक्तेननवं पश्यन्निशाकरम् । उपतिष्ठेत् समित्पाणिर्व्वासां-स्याप्नोत्यसंशयम् । आयुरायूंषि समिति कोषसृक्कन्तदा-जपेत् । अपानः शीशुचदिति स्तुत्वा मध्ये दिवाकरम् ।यथा मुञ्चति चेषोकान्तथा पापं प्रमुञ्चति । जातवेदसइत्येतज्जपेत् स्वस्त्ययनं पथि । भयैर्विमुच्यते सर्व्वैः स्वस्ति-मानाप्नुयाद् गृहम् । व्युष्टायाञ्च तशा रात्र्यामेतद्दुःस्वप्तनाशनम् । प्रमन्दिनेति भूयत्यां जपेद्गर्भविमोच-नम् । जपन्निन्द्रमिति स्नातो वैश्यदेवं तु सप्तकम् । मु-ञ्चत्येभ्यस्तथा जुह्वत् सकलं किल्विषं नरः । इमामितिजपन् शश्वत् कामानाप्नोत्यभीप्सितान् । मा नस्तोक इतिद्वाभ्यां त्रिरात्रोपोषितः शुचिः । औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंभृताः । छित्वा सर्व्वान् मृत्युपाशान् जी-वेद्रोगविवर्ज्जितः । ऊर्द्ध्वबाहुरनेनैव स्तुत्वा शम्भुंतथैव च । मा नस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।अधृष्यः सर्व्वभूतानां जायते संशयं विना । चित्रमि-त्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा । समित्पाणिर्न-रोनित्यमीप्सितं धनमाप्नुयात् । दुःस्वप्नं नुदते कृत्स्नंभोजनं चाप्नुयाच्छिवम् । हतेषणामीति तथा रक्षोघ्नःपरिकीर्त्तितः । यदि वासा इत्यृचेन जपन् कामानवाप्नुयात् । नमोयवन्निति जपन् सुप्रगे तापनः शुचिः ।कयान इति च जपन् जातिश्रैष्ठ्यमवाप्नुयात् । इमन्ते-सोममित्येतत् सर्वान् कामानवाप्नुयात् । पितुरृक्षूपतिष्ठेतनित्यमन्नमुपस्थितम् । अग्नेतत् पतिसूक्तेन स्निग्धमाप्नो-त्यनुत्तमम् । योमेराजन्नित्यपान्तु दुःस्वप्रथमनीमृचम् ।अध्वनि प्रस्थितो यस्तु पश्येच्छुभमथाशुभम् । अप्रशस्तंप्रशस्तं वा कनिक्रदमिमं जपेत् । द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमम् । पूर्व्वं सुप्रयतोनित्यमिष्टान् कामान्समश्नुते । कृणुष्वेति जपेन्मन्त्रं जुह्वदाज्यं समाहितः ।अरातीनां हरेत् प्राणं रक्षांस्यपि च नाशयेत् । उपति-ष्ठेत् स्वयं वह्निं परीत्यृचं दिने दिने । सुरक्षति स्ययंवह्निर्विश्वतो विश्वतोमुखः । हंसं शुचिषदित्येत् शुचिर्वीक्षेत्दिवाकरम् । ऋषिं प्रपद्यमानन्तु स्थालीपाकं यथाविधि ।जुहुयात् क्षेत्रमध्ये तु स्थालीपाकांस्तु पञ्चभिः । इन्द्रयममरुत्सूर्य्यपर्ज्जन्याय भगाय च । यथालिङ्गं तुविहरे लाङ्गलन्तु कृषीवलः । प्रोक्तोधान्याय सीतायै सु-नासीरमथोत्तरम् । गन्धमाल्यनमस्कारैर्जपेदेताश्च दे-वताः । प्रवापने प्रलवने खले स्थापनहारयोः । अमोघंकर्म्म भवति वर्द्धते सर्व्वदा कृषिः । समुद्रादिति सू-क्तेन कामानाप्नोति पावकात् । वैश्वानर इति द्वाभ्यांय ऋग्भ्यां वह्निमर्हति । स तरत्यापदः सर्वा यशःप्राप्नोति चाक्षयम् । विपुलां श्रियमाप्नोति जयं प्राप्नोत्य-नुत्तमम् । अग्ने त्वमिति च स्तुत्वा धनमाप्नोति चोच्छ्रितम् ।