ऊह (Uha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishऊह - Uha - - transposition
विपर्यास - viparyAsa - - transposition
विपर्यय - viparyaya - - transposition
विहार - vihAra - - transposition
व्यत्यय - vyatyaya - - transposition
व्यूह - vyUha - - transposition
ऊहन - Uhana - - transposition
विपरिहरण - vipariharaNa - - transposition
समारोपण - samAropaNa - - transposition
प्रोहति { प्रोह् } - prohati { proh } - verb - effect or bring about by transposition
ऊह Uha inference
ऊह Uha adding
ऊह Uha deliberation
ऊह Uha derangement
ऊह Uha addition
ऊह Uha examination
ऊह Uha transposition
ऊह Uha act of comprehending
ऊह Uha supposition
ऊह Uha change
ऊह Uha conceiving
ऊह Uha conclusion
ऊह Uha modification
ऊह Uha consideration
ऊह Uha removing
Wilson
EnglishApte
Englishऊह [ūha], Observed, perceived. -हः [ऊह्-घञ्]
A change, modification. ऊहदर्शनं न विवक्षितार्थानामेव भवति । ŚB. on MS.* 1.2.52. ऊह forms the subject-matter of जैमिनि's मीमांसासूत्र, अध्याय IX. It is said to bo of three varieties
त्रिविधश्च ऊहः मन्त्रसामसंस्कारविषयः ŚB. on MS
9.1.1.
A guess, conjecture
* 5.33.28.
Examination and determination.
Understanding.
Reasoning, arguing.
Supplying an ellipsis.
Attributing, ascribing.
Collection. -अपोहः full discussion, consideration of the pros andcons
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः * 13.145.43
ऊहापोहमिमं सरोजनयना यावद्विधत्तेतराम् 2.74
see अपोह.-गानम् of the third Gāna or hymn-book of the Samaveda. -च्छला of a chapter of the Sāmaveda Chchhalā.
Apte 1890
Englishऊह a. Observed, perceived.
हः [ऊह्-घञ्] 1 A change, modification.
2 A guess, conjecture.
3 Examination and determination.
4 Understanding.
5 Reasoning, arguing.
6 Supplying an ellipsis.
7 Attributing, ascribing.
8 Collection.
Comp.
अपोहः full discussion, consideration of the pros and cons
Bv. 2. 74
see अपोह.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishBenfey
EnglishApte Hindi
Hindiऊहः
- ऊह्+घञ्
"अटकल, अंदाज"
ऊहः
- ऊह्+घञ्
"परीक्षण, निर्धारण"
ऊहः
- ऊह्+घञ्
समझ-बूझ
ऊहः
- ऊह्+घञ्
"तर्कना, युक्ति देना"
ऊहः
- ऊह्+घञ्
अध्याहार करना
Shabdartha Kaustubha
Kannadaऊह - वितर्के (भ्वा० आत्म० सक० से०)
पदविभागः - > धातुः
कन्नडार्थः - > ಊಹಿಸು /ಯುಕ್ತಿಯಿಂದ ಅರ್ಥವನ್ನು ನಿರ್ಣಯಿಸು
ऊह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಕ್ತಿಯಿಂದ ಅರ್ಥವನ್ನು ನಿರ್ಣಯಿಸುವಿಕೆ /ವಿಮರ್ಶಿಸಿ ಹೇಳುವಿಕೆ /ಊಹೆ /ಕಲ್ಪನೆ
निष्पत्तिः - > ऊह (वितर्के) - भावे "घञ्" (३-३-१८)
ऊह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇದು ಈ ರೀತಿಯದೇ ಅಥವಾ ಬೇರೆ ರೀತಿಯದೇ ಎಂಬ ಸಂದೇಹ /ಬುದ್ಧಿಯ ೮ ಗುಣಗಳಲ್ಲೊಂದು
विस्तारः - > शुश्रूषा, श्रवणम्, ग्रहणम्, धारणम्, ऊहः, अपोहः, अर्थविज्ञानम्, तत्त्वज्ञानम् इति बुद्धेः अष्टौ गुणाः ।
L R Vaidya
Englishधातुपाठः (Krishnacharya)
Sanskrit ऊह्
ऊह
वितर्के
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
ऊहते
Abhyankara Grammar
Englishऊह modification of a word, in a Vedic Mantra, so as to suit the context in which the mantra is to be utilised, generally by change of case affixes
adaptation of a man- tra: cf. ऊहः खल्वपि । न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः । ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्याः । M. Bh. on P.1.1 Āhnika 1. ऋ fourth vowel in Pāṇini's alphabet
possessed of long and protracted varieties and looked upon as cognate ( सवर्ण ) with लृ which has no long type in the grammar of Pāṇini
cf. R.Pr.I, 9: V.Pr.VIII.3. (2) uṇādi suffix च् applied to the root स्था to form the word स्थृ
e. g. सव्येष्ठा सारथिः
cf. सव्ये स्थश्छन्दसि Uṇ Sū, II. 101.
धातुप्रदीपः
Sanskritऊहँ ऊह वितर्के
- ऊहते ।ऊहाञ्चक्रे । समूहति। समूहते । समुह्यते ।ऊहः। समूहः। समूहा। सामूहिकः-अध्यात्मादित्वाट् ठञ् ।। 649।।
अभिधानचिन्तामणिः
Sanskritशुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१० ॥
p{0017}
ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।
धीगुण (पुं), शुश्रूषा (स्त्री), श्रवण (क्ली), ग्रहण (क्ली), धारण (क्ली), ऊह (पुं), अपोह (पुं), अर्थविज्ञान (क्ली), तत्त्वज्ञान (क्ली)
वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ ॥
अध्याहारस्तर्क ऊहोऽसूयान्यगुणदूषणम् ।
वितर्क (पुं), उन्नयन (क्ली), परामर्श (पुं), विमर्शन (क्ली), अध्याहार (पुं), तर्क (पुं), ऊह (पुं), असूया (स्त्री)
अभिधानरत्नमाला
Sanskritऊह
ऊह, तर्क, अनुमानोक्ति
ऊहस्तर्कोऽनुमानोक्तिर्मीमांसा स्याद्विचारणा ।
verse 1.1.1.10
page 0002
शब्दकल्पद्रुमः
Sanskritऊह ङ वितर्के । सन्देहाद्विचारे । इति कविकल्प-द्रुमः ॥
(भ्वादिं-आत्मं-सकं-सेट् ।) दीर्घादिः ।सन्देहाद्विचारस्तर्कः । ङ ऊहन्ते धर्म्मं धीरः ।यशः समूहन्निव दिग्विकीर्णमिति गेर्व्वास्योर्होढेचेति परस्मैपदविधानाच्छत्रन्तम् । “अनुक्तमप्यू-हति पण्डितो जनः” । इति गणकृतानित्यत्वादितिरमानाथः । वस्तुतस्तु पचादित्वादनि ऊह इवा-चरतीति क्वौ साध्यम् । इति दुर्गादासः ॥
ऊहः, त्रि, (ऊह् + घञ् ।) पूर्व्वाप्राप्तस्य उत्क्षेपणम् ।तत्पर्य्यायः । अध्याहारः २ तर्कः ३ । इत्यमरः ॥
वितर्कः ४ । वूहः ५ व्यूहः ६ वितर्कणम् ७ अध्या-हरणम् ८ ऊहनम् ९ प्रतर्कणम् १० । इति शब्द-रत्नावली ॥
अपूर्व्वोत्प्रेक्षणम् । इति जैमिनिः ॥
असमवेतार्थकपदत्यागपूर्व्वकसमवेतार्थकपदस-मभिव्याहारकरणम् । इति श्राद्धतत्त्वटीका ॥
साकाङ्क्षवाक्यस्य पदान्तरेण आकाङ्क्षापूरणम् ॥
(ऊहनम् । आरोपः । यथा, महाभारते १३ ।उमामहेश्वरसंवादे १४५ । ४३ ॥
“इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।ज्ञानविज्ञानसम्पन्नाः प्रजावन्तोऽथ कोविदाः” ॥
परीक्षणम् । सिद्धिभेदः ॥
)
वाचस्पत्यम्
