| YouTube Channel

ऊर्द्ध्वरेताः (UrddhvaretAH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्द्ध्वरेताः, [स्]
पुं,
(ऊर्द्ध्वं रेतो यस्य पतति वीय्यंयस्यत्यर्थः
) महादेवः इति त्रिकाण्डशेषः ।(अष्टोत्तरसहस्रनामान्तर्गतो महादेवस्य नाम-भेदः यथा महाभारते १३ १७ ४५ ।“ऊर्द्ध्वरेता ऊर्द्ध्वलिङ्ग ऊर्द्ध्वशायी नभस्थलः”
)भीष्मः (कृतसमावर्त्तनोऽपि भीष्मदेवः पितुःकाम्यविवाहार्थं वैवाहिकधर्म्मं त्यक्तवान् अतस्तस्यऊर्द्ध्वरेतस्त्वं जातम् एतद्विवरणन्तु महाभारते ।सत्यवतीलाभोपाख्याने १०० अध्याये द्रष्टव्यम्
)मुनिविशेषः तद्यथा सनक-सनन्द-सनातन-सनत्कुमारादयः (यथा, महाभारते ब्रह्म-सभावर्णने ११ ४९
“अष्टाशीतिसहस्राणि मुनीनामूर्द्धरेतसाम्”
त्रि, विषयासङ्गरहितः सन्न्यासी यथा भा-रते शकुन्तलोपाख्याने, --“ऊर्द्ध्वरेता महाभागो भगवान् लोकपूजितः ।चलेद्धि वृत्ताधर्म्मोऽपि चलेत् संशितवतः”
)