प्रजाकामोजपेन्नित्यमरुणादेवमित्यृचम् दत्तात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं महत् । स्वस्ति पन्था इति प्रोच्य स्व-स्तिमान् व्रजतेऽध्वनि । विजिगीषुर्वनस्पते शत्रूणांव्याधिदम्भवेत् । स्त्रियागर्भप्रसूताया गर्भमोक्षणमुत्त-मम् । आ बद्धादिति सूक्तञ्च वृष्टिकामः प्रयोजयेत् । नि-राहारः क्लिन्नवासो नचिरेण प्रवर्षति । मनसः काम-मित्येतां पशुकामो नरोजपेत् । कर्द्दमन इति स्नायात्प्रजाकामः शुचिव्रतः । अग्रे पूर्व्वामिति स्नायाद्राज्यका-मस्तु मानवः । लोहिते चर्मणि स्नायात् ब्राह्मणस्तु यथाविधि । क्षत्रश्चर्मणि वै व्याघ्रे छागे वैश्यस्तथैव च । दशसाह-स्रिकोहोमः प्रत्येकं परिकीर्त्तितः । आ गा वहेति सूक्तेनगोष्ठे गां लोकमातरम् । उपतिष्टेज्जपेच्चैव यदीच्छेत्ताःसदाऽक्षयाः । उपेते तिसृभीराज्ञो द्वन्दुभिं चाभिमन्त्रयेत् ।तेजोबलञ्च प्राप्नोति शत्रूंश्चैव नियच्छति । तृणपाणि-र्जपेत् सूक्तं रक्षोघ्नं दस्युभिर्वृतः । ये केचिन्नेत्यृचंजप्त्वा दीर्घमायुरवाप्नुयात् । जीमूतस्येति सूक्तेन लाङ्ग-लान्यभिमन्त्रयेत् । यथा छिद्रं ततो राजा विनिहन्तिरणे रिपून् । अमीवेतित्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ।अमीवहेति सूक्तेन भूतानि स्नापयेन्निशि । संबाधे विषमेदुर्गे बद्धो वा निगडैः क्वचित् । पलायन् वा गृहीतो वासूक्तमेतत्तदा जपेत् । त्रिरात्रमपि चोपोष्य श्रपयेत् पायसंचरुम् । तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा । समुद्दिश्यमहादेवं जीवेदव्दे शतं सुखम् । तच्चक्षुरित्यृचा स्नातउपतिष्ठेद्दिवाकरम् । उद्यन्तं मध्यमं चैव दीर्घमायुर्जि-जीविषुः । सूक्ताभ्यां परभागाभ्यां भूताभ्यां भूतिमाप्नु-यात् । इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनम् । यस्यलुप्तं व्रतं मोहादश्रौतैः संसृजेत वा । उपोष्याज्यंस जुहुयादग्ने व्रतपते इति । आदित्य वृक्षसाम्राज्यंजप्त्वा वादे जयी भवेत् । नदीतीति चतुष्केण मुच्यते महतोभयात् । ऋचं जप्त्वा यदित्येतत् सर्वान् कामानवाप्नुयात् ।द्वाचत्वारिंशकं चैन्द्रं जप्त्वा ना शयते रिपून् । रायस्महीतिजप्त्वा च प्राप्नोत्यारोग्यमेव च । शन्नोभवेति द्वाभ्यान्तुभुक्त्वान्नं प्रयतः शुचिः । हृदयं पाणिना स्पृष्ट्वा व्याधिभि-र्न्नाभिभूयते । उत्तमेदमिति स्नातो भूत्वा शत्रुं प्रमापयेत् ।त्वन्नो अग्नेति सूक्तेनं हुतेनान्नमवाप्नुयात् । कन्या-वा मिति सूक्तेन दिग्दोषात् विप्रमुच्यते । यदभ्य कच्चेत्यु-दिते जप्तुर्वश्यं जगद्भवेत् । यद्वागिति च जप्तेनवाणी भवति शाश्वती । वाचोविदमितीत्येता जपन् वाचंसमश्नुते । पवित्राणां पवित्रन्तु पावमान्य ऋचां मताः ।