ऋक्षचक्र (RkSacakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiऋक्षचक्रम्
ऋक्षः-चक्रम् -
तारामंडल
Shabdartha Kaustubha
Kannadaऋक्षचक्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ನಕ್ಷತ್ರಗಳ ಗುಂಪು /ಚಕ್ರಾಕಾರವಾದ ನಕ್ಷತ್ರಗಳ ಸಮೂಹ
व्युत्पत्तिः - > ऋक्षाणां चक्रम्
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritऋक्षचक्र ६ त० । १ नक्षत्रेसमुदाये ऋक्षाणां चक्रमिव गग-तस्थे नक्षत्रात्मके चक्राकारे पदार्थभेदे । ऊडुचक्रशब्दे तद्वि-वृतिः । भचक्रस्य प्रवहवायुना प्रत्यहं पश्चाद्गगनेऽपि ग्रहाणांयथा प्राग्गतित्वं भवेत्तथा सू० सि० रङ्गनाथव्याख्ययोःयथा “अथ ग्रहपूर्व्वगत्युत्पत्तौ कारणमाह । “पश्चाद्व्रजन्तो-ऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्य-मेव स्वमार्गगाः” सू० सि० । “पश्चादनन्तरं पुनरावृत्त्यापश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सहग्रहाः सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात्सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्थाजीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात् ।अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थः । तुल्यं स-मम् । एवकारादधिकन्यूनव्यवच्छेदः । लम्बन्ते स्वस्था-नात् पूर्वस्मिन् लम्बायमाना भवन्ति । यथा लज्जितःपश्चाद्भवति नाग्रे । तुकारादधोऽधः कक्षाक्रमानुरोधेनशन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनिरतिगु-रुभूतस्तस्मात् किञ्चिन्न्यूनोगुरुस्तस्मादपि भौम इत्यादियथोत्तरम् । यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्यलध्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति । एतददुक्तं भ-वति । ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्तो गोलःस्थापितस्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो न-क्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूप-मेषादिप्रदेशसमसूत्रस्थाः स्थापिताः । क्रान्तिवृत्तं तुमेषतुलास्थाने विषुवद्वृत्तलग्नं सम्पातात् त्रिभान्तरितक्रा-न्तिवृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ मक-रकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभू-तम् । विषुवद्वृत्तं तु ध्रुवम ध्यस्थं निरक्षदेशोपरिगम् ।तत्र प्रवहवायुना स्याधातेन मूर्तो नक्षत्रगोलो नाक्षत्रष-ष्टिषटीभिः परिवर्त्यते । तदन्तर्गतवायुभिस्तदाघातेनवा ग्रहा भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषा-दिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघात-स्याप्यल्पत्वाद्बिम्बानां गुरुत्वाच्च । अतस्तत्स्थानाद्ग्रहाणांलम्बना दृश्यन्ते । अतएव नक्षत्रोदयकाले तेषां द्वितीय-दिने नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्त-रमूर्द्धमागच्छतीत्यनन्तरमुदयः । लम्बनं तु शन्यादीनांकक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरो-धेन बह्वल्पत्वात् तुल्यम् । यद्यपि वायोर्ध्रुवानुरोधेनस्वल्पत्वाद्ग्रहवल्लवम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रा-न्तिवृत्ते । तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृ-त्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपप-त्तिश्च । तथापि वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपितद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एवस्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः । अतएव स्वमा-र्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगताइत्यर्थकमुक्तमिति मङ्क्षेपः” रङ्ग० । “अथात एव ग्रहाणांलोके प्राग्गनित्वं सिद्धमित्याह । “प्रागगतित्व-मतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्व-शाद्भानि भुञ्जते” सू० सि० । “अतोऽवलम्बनादेव तेषांग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्ग-तयस्तद्भावः प्रागतित्वं सिद्धम् । लम्बनस्वरूपैव ग्रहाणांपूर्वगतिरुत्पन्ना लोकैः कारणानभिज्ञैः प्रत्यक्षावगतातच्छक्तिजनिता कल्पितेत्यर्थः । सा कियतीत्यत आह ।भगणैरिति । वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिःप्राग्गमनरूपा भगणानां गत्युपन्नत्वात् भगणसम्बन्धिवक्ष्य-माणदिनैः सूर्यसावनैर्ग्रहभगणा लभ्यन्ते तदैकेन दिनेनकेत्यमुपाताज्ज्ञेया । ननु ग्रहभगणानां तुल्यत्वामावात्प्रतिदिन ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयु-क्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह । परिणाहव-शादिति । परिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधा-दियं ग्रहगतिर्भिन्नाऽतुल्या । अयमभिप्रायः ग्रहाणांलम्बनं तुल्यप्रदेशेन, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्येयाः कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा ल-घुकक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात् ।भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तस्याल्पा यस्यच लघु कक्षावृत्तं तस्य बह्व्यस्तदुत्पन्ना गतिरपि तथेति नविरोधः । नन्वेकरूपगतिं विहाय भिन्नरूपा गतिः कथ-मङ्गीकृतेत्यत आह । तद्वशादिति । भिन्नगतिवशाद्भानिराशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्तीत्यर्थः । तथा चग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेतिभावः” रङ्ग० “अथ भभोगे विशेषं वदन् वक्ष्यमाणभ-गणस्वरूपमाह । “शीघ्रगस्तान्यथाल्पेन कालेन महताऽ-ल्पगः । तेषां तु परिवर्तेन पौष्णान्ते मगणः स्मृतः” सू०सि० “अथशब्दः पूर्वोक्तेर्विशेषसूचकः । शीघ्रगतोग्रह-स्तानि भान्यल्पेन कालेन भुनक्त्यल्पगतिग्राहो बहुकालेनभुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्य-कालेन न भवतीति विशेषाथः । तेषां राशीनां परि-वर्तेन भ्रमणेन । तुकाराद्ग्रहादिगतिभोगजनितेन भगणःप्राज्ञैरुक्तः । क्रान्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भो-गेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुन-स्तत् स्थानमायाति स चक्रभोगः परिवर्तसंज्ञोऽपि द्वाद-शराशिभोगाद्भगण इत्यर्थः । ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यःपरिवर्तसम्भवादत्र कः परिवर्तादिभूतः प्रदेश इत्या आहपौष्णान्त इति । सृष्ट्याद्दौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयो-गतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितोग्रहचलनाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटेप्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्ता-वधिभूतमिति” रङ्ग० ।तत्सन्निवेशप्रकारः सि० शि० उक्तो यथा “सृष्ट्वा भचक्रंकमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः । शश्वद्भ्रमे वि-श्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे । ततोऽपरा-शाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यशि । तदल्पग-त्येन्द्रदिशं नभश्चराश्चरन्ति नीचोच्चतरात्मवर्त्मसु”“यदेतद्वचक्रं ग्रहैः समं म्रमद्दृश्यते तद्विश्वसृजा जग-दुत्पादकेन कमलोद्भवेन ब्रह्मणा सृष्ट्यादौ सृष्ट्वा ततःशश्वत्भ्रमेऽनवरतभ्रमणे नियुक्तम् । एतदुक्तं भवति । भा-न्थश्विन्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूह-श्चक्र, ग्रहाश्च सूर्यादयस्तैः सह सृष्टम् । तानि भानिप्राक्संस्थया समन्तान्निवेशितानि । ग्रहास्तु भगणादा-वश्विनीसुखे निवेशितास्त उपर्य्युपरिसंस्थया । तत्रादौतावदधश्चन्द्रः । तदुपरि बुधः । ततः शुक्रः । ततोरविः । तस्माद्भौमः । ततो गुरुः । ततः शनिः । सर्वे-षामुपरि दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षा-ध्याये प्रतिपादयिष्यन्ते । अहो यद्यूर्ध्वोर्ध्वस्था ग्रहा-स्तदुपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरि-त्यच्यते । सत्यम् । अत्र भूमध्ये सूत्रस्यैकमग्रं बद्ध्वा द्वि-तीयमग्रं भचक्रेऽश्विनीमुखे किल निबद्धम् । तस्मिन्सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणानिवेशिताः । भमण्डलं द्वादशधा विभज्यैवं भूमध्यात्सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रै सहग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः ।तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम् । कक्षाध्यायेगोले च किञ्चिद्विस्तार्य्य वक्ष्यामः । एवंविधं भचक्र सृष्ट्वाब्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र प्रवहोनाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहगंभचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् । यत् तस्यप्रत्यग्भ्रमणं तच्छीघ्रतरम् । यत एकेनाह्ना भमण्डलस्य(भूमेः) परिवर्त्तः । एवं तस्मिन् भपज्जरे सखेचरे शोध्रतरेभ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्व्वाभिमुखं व्रजन्ति ।नीचोच्चतरात्मवर्त्मसु । अनन्तरकथितेषु स्वस्वमार्गेषु तेषांप्राग्भ्रमणम् । तत् तदल्पगत्या । प्रत्यग्गतेर्बहुत्वात्प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भावः । तथा तस्यभपञ्जरस्य यो दक्षिणोत्तरावन्तौ तत्र ये तारे ते धनियुक्ते” प्रमि० । राशिचक्रस्य प्रवहवायुना पश्चाद्म्रम-णोक्तिरपि व्यक्षदेशोपरिगतत्वाभिप्रायेण देवासुरयोस्तुसू० सि० सव्यापसव्यभ्रमणोक्तेः यथा “सव्य भ्रमतिदेवानामपसव्यं सुरद्विषाम्” इति “व्यक्षे पश्चाद्गतिः सदेति”वक्ष्यएव पश्चाद्गतेरुक्तेश्चेति द्रष्टव्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
