ऊष्मन् (USman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishऊष्मन् [ūṣman],
Heat, warmth.
The hot season, summer.
Steam, vapour, exhalation.
Ardour, passion, violence.
(In ) The sounds श्, ष्, स् and ह्
applied also to ष्क्, ष्प्, अं and अः. -अन्त ending in an Ūṣman. -अन्तस्थाः (m. ) the sounds called Ūṣman and semivowels. -उपगमः approach of summer. -पः drinking the steam of hot food
* 12.284.8.
(पः) fire
गुणारणिच्छन्न- चिदुष्मपाय 8.3.16.
a class of manes (pl. ). 11.22
अत्रोष्मपाणां देवानां निवासः श्रुयते द्विज * 5.19. 2. ('ऊष्मपाणां उष्णान्नभोजिनाम्' इति भाष्यकारः.)
Apte 1890
Englishऊष्मन् m. 1 Heat, warmth.
2 The hot season, summer.
3 Steam, vapour, exhalation.
4 Ardour, passion, violence.
5 (In gram.) The sounds श्, ष्, स् and हृ
applied also to ष्क्, ष्प्, अं and अः.
Comp.
अंत ending in an Ūṣman.
अंतस्थाः (m. pl.) the sounds called Ūṣman and semivowels.
उपगमः approach of summer.
प a. drinking the steam of hot food. (
पः) {1} fire. {2} a class of Manes (pl.).
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMonier Williams 1872
Englishऊष्मन् ऊष्मन्, आ, m. (fr. rt. 1. उष्), heat,
steam, vapour, exhalation
ardour, passion, violence
the
hot season
(in gram.) the sounds श्, ष्, स्, ह्
ष्क्,
ष्प्, अं, अः, and more especially the first four of
these sounds.
—ऊष्म-प, अस्, आ, अम्, imbibing the
steam of hot food
(आस्), m. pl. a class of manes or
deceased ancestors
(अस्), m. fire.
—ऊष्म-पर, अस्,
आ, अम्, followed by an Ūṣman.
—ऊष्म-प्रकृति,
इस्, इस्, इ, produced from an Ūṣman.
—ऊष्म-वत्,
आन्, अती, अत्, hot, steaming.
—ऊष्मान्त (°म-अन्°),
अस्, आ, अम्, ending in an Ūṣman.
—ऊष्मान्तःस्थ
(°म-अन्°), आस्, m. pl. the sounds called Ūṣman and
the semivowels.
—ऊष्मोपगम (°म-उप्°), अस्, m.
the approach of the heat.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiऊष्मन्
- ऊष्+मनिन्
"ताप, गर्मी"
ऊष्मन्
- ऊष्+मनिन्
"ग्रीष्म ऋतु, निदाघ"
ऊष्मन्
- ऊष्+मनिन्
"भाप, वाष्प, उच्छ्वास"
ऊष्मन्
- ऊष्+मनिन्
"सरगरमी, जोश, प्रचण्डता"
ऊष्मन्
- ऊष्+मनिन्
"श्, ष्, स् और ह् की ध्वनियाँ"
Shabdartha Kaustubha
Kannadaऊष्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರೀಷ್ಮಋತು /ಬೇಸಿಗೆ ಕಾಲ
ऊष्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶಾಖ /ಬಿಸಿ /ಕಾವು
निष्पत्तिः - > ऊष (रुजायाम्) - "मनिन्" (३-२-७५)
प्रयोगाः - > "रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा"
उल्लेखाः - > नैष० २-९३
ऊष्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಾಷ್ಪ /ಆವಿ /ಹಬೆ
प्रयोगाः - > "तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम्"
उल्लेखाः - > कुमा० ५-२३
ऊष्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶ ಷ ಸ ಹ ವರ್ಣಗಳು /ಹಬೆಯೊಡನೆ ಕೂಡಿದ ಗಾಳಿಯಿಂದ ಉಚ್ಚರಿಸಲ್ಪಡುವ ವರ್ಣ
प्रयोगाः - > "स्पर्शास्तस्याभ्वज्जीव्ः स्वरो देह उदाहृतः । ऊष्माणमिन्द्रियाण्याहुः अन्तस्था बलमात्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥"
उल्लेखाः - > भाग० ३-१२-४६, ४७
विस्तारः - > शषसहा ऊष्माणः - सि० कौ०
L R Vaidya
EnglishAbhyankara Grammar
Englishऊष्मन् aspiration letters, spirants call- ed breathings also: the name is given to letters or sounds produced with unintonated breath through an open posision of the mouth
cf. विवृतमूष्मणाम् M. Bh, on P.I.1.10 Vārt, 3. The word refers to the letters श्, ष्, सु, ह्, visarga, jihvāmū- līya, upadhmāniya and anusvāra
cf. ऊष्मा वायुस्तत्प्रधाना वर्णा ऊष्माणः R. Pr. I.12
cf. also T. Pr. I.10.
वाचस्पत्यम्
Sanskritउ(ऊ)ष्मन् ऊष--आधारे मनिन् वा० वा ह्रस्वः । १ ग्रीष्म-र्त्तौ कर्त्तरि मनिन् । २ आतपे “नोपतापि मनः सोष्म”“उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तः” “अभीक्ष्णमुष्णैरपितस्य सोष्मणः” माघः । दीर्घादिः ३ शषसहवर्णेषु ।
ऊष्मन् ऊष--मनिन् । १ ग्रीष्मे २ तेजोद्रव्यस्य सूक्ष्मावयवे(भाप) “भुवा सहोष्माणममुञ्चदूर्द्ध्वगम्” कुमा० “यथाग्नेर्धूमउदयते एवमेषामूष्मोदयते” शत० ब्रा० १, ६, २, १, ५ ।व्यारणोक्तेषु सोष्मवायुनोच्चार्य्यमाणेषु शषसहरूपेषु वर्णेषु ।“स्वराणामूष्मणाञ्चैव विवृतं करणं मतम्” शिक्षा । “शष-सहा ऊष्माणः” सि० कौ० । “सर्वे स्वरा घोषवन्तोबलवन्तो वक्तव्याः इन्द्रे बलं ददानीति । सर्व्वऊ-ष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानंपरिददानीति” छा० उ० । “सर्व्व ऊष्माणोऽग्रस्ताअन्तरप्रवेशिता अनिरस्ता अबहिराक्षिप्ता विवृता वि-वृतप्रयत्नोच्चारिताः प्रजापतेरात्मानं परिददानि प्रय-च्छामि” शा० भा० । “अथ यद्येनमूष्मसूपालभेत प्रजापतेःशरणोऽभूवं स त्वा प्रतिपेक्ष्यतोत्येनं ब्रूयात्” छा० उ० ।“स्पर्शस्तस्याभवज्जीवः स्वरोदेह उदाहृतः । उष्माणमि-न्द्रियाण्याहुरन्तस्था बलमात्मनः । स्वराः सप्त विहारेणभवन्ति स्म प्रजापतेः” भाग० ३, १२, ३०, ऊष्माणं शषसहइति चतुष्टयम् अन्तः स्था यरलवाः सप्त स्वराः षड्जादयःविहारेण क्रीडया” श्रीधरः । “खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मशुक्राणिक्षितौशेषं यथोद्भवम्” भाग० ७, १२, २४, । अत्र तेज रूष्माणमिति स्वकारणे लयाभिधानात् तस्य तेज कार्य्यता गम्यते ।सुश्रुते च तस्य तेजः कार्य्यत्वदुक्तं तच्च उष्णशब्दे दर्शितम् ।देहस्योष्मां च ब्रह्माभिन्न कौक्षेयानलोपाधिकजीवसंयोगेनैव-भवति यथोक्तं छा० उ० भाष्ययोः । “अथ यदतः परोदिवो-ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्व्वतः पृष्ठेषु अनुत्तमेषूत्तमेषुलोकेष्विदः वाव तद्यदिद मस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषादृष्टिः विजानाति” उप० । “इदं वावेदमेव तद्यदिदमस्मिन्पुरुषेऽन्तर्मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येन लिङ्गेनोष्णि-म्रा शब्देन वावगम्यते । यत्त्वचा स्पर्शरूपेण गृह्यतेतच्चक्षुषैव । दृढप्रतीतिकरत्वात्त्वचोऽविनामूतत्वाच्च रूप-स्पर्शयोः । कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोच-रत्वमापद्यते? इत्याह यत्र यस्मिन् काले एतदिति क्रिया-विशेषणं अस्मिन् शरीरे हस्तेनालभ्य संस्पर्शेनोष्णिमानंरूपसहभाविनमुष्णस्पर्शभावं विजानाति स ह्युष्णिमानामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषोलिङ्गमव्यभिचारात् । न हि जीवन्तमात्मानमूष्णिमा व्यभि-चरति । “उष्ण एव जीविष्यन् शीतो मरिष्यन्निति” हि वि-ज्ञायते । मरणकाले च “तेजः परस्यां देवतायामिति”परेणाविभागत्वोपगमादतोऽसाधारणं लिङ्गमौष्ण्यमग्ने-रिव धूमः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनंदर्शनोपाय इत्यर्थः” ।