| YouTube Channel

ऊर्म्मिः (UrmmiH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्म्मिः,
स्त्री,
पुं,
(ऋच्छतीति गतौ “अर्त्तेरूच्च” ४४ इति उणादिसूत्रेण मिः अर्त्ते-रूरादेशश्च
) तरङ्गः (यथा, रघुः १२ ८५ ।“तमाधूतध्वजपटं व्योमगङ्गोर्म्मिवायुभिः”
)प्रकाशः वेगः भङ्गः वस्त्रसङ्कोचरेखा वे-दना पीडा इति मेदिनी
उत्कण्ठा इतिहेमचन्द्रः
“शोकमोहौ जरामृत्यू क्षुत्पिपासेषडूर्म्मयः” इति श्रीभागवतटीका
(बुभुक्षादयः षट्, यथा
--“बुभुक्षा पिपासा प्राणस्य मनसः स्मृतौ ।शोकमोहौ शरीरस्य जरामृत्यू षडूर्म्मयः”
(अश्वगतिभेदः तल्लक्षणं यथा वैजयन्त्याम् ।“पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः ।अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता”
तथा माघे ।“तूर्णं पयोधर इवोर्म्मिभिरापतन्तः”
)