| YouTube Channel

ऊर्द्ध्वस्रोतस् (Urddhvasrotas)

 
वाचस्पत्यम्
Sanskrit
ऊर्द्ध्वस्रोतस्
पु०
ऊर्द्ध्वम् ऊर्द्धगतं नाधोगामि स्रोतः रेतसःप्रवाहोऽस्य ऊर्द्धरेतसि योगिभेदे हि उत्पतनहेतु-सत्वाधिक्येन रेतः प्रवाहमूर्द्धमानयतीति तस्य तथात्वम्सत्वबाहुल्ये एव यथोर्द्धस्रोतस्त्वं तथा सां० कौ० उक्तम्यथा “केचित् खलु सत्वबहुलाः सत्त्वनिकाया यथो-र्द्धस्रोतस इति” ऊर्द्ध्वं स्रोत आहारसञ्चारोऽस्य२ वनस्पत्यादिषु “वनस्पत्योषधिलतात्वक्सारवीरुधोद्रुमाः ।उत्स्रोतसस्तमःप्रायाः अन्तःस्पर्शाविशेषिणः” भाग० १, ८, २०, तेषां तथात्वोक्तेः “ऊर्द्धं स्रोत आहारसञ्चारो-येषाम्” श्रीधरः मूले सिक्तजलादीनां मूलेनैवोर्द्धमाक-र्षणात् तेषामूर्द्धस्रोतस्त्वम्