एतद्वाक्यञ्च कौक्षेयानलोपाघिकजीवाभिन्नब्रह्मपरं तस्यैवज्योतिःशब्दाभिधेयत्वेन तत्सम्पर्कादेव देहस्यौष्ण्यसम्भवःतदेतत् शा० सू० भाष्ययोः समर्थितं यथा “ज्योतिश्चरणा-भिधानात्” शा० सू० “इदमामनन्ति अथ यदतः परोदिवोज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषुलोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” तत्रसंशयः किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधी-यते? किं वा पर आत्मेति? । अर्थान्तरविषयस्यापि शब्दस्यतल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् इह तल्लिङ्गमेवास्ति नास्ति वेतिविचार्यते किन्तावत् प्राप्तं आदित्यादिकमेव ज्योतिःश-ब्देन परिगृह्यते इति । कुत? प्रसिद्धेः तमो ज्योति-रिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ ।चक्षुर्वृत्तेर्निरोघकं शार्वरादिकन्तम उच्यते । तस्याएवानु-ग्राहकमादित्यादिकं ज्योतिः । तथा दीप्यते इतीयमपिश्रुतिरादित्यादिविषया प्रसिद्धा न हि रूपादिहीनं ब्र-ह्म दीप्यत इति मुख्यां श्रुतिमर्हति । किञ्च द्युमर्यादत्व-श्रुतेश्च । न हि चराचरवीजस्य ब्रह्मणः सर्बात्मकस्य द्यौर्म-र्य्यादा युक्ता कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्या-दा स्यात् “परोदिवो ज्योतिरिति” च ब्राह्मणम् ननु का-र्यस्यापि ज्योतिषः सर्व्वत्र गम्यमानत्वात् मर्यादावत्त्व-मसमञ्जसं अस्तु तर्ह्यत्रिवृत्कृतन्तेजः प्रथमजम् । नअत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेवप्रयोजनं यदुपास्यत्वमिति चेन्न प्रयोजनान्तरप्रयुक्तस्यैवा-दित्यादेरुपास्यत्वदर्शनात् । “तासां त्रिवृतं त्रिवृतमेकैकांकरवाणीति” चाविशेषश्रुतेः । नचात्रिवृत्कृतस्यापि ते-जसोद्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेवतेजो ज्योतिः शब्दम् । ननूक्तमर्वागपि दिवो गम्यतेऽग्न्या-दिकं ज्योतिरिति नैष दोषः सर्वत्रापि गम्यमानस्य ज्यो-तिपः परोदिव इत्युपासनार्थः प्रदेशविशेषपरिग्रहो नविरुध्यते न तु निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना-भागिनी । सर्व्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्वितिचाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् ।“इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” च कौ-क्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते सारूप्यनि-मित्ताश्चाध्यासा भवन्ति यथा “तस्य भूरिति शिरः एकं शिरएकमेतदक्षरमिति” कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वंतस्यैषा दृष्टिस्तस्यैषा श्रुतिरिति चौष्ण्यघोषविशिष्टत्वश्रव-णात् “तदेतद्दृष्टञ्च श्रुतञ्चेत्युपासीतेति” च श्रुतेः । “चक्षुष्यश्चश्रुतो भवतीति य एवं वेदेति” चाल्पफलश्रवणादब्रह्मत्वंमहते हि फलाय ब्रह्मोपासनमिष्यते । नचान्यदपि कि-ञ्चित् स्ववाक्ये प्राणाकाशवत् ज्योतिषोस्ति ब्रह्मलिङ्गम् ।न च पूर्वस्मिन्नपि वाक्ये व्रह्म निर्दिष्टमस्ति । “गायत्री वाइदं सर्वं भूतमिति” छन्दोनिर्देशात् । अथापि कथञ्चित्पूर्व्वस्मिन् वाक्ये व्रह्म निर्दिष्टं स्यात् एवमपि न तस्येहप्रत्यभिज्ञानमस्ति । तत्र हि त्रिपादस्यामृतं दिवीतिद्यौरधिकरणत्वेन श्रूयते । अत्र पुनः परोदिवो ज्योति-रिति द्यौर्मर्यादात्वेन । तस्मात् प्राकृतं ज्योतिरिह ग्रा-ह्यमित्येवं पाप्ते ब्रूमः । ज्योतिरिह ब्रह्मग्राह्यं कुतः?