Sanskritऊह वितर्के भ्वादि० आत्म० सेट् । ऊहते औहिष्ट । ऊहांबभूव आस चक्रे । ऊहितः ऊहमानः ऊहितुम् ऊहः ।“औहिष्ट तान् वीतविरुद्धबुद्ध्वीन्” भट्टिः । कर्मणि ऊह्यतेऔहि णिच् । ऊहयति ते औजिहत् त । “रूपेणतावौजिहतां नृसिंहौ” भट्टिः अस्य ऊहशब्दे वक्ष्य-माणेऽर्थेऽपि वृत्तिः । परस्मैपदित्वमप्यस्य ऊहति, इत्यु-हेत्द्विदैवतं दैविकेषु” कात्या० १०१, ३, १, १७, यादौ उप-सर्गात् परस्यादेर्ह्रस्वः । समुह्यतेअति--एकदेशस्थितस्य तद्विपरीतदेशप्रेरणे “द्रोणकलसमत्यू-ह्य” कात्या० ९, २, १६ । “अत्युह्य प्राञ्चमेव प्रतीच्यांप्रेर्य्य” कर्कः ।अधि + अञ्जने । “अग्निमग्नीत् संमृढ्ढीति यथाधुरमध्यूहेदेवं तद्यत् पूर्वमाघार माघार यत्यध्युह्य हि धुरं युञ्जन्ति”शत० ब्रा० १, ४, ४, १३, अप + निरसने दूरीकरणे । “अपोह्य बर्हींषि” कात्या० २, २, १७, “एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः” मनुः ।“सर्वान् रसानपोहेत कृतान्न च तिलैः सह” मनुःप्रतिकूलतर्केण प्रकृतर्तर्कापनमने अपोहः ।अप + वि + निवारणे “व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः” भा०आ० ४७० ।अभि + आच्छादने । “अथाङ्गारैरभ्यूहति” शत० ब्रा० १, २, ४, ३८ । “अभ्यूहति आच्छादयति” भा० ।उत् + उत्कर्षणे । “रशनामुदुह्य प्राच्याम्” कात्या० १, ६, १ ।“उदुह्य उत्कृष्य” कर्कः निरसने च । “तेन प्राचोऽङ्गा-रानुदूहति” शत० ब्रा० १, २, १, ४ ।प्रति + उद् + प्रक्षेपणे “दक्षिणतः पुरीषं प्रत्यूहेत” शत० ब्रा० १, ३, ५, १७ ।वि + उद् + अन्ते विवर्द्धने । “चतुङ्गुलमुभमयतो बाह्यतो व्यु-दूहति” शत० ब्रा० १०२, १, ४ । व्युदूहति अन्ते विवर्द्ध-यति” भा०उप + अधस्तात् प्रवेशने । “पश्चाच्छम्यामुपोहति” कात्या० २, ५, ४ । “उपोहति अधस्तात् प्रवेशयति” कर्कः ।निर् + निष्काश्य ग्रहणे पृथक्करणे च । गार्हपत्यादुष्णं भस्मनिरुह्य” शत० व्रा० १३, ४, २, २ । “शिरः श्रियमस्य निरौ-हत्” शत० ब्रा० १०, ५, ४ । वपान्तेऽनपेक्षमध्वर्युःप्रेष्यति निरूहैतं गर्भमिति” “निरुह्यमाणमभिमन्त्रयीत”कात्या० २५, १०, ४, ५ । निरुह्यमाणं पृथक्क्रियमाणम्वेददी० निरूहणम्परि + परितः खातपूरणे । “अरत्निमात्रे संतृण्णे वोपदधाति-पर्यूहति च” कात्या० ८, ५, २५ । पर्यूहति पांशुभिरन्त-रालं परितः पूरयति” कर्कः । पर्य्यूहणम् ।प्र + देशान्तरनयने । “प्रोह्य द्रोणकलसम्” कात्या० ९, ५, १४ । “प्रोह्य प्रेर्य्य” कर्कः । पातने च “कृष्णाजिनेप्रोहति” कात्या० २, ५, ७ । प्र + ऊहस्यादेर्वृद्धिः प्रौहः ।प्रति + उपरिस्थापने । “दीक्षितोरौ दक्षिणे प्रत्यह्य वासः”कात्या० ७, ८, २३ । “प्रत्युह्य उपरि स्थापयित्वा” वेददी०निवारणे च । “प्रत्यौहतमश्विनी मृत्युमुखात्” यजु० २७, “प्रत्यौहतं न्यवर्त्तयताम्” वेददी० ।वि + विपरीततया प्रेरणे “जुहूपभृतौ व्यूहति” कात्या० ३, ५, १७ । सैन्यानां सन्निवेशविशेषेण स्थापने च । व्यूहः ।“प्रहर्षयेद्बलं व्यूह्यतांश्च सम्यक् परीक्षयेत्” मनुः ।समवेतभवने । “योवैम्रियते ऋतवोऽस्य व्युह्यन्ते” शत०ब्रा० ८, ७, १२, ११, प्रति--वि-- प्रतिरूपव्यूहकरणे । “वार्हस्पत्यविधिं कृत्वा प्रति-व्यूह्य निशाचरम्” भा० व०३८४ अ० । विरोधाचरणे चप्रत्यूहःसम्--समवेतभवने संहनने सम्यक्प्रापणे च । “यद्गव्यन्ताद्वा जना स्वर्यन्ता समूहसि” ऋ० १, १३१, ३, ससूहसिप्रापयसि भा० । सम्यक्पूरणे “अङ्गारैरभि समूहति” शत०ब्रा० ४, ५, २, १८, समूहःउप + सम् समीपे सङ्कोचने “पक्षाउपसमूहन्ते” शत० ब्रा० १०, २, १, १, “समूहन्ते मध्यमागसमीपे सङ्कोचयन्ति” भा० ।परि--सम्--समन्तात् परिमार्जने “वेदिं परिसमुह्य” कात्या०२, ६, १, २, “परिसमुह्य सर्म्माज्य” कर्कः । “अग्निं प्रति-ष्ठाप्यान्वाधाय परिसमुह्य” आश्व० गृ० १, ३, १, “परिसमूहनंनाम चाग्नेः समन्तात् परिमार्जननम्” नारा० वृ० ।समूढव्यूढनिरूढादिकमस्यैव रूपमाहुः केचित् । अस्य-सेट्कत्वात् ऊहित इत्यादय एव स्युः । अतस्तानि उपसृष्टस्यवहतेरेव रूपाणीत्यन्ये । अस्यैव आङ्पूर्व्वकस्य ओहतेइति रूपम् । न तु केवलस्य, दीर्घोपधत्वेन गुणाप्रसक्तेः ।
ऊह ऊह--घञ् । १ वितर्के आगमाविरोधिना तर्केण आगमार्थस्यसंशयपूर्व्वपक्षनिवारणपूर्वकोत्तरपक्षव्यवस्थापनेन निर्णयरूपे२ परीक्षणे, ३ अनन्वितार्थकविभक्तिलिङ्गुत्यागपूर्व्वके अन्व-ययोग्यविभक्त्यादिकल्पने, यथा पार्वणे सौम्यास इति बहु-वचनमन्वितमपि एकोद्दिष्टे अनन्वितत्वात् सौम्य इत्येकवच-नान्ततया कल्पनम् । ४ पदान्तरेणाकाङ्क्षापूरणार्थेअध्याहारेच । “ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्-प्राप्तिः । दानञ्च सिद्धयोऽष्टौ सिद्ध्वेः पूर्व्वोऽङ्कुशस्त्रिविधः”सा० का० उक्ते ताराख्ये ५ सिद्धिमेदे “ऊहस्तर्कः आगमा-विरोधिन्यायेनागमार्थपरीक्षणम् । संशयपूर्व्वपक्षनिराकर-णेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आग-मिनः सा तृतीया सिद्धिस्तारमुच्यते” सा० कौ० “रक्षोहा-गमलघ्वसन्देहाः प्रयोजनम्” का० वार्त्ति० । “ऊहः खल्वपिन सर्व्वैर्लिङ्गैर्नच