| YouTube Channel

ऊर्द्ध्वमान (UrddhvamAna)

 
वाचस्पत्यम्
Sanskrit
ऊर्द्ध(र्द्ध्व)मान
न०
ऊर्द्ध्वमारोप्य मीयते येन मा--करणे ल्युट् ।पलकर्षादिमिते पाषाणादौ (वाटखारा) तेन हि तुलादा-वारोपितेन खर्णादेर्गुरुत्वमुन्मीयते भावे ल्युट् उच्च-तापरिच्छेदकपरिमाणे “ऊर्द्ध्वमानं किलोन्मानं परिमाणंतु सर्वतः आयामस्तु प्रमाणं स्यात् संख्या बाह्या तुसर्वतः” व्या० का० अयमर्थः तुलादावारोपितस्यस्वणादेर्गुरुत्वमितिःतुलापरकोटिदेशे आरोपाद्यदुन्मीयतेतदुन्मानम् प्रस्थादिना स्वगताभ्यामारोहपरिणाहाभ्यांव्रीह्यादेः सर्वतोमानात् परिमाणम् आयामोदैर्घ्यंवस्त्रादेर्जलादेश्च मितिर्हस्तदण्डादिना यत् मीयते तत्प्रमाणम् सर्व्वतः उक्तप्रकारमानत्रयाद्बाह्या बहिर्भूतासंख्या द्वित्वादिरित्यर्थः “प्रमाणे द्वयसज्दघ्नञ्मात्रचः”पा० विहितौ द्वयसज्दघ्नचौ प्रत्ययौ ऊर्द्धमानादेव“प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः