| YouTube Channel

ऊर्द्ध्वमुख (Urddhvamukha)

 
वाचस्पत्यम्
Sanskrit
ऊर्द्ध्वमुख
त्रि०
ऊर्द्धं मुखमस्य ऊर्द्धगतप्रथमप्रसरे “प्र-बोधयत्यूर्द्धमुखैर्मयूखैः” कुमा० ऊर्द्धस्थिताग्रभागे “अधो-मुखैरूर्द्धमुखैश्च पत्रिभिः” रघुः उन्नमितवदने चस्वाङ्गत्वात् स्त्रियां ङीप् ऊर्द्ध मुखस्य एक० त० ।४ मुखस्योर्द्धभागे
न०
“दन्तान्तोर्द्धमुखं सशेषदहनम्”तन्त्रसा० मातृकान्यासे मुखस्योर्द्धभागे विन्दोर्न्यस्य-त्वादभेदोपचारात् विन्दुवर्ण्णैह तदर्थः