सर्व्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदि-तास्ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विप-रिणमयितव्याः तान्नावैयाकरणः शक्नोति विपरिणमयितुम् तस्मादध्येयं व्याकरणम्” महाभा० । “ऊहः ख-ल्वपोति । इह यस्मिन् यागे इतिकर्त्तव्यतोपदिष्टा यागा-न्तरेणोपजीव्यते सा प्रकृतिः येन चोपजीव्यते सा विकृतिःप्रकृतिवद्विकृतिः कर्त्तव्येति मीमांसकैर्व्यवस्थापिते न्या-ये प्रकृतिप्रत्ययादीनामूहं वैयाकरणस्मम्यग्विजानाति ।तत्र अग्नेर्मन्त्रोऽस्ति “अग्नये त्वा जुष्टन्निर्वपामीति” तत्र“सौर्य्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम” इति सौर्य्ये चरौमन्त्र ऊह्यते सूर्य्याय त्वा जुष्टं निर्वपामीति । विस्तरेणभर्त्तृहरिणा प्रदर्शित ऊहः” कै० । “ऊहः खल्वपीत्यस्यप्रयोजनमिति शेषः । ननु यत्र प्रकरणे ये मन्त्राः पठि-तास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजनमित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुम्प्रकृतिशब्दार्थ माह । इहेति । यस्मिन्नाग्नेयादौ । यागान्तरेण सौर्य्यादिना । प्रकृतिविकृत्यवगमश्च द्विदैवत्यत्वैकदेवत्यत्वादिसाम्येन बोध्यः । अन्यत्र पठितमन्त्रा-णाङ्कथमन्यत्र गमनमत आह प्रकृतिवदिति । यथा सोप-कारा प्रकृतिरनुष्ठीयते तथा विकृतिरपीति तदर्थः त-दनेनोपकारातिदेशे तत् पृष्ठभायेन पदार्था अप्यतिदि-श्यन्ते इतिकर्त्तव्यताय्यम्भावनायास्साकाङ्खत्वादेतन्मू-लकमेव प्रकृतिवदितीति मीमांसकसरणिः । यागा-न्तर्गताश्च मन्त्राः । तत्र अग्निसम्बन्धिनिर्वापप्रकाशकमन्त्रस्थाग्निपदस्य सूर्य्यसम्बन्धिनिर्वापप्रकाशनासम-र्थत्वात्तदपहाय तत्स्थाने सूर्य्यायेत्यूह्यमित्याह त-त्राग्नेरिति । मन्त्र ऊह्यत इति । यद्यप्यूहे न मन्त्र-त्वं तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्य-भिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्म्मण स्सा-ङ्गत्वञ्चेति बोध्यम् । सोऽयम्प्रकृत्यूहः अन्येऽप्यूह्याः । ऊ-हज्ञस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुखसिद्धिःफलमिति बोध्यम् । भाष्ये लिङ्गपदञ्च प्रकृत्या-देरुपलक्षणम् । यथायथमिति । अर्थप्रकाशनसाम-र्थ्यानतिलङ्घनेनेत्यर्थः” उद्योतः ।