| YouTube Channel

ऊर्द्ध्वपुण्ड्रः (UrddhvapuNDraH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्द्ध्वपुण्ड्रः,
पुं,
(ऊर्द्ध्वः पुण्ड्रः इव ।) तिलकविशेषः ।स तु ब्राह्मणललाटे पुण्ड्रेक्षुवत् चन्दनादिनाकृतोर्द्ध्वरेखात्रयः यथा “ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रंस्यात् त्रिपुण्ड्रे नोर्द्ध्वपुण्ड्रकमिति” ।“ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्याद्वारिमृद्भस्मचन्दनैः” ।इत्यादि बहवः
“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।तिलकं वै द्विजः कुर्य्याच्चन्दनेन यदृच्छया
ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् ।अर्द्ध्वचन्द्रन्तु वैश्यश्च वर्त्तुलं शूद्रयोनिजः”
इति आह्निकतत्त्वधृतब्रह्माण्डपुराणम्
(ऊर्द्ध्व-पुण्ड्रधारिप्रशंसा यथा, ब्रह्मपुराणे ।“अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।शुचिरेव भवेन्नित्यमूर्द्ध्वपुण्ड्राङ्कितो नