| YouTube Channel

ऊर्द्ध्वबुघ्न (Urddhvabughna)

 
वाचस्पत्यम्
Sanskrit
ऊर्द्ध्वबुघ्न
पु०
ऊर्द्ध्वं बुध्नं शिरोऽस्य ऊर्द्धशिरस्के चमसे“अर्वाग्विलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्व-रूपम् तस्यासतः सप्त धीराः वागष्टमी ब्रह्मणासंविदानेति” “अर्वाग्विलश्चमस ऊर्द्वबुध्न इति तच्छिरःएष ह्यर्वाग्बिलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्व-रूपमिति प्राणा वै यशोनिहितं विश्वरूपं प्राणानेतदाहतस्यासतः ऋषय सप्त धोरा इति प्राणा वा ऋषयः प्रा-णानेतदाह वृ० उ० “देहस्य चसमरूपेण रूपक-मिदम् अर्वाग्बिलश्चमस ऊर्द्धबुध्नः इद तच्छिरःचमसाकारं हि तत् कथम्? एष ह्यर्वाग्बिलः मुखस्यविलरूपत्वात्, शिरसोबुध्नाकारत्वात् ऊर्द्धबुध्नः तस्मिन्यशोनिहितं विश्वरूपमिति यथा सोमश्चमसे एवतस्मिन् शिरसि विश्वरूपं नानारूपं निहितं भवति, किं पुनस्तद्यशः? पाणा वै यशोविश्वरूपम् प्राणाःश्रोत्रादयः सप्त ऋषयः धीराः (श्रोत्रे द्वे नासिके द्वे नेत्रेद्वे रसना चैकेति सप्त) तेषां परिस्पन्दात्मकशब्दादि-ज्ञानहेतुत्वात्” ऋषिधातोर्गत्यर्थतया परिस्पन्दात्मकवृत्ति-मत्त्वम् ज्ञानहेतुत्वेन धीरत्वमिति बोध्यम्