तादृशोहभेदस्तु अधिकरणमालादौ दृश्यः । द्रव्यप्रतिनिधौ तु नोहः । “तैलं प्रतिनिधिं कुर्य्यात्घृतार्थे याज्ञिको-यदि । प्रकृत्यैव तदा होता ब्रूयात् घृतवतीमिति” मीमां०कात्यायनसूत्रादौ प्रतिनिधिविषये ऊहाभावोदर्शितो यथा“अथेदं चिन्त्यते विहितद्रव्यस्याभावे द्रव्यान्तरे प्रति-निधित्वेनोपात्ते छागाभावे मेषरूपे अनुवाचनप्रेषादौकिमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य प्रयोगः कार्य्यः“अग्नीषोमाभ्यां मेषस्य वपाया” इत्येवम् उत विहितद्रव्यशब्दस्यैव अग्नीषोभाभ्यां छागस्येत्येवमेवेति । तत्र मन्त्रेणद्रव्यमभिधेयम् न चानूहितः प्रतिनिहितं द्रव्यं शक्नो-त्यभिधातुम् तस्मादूहित्वा प्रतिनिहितद्रव्यवाचिशब्दस्यप्रयोगे प्राप्त आह” “शब्देऽविप्रतिपत्तिः” कात्या०१, ४, ९, “प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनि-शब्दे अविप्रतिपत्तिरविपरिणामः अनूहो भ-वति अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मे-षेऽपि प्रयोज्यम् न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थःकुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न तु द्रव्यान्तरबुद्ध्या अतश्छाग एवायमिति बुद्ध्या गृहीतत्वात्तच्छब्दे-नैवाभिधानम् । यद्यत्र मेषश्छागवत् साधनं भवेत्ततस्तत्-प्रकाशकम् मेषपदं प्रक्षिप्येत न त्वेवम्, किं तर्हि मेष-गता ये छागांशास्त एवात्र साधनम् ते च छागगताइव मेषगता अपि छागशब्देनैव प्रकाशयितुं शक्यन्त्यइत्यनूहेनैव प्रयोगः । यत्र तु द्रव्यान्तरं वचनेन विधी-यते यथा “सारस्वतीं मेषीमिति” “ऐन्द्रं मेषमिति” “ऐन्द्रऔरभ्रः” इति तत्र द्रव्यान्तरबुद्धिर्भबति तत्र ऊहोऽपिभवति । नचात्रेवंविधं किमपि वचनमस्ति तस्माद्बहू-नामवयवानां सामान्याच्छ्रुतद्रव्यमेवेदमितिबुद्ध्या मेषादि-द्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम् । तेन श्रुत-द्रव्यशब्देनैवाभिधानं युक्तमिति साधूक्तम् शब्देऽविप्र-तिपत्तिरिति । यत्र तु वचनेन द्रव्यान्तरं विधीयतेतत्र ऊहो भवतीत्युक्तम् तेन सोमाभावे पूतीकानभिषुणुया-दिति पूतीकानां वाचनिकत्वादूहो भविष्यतीत्याशङ्याह”कर्कः “सोमेन जात्यभावात्” का० सू०१० “सोमेनेति तृती-यैकवचनम् । सोमाभावे पूतीकेषूपात्तेषु सोमशब्देनैवपूतीकानामभिधानं कर्त्तव्यम् । “अंशुरंशुष्टे देव! सोम!