चरणाभिघानात् पादाभिधानादित्यर्थः । पूर्व्वस्मिन्ह वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टं “तावानस्य महिमाततोज्यायांश्च पुरुषः पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतंदिविं” इत्यनेन मन्त्रेण । तत्र यत् चतुषपदो ब्रह्मणःत्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धा-न्निर्दिष्टमिति प्रत्यभिज्ञायते तत् परित्यज्य प्राकृतं ज्योतिःकल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतायाम् । न के-वलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः परस्यामपि हि शा-ण्डिल्य विद्यायामनुवर्त्तिष्यते ब्रह्म । तस्मादिह ज्योति-रिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तं ज्योतिर्दीप्यते इतिचैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायन्दोषः प्रक-रणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात् “येनसूर्यस्तपति तेजसेद्धः” इति च मन्त्रवर्ण्णात् । यद्वा नायज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्त्तते । अन्य-त्रापि प्रयोगदर्दनात् “वाचैवायं ज्योतिषास्ते” मनोज्यो-तिर्जुषतामिति” च । तस्माद्यद्यत्कस्य चिदवभासकन्तत्तत्ज्योतिःशब्देनाभिवीयते । तथा सति ब्रह्मणोपि चैत-न्यस्वरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिशब्दः“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व्वमिदं विभाति” ।“तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इत्यादिश्रु-तिभ्यश्च । यदप्युक्तंद्युमर्यादत्वंसर्व्वगतस्य ब्रह्मणोनोपपद्यतेइति । अत्रोच्यते सर्व्वगतस्यापि ब्रह्मणौपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । ननूक्तं निःप्रदेशस्य ब्र-ह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति । नायंदोषः निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः । तथार्हि आदिव्ये चक्षुषिहृदय इति प्रदेशविशेषसम्बन्धीनि ब्रह्मण उपासनानि-श्रूयन्ते । एतेन “विश्वतः पृष्ठेष्वित्याघारबहुत्वमुपपादि-तम् । यदप्येतदुक्तं औष्ण्यघोषाभ्यामनुमिते कौक्षेयेकार्ये ज्योतिष्यध्यस्यमानत्वात् परमपि दिवः कार्य्यंज्योतिरेवेति । तदप्ययुक्तं परस्यापि ब्रह्मणोनामादिप्रतीकत्ववत् कौक्षेयज्योतिःप्रतीकत्वोपपत्तेः । “दृष्टञ्चश्रुतञ्चेत्युपासीतेति” तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वञ्च भ-विष्यति । यदप्यल्पफलश्रवणान्न ब्रह्मेति तदप्यनुपपन्नम् ।न हि इयते फलाय ब्रह्माश्रयणीयमियते नेति नियमेहेतुरस्ति । तत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मा-त्मत्वेनोपदिश्यते तत्रैवंरूपमेव फलं मोक्ष इत्यवगम्यतेयत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मो-पदिश्यते तत्र संसारगोचराण्येवोच्चावचानि फलानिदृश्यन्ते “अन्नादो वसुदानोविन्दते वसु य एवंवेद” इत्याद्या-सु श्रुतिषु । यद्यपि न स्ववाक्ये किञ्चित् ज्योतिषो ब्रह्म-लिङ्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं ग्रहीतव्यंभवति । तदुक्तं सूत्रकारेण ज्योतिश्चरणाभिधानादिति ।कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिःस्वविषयात् प्रच्याव्य शक्या व्यावर्त्तयितुम् । नैषदोषः । “यदतः परोदिवो ज्योतिरिति” प्रथमतरपठितेनयच्छब्देन सर्व्वनाम्नाद्युसम्बन्धात् प्रत्यभिज्ञायमाने पूर्व्व-वाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थात्ज्योतिःशब्दस्यापि तद्विषयत्वोपपत्तेः । तस्मादिहज्योतिरिति ब्रह्म प्रतिपत्तव्यम्” भा० । श्रुत्यन्तरे तुकौक्षेयाग्निसंबन्धात् देहस्यौष्ण्यमुक्तम् । तत्रापि कौक्षेयाग्नेरपि जीवस्थितिनियतत्वात् जीवाधीनत्वं कल्प्य-मित्याकरे प्रपञ्चः
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