वैखानसा ऋचस्त्रिंशत् पवित्राः परमा मताः । ऋचोद्वि-षष्टिः प्रोक्ताश्च यवश्चेत्यृषिसत्तम! । सर्वकल्मषनाशाय परिणामशिवाय च । स्वादिष्ठयेति सूक्तानां सप्तषष्टिरुदा-हृता । दशोत्तराण्युपास्यैवाः पावमानीः शतानि षट् ।एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् । आपोहिष्ठेतिचारिष्टौ जपेत् पापभयार्द्दने । प्रवेदनेति नियतेजपेच्च मरुधन्नसु । प्राणान्तिके भये प्राप्ते क्षिप्रं प्राणांस्तुविन्दति । व्युष्टायामुदिते सूर्य्येये चेति जयमाप्नुयात् ।आयुर्द्दामेति मूढश्च पन्थानं पथि विन्दति । क्षोणे युवतिमन्त्रेण यं कञ्चिद्धृदयप्रियम् । यत्तेयमेति सुस्नातस्तस्यमूर्द्धानमालभेत् । सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दतेमहत् । इदं मेध्ये ति जुहुयाद् घृतं प्राज्ञः सहस्रशः ।पशुकामो गवाङ्गोष्ठे अर्थकामश्चतुष्पथे । वयः सुवर्णइत्येतां जपन्ना विन्दते प्रियम् । हविष्यन्तीं समभ्यस्य सर्व-पापैः प्रमुच्यते । तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धतेसदा । त्यक्तामयः स्वस्त्ययनं सर्वव्याधिविनाशनम् । वृहस्पतेअकीत्येतद्वृष्टिकामः प्रयोजयेत् । सर्वं त्वेति परा शान्ति-र्जयाप्रतिरथस्तथा । मृतासं कश्यपन्नित्यं प्रजाकाम-स्य कीर्त्तितम् । अहं रुद्रेभिरित्येतद्वाग्मी भवति मा-नदः । न योनौ जायते विद्वान् जपंस्तिसृषु रात्रिषु ।रात्रिसूक्तं जपन् रात्रौ रात्रिं क्षेमां नयेन्नरः । आकम्प-यन्तीति जपेन्नित्यं कृत्याविनाशनम् । आयुष्यञ्चैव स-र्वस्य सूक्तं दाक्षायणं महत् । उत देवा इति जपेदास्वा-पान्तं धृतव्रतः । अपमार्गे तु जनिते जपेदग्निभये सति ।अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् । ब्राह्मीमासाद्यसूक्ते द्वे वरां ब्राह्मीं शतावरीम् । पृथगद्भिर्घृतेनाथ मेधांलक्ष्मीञ्च विन्दति । मास इत्यसपत्नघ्नं संग्रामं विजि-गीषतः । ब्रह्मणोऽग्निं संविदानं गर्भमृत्युनिवारणम् ।अपैहीति जपेत् सूक्तं शुचिर्दुःखस्वप्ननाशनम् । येनेद-मिति वै जप्त्वा समाधिं विन्दते परम्! मयोभूर्वात इ-त्येता जपेत् स्वस्त्ययनं परम् । शामरीमिन्द्रजननम्बाधामेतेन वारयेत् । महित्रीणामवोस्त्विति पथि स्वस्त्ययनंजपेत् । अग्नये द्विषद्वेषं जपेच्च रिपुनाशनम् । वास्तोष्प-तेति मन्त्रेण जपेच्च गृहदेवताः । जपस्यैष विधिः प्रोक्तो-हुतौ ज्ञेयो विशेषतः । होमान्ते दक्षिणा देया पाप-शान्तिकृतेन तु । हुतं शस्यति चान्नेन अन्नहोमप्रदा-नतः । विप्राशिषस्त्वमोधाः स्युर्ब्बहिः स्नातं च सर्व्वतः ।सिद्धार्थका यवा धान्यं पयोगव्यघृतं तथा । क्षीरवृक्षात्त-थेधन्तु होमा वै सर्व्वकामदाः । समित् कण्टकिनश्चैवराजिका रुधिरं विषम् । अभिचारे तथा शैलुमसनंशक्तवः पयः । दधि भैक्ष्यंफलं मूलमृग्विधानमुदाहृतम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