पायतामित्येवम् न तु पूतीकाशब्देन । अथ वा सोमे इतिसप्तम्येकवचनम् नेनि निषेधः । सोमप्रतिनिधित्वेनोपा-त्तेषु अर्ज्जुनश्येनहृतपूतोकादिषु सोमे सोमशब्दे ऊहोन भवति कुतः जात्यभावात् जात्यन्तरबुद्ध्यभावात् नह्यत्रवचनेन द्रव्यान्तरं विधीयते किं तर्हि सोमाभावे यागस्या-वश्यकर्त्तव्यत्वादनेकेषु सुसदृशेष्वीषत्सदृशेषु च प्राप्तेषुपूतीकादेर्नियमः क्रियते तेनैन्द्रमेषैतिवद् वाचनिकजात्यन्तराभावादतोऽप्यूहो न भचति” कर्कः ।“छाग! त्वं बलिरूपेणेत्यादिमन्त्रे च बहुपशुघाते न ब-हुत्वोहः । तदेततत्” ति० त० “बहुपशुघातेऽपि मन्त्रेएकवचनान्त एव प्रयोज्यः न बहुवचनोहः । “नरंपञ्चत्वमागतम्” इत्यत्र नार्य्यां स्त्रीत्वोहाभाववत् अतएवसपत्नीकयजमानप्रयोगेऽपि “पत्नीं सन्नह्येति” मन्त्र एक-वचनान्त एवेति । ऊहं प्रकृत्य “प्रकृतावपूर्व्वत्वात्” कात्या-यनेनोहस्य प्रकृतो प्रतिषेधात् । विकृतावेवोहः । “ऊहो-ऽपूर्व्वोत्प्रेक्षणमिति” जै० तल्लक्षणात् न वान्वयबाधःवैभक्ति-कार्थापेक्षया प्राथमिकत्वेन बलवतः प्रातिपदिकार्थस्य सम-न्वितत्वेनाविरोधात् । एवञ्च प्रकृतौ नररूपबहुपशौबहुवचनोहाभावात् छागादौ विकृतिभूतेऽपि न बहुवच-नोहः किन्तु एकवचनमात्रमिति” वदता रघुनन्दनेन तथासमर्थितम् । संकल्पादिवाक्ये तु ऊह इति भेदः । ऋत्विगादि-प्रयोगे च अस्मदादिपदघटिते “दातारोनोऽभिवर्द्धन्ता-मित्यादि” मन्त्रेऽपि नोहः तैस्तथा प्रयोगेऽपि यजमान-गतानामेव तत्तत्फलानामवगम इत्याकरे प्रपञ्चः । तथा-चासमवेतार्थस्य समन्वयाय मन्त्रे समवेतार्थकरण-रूपमपूर्व्वस्योत्प्रेक्षणमूहः । ५ आरोपे ६ समूहने च ।“इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः” भा० अमु०१४५ अ० “ऊहापोहाभ्यां तत्त्वावधारणम्” पातञ्ज० भा० ।
क्षीरतरङ्गिणी
Sanskritऊहँ ऊह तर्के
- (अर्थविवरणम्) तर्क उत्प्रेक्षा
ऊहते उपसर्गादस्यत्यूह्योः (1329 वा0) इति वा तङानौ-समूहति, समूहते समूहः उपसर्गाद्ध्रस्व ऊहतेः (74 23) समुह्यते परिसमुह्य समूह्योऽग्निः 639
धातुवृत्तिः
Sanskritऊहँ ऊह (अर्थः) वितर्के
(अर्थविवरणम्) वितर्कः संभावनम्
( ऊहते ऊहां चक्रे ऊहिता ऊहिष्यते ऊहताम् औहत ऊहिषीष्ट औहिष्टऊजिहिषति ऊहयति औजिहत् समृहति समूहते)[ उपसर्गादस्यत्यूहोर्वावचनम् ) इति उपसृष्टादस्मात्परस्मैपदम् (समूह्मात्) इत्यत्र "किदाशिषि'' इति कित्त्वे ( सूत्रम्) उपसर्गाद्ध्रस्व ऊहतेः (इति सूत्रम्) इति यकारादौ क्ङिति ह्रस्वः एवं यक्यपि (समुह्मते) इति