| YouTube Channel

ऊर्द्ध्वरोमन् (Urddhvaroman)

 
वाचस्पत्यम्
Sanskrit
ऊर्द्ध्वरोमन्
पु०
ऊर्द्ध्वानि रोमाण्यस्य ऊर्द्ध्वमुखतया विकट-रोमिण् यमदूतादौ “स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृश-दारुणान् वक्रतुण्डानूर्द्धरोम्ण आत्मानं नेतुमागतान्”भा० ६, १, २६ कुशद्वीपसीमापर्व्वतभेदे कुशद्वीप-वर्णने “तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताः सप्तैव ।चक्रबभ्रुश्चतुःशृङ्गः कपिलश्चित्रकूटोदेवानीक ऊर्द्धरोमाद्रविणः” इति भाग० ५, २०, ११ ऊर्द्धमुखरोमयुक्ते
त्रि०
।३ रक्ताक्षमूर्द्धरोमाणं काकजङ्घाक्षिनासिकम्” भा० अनु०६८ अ० स्त्रियां वा डाप्