यद्यप्युपसर्गादस्यत्यूहोरिति वार्त्तिकमकर्मकाधिकारे पठितं तथापि वृत्तिकैयटादौ सकर्मकसाधारणमुक्तम् अनुक्तमप्यूहति पण्डितो जन इति प्रयोग आङ्पूर्वस्येति सु धाकरः एवं च सति ओहतीति गुणः पठितव्यः ओह्यत इत्यत्रान्तादिवद्भावेनोपसर्गात्परत्वेन "उपसर्गाद्ध्रस्व ऊहतेः'' इति हस्वो न भवति [ उभयतश्चाश्रये नान्तादिवद्भाव ] इति वचनात् यद्वात्राण इति वर्त्तते, स च सामर्थ्यात्पूर्वेण णकारेणेति ह्रस्वाप्रसङ्ग एवं च (समौह्मत) इत्यादावप्यादिवृद्धौ ह्रस्वो न भवति 639
कृदन्तरूपमाला
Sanskrit1 {@“ऊह वितर्के”@} 2 वितर्कः = सम्भावना।
ऊहकः-हिका, ऊहकः-हिका, 3 ऊजिहिषकः-षिका
ऊहिता-त्री, ऊहयिता-त्री, ऊजिहिषिता-त्री
समूहन्-न्ती, ऊहयन्-न्ती, -- 4 समूहिष्यन्-न्ती-ती, ऊहयिष्यन्-न्ती-ती, -- ऊहमानः, समूहमानः, ऊहयमानः, ऊजिहिषमाणः
ऊहिष्यमाणः, ऊहयिष्यमाणः, ऊजिहिषिष्यमाणः
ऊट्-ऊहौ-ऊहः
-- -- ऊहितम्-तः, ऊहितः-तम्, ऊजिहिषितः-तवान्
ऊहः, ऊहः, ऊजिहिषुः, ऊजिहयिषुः
ऊहितव्यम्, ऊहयितव्यम्, ऊजिहिषितव्यम्
ऊहनीयम्, ऊहनीयम्, ऊजिहिषणीयम्
ईषदूहः, दुरूहः, सूहः
-- -- 5 ऊह्यम्, 6 समूह्योऽग्निः ऊह्यम्, ऊजिहिष्यम्
ऊह्यमानः, 7 निरुह्यमानः, समुह्यमानः, ऊह्यमानः, ऊजिहिष्यमाणः
ऊहः, 8 प्रौहः, ऊहः, ऊजिहिषः
ऊहितुम्, ऊहयितुम्, ऊजिहिषितुम्
ऊहा, ऊहना, ऊजिहिषा, ऊजिहयिषा
ऊहनम्, 9 प्रोहणम्, ऊहनम्, ऊजिहिषणम्
10 ऊहित्वा, ऊहयित्वा, ऊजिहिषित्वा
समुह्य, निरुह्य, समूह्य, समूजिहिष्य
ऊहम् २, ऊहित्वा २, ऊहम् २, ऊहयित्वा २, ऊजिहिषम् २
ऊजिहिषित्वा २।
01 (११६)
02 (१-भ्वादिः-६४८। सक। सेट्। आत्म।)
03 [[१। ‘कुहोश्चुः’ (७-४-६२) इति अभ्यासे हकारस्य चुत्वम्।]]
04 [[२। ‘उपसगादस्यत्यूह्योर्वावचनम्’ (वा। १-३-३०) इति परस्मैपदं विकल्पेन।]]
05 [[आ। ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः। गाढमैत्ररसगृह्यमाणधीर्भूषण- ग्लहनघुंषितो बलः।।’ धा। का। १-८२।]]
06 [[३। ‘अग्नौ परिचाय्योपचाय्यसमूह्याः’ (३-१-१३१) इति ण्यत्प्रत्ययान्तो निपातितः।]]
07 [[४। ‘उपसर्गाद्ध्नस्व ऊहतेः’ (७-४-२३) इति यादौ क्ङिति ह्रस्वः।]]
08 [[५। ‘प्रादूहोढ--’ (वा। ६-१-८९) इति वृद्धिः।]]
09 [[६। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।]]
10 [पृष्ठम्०११६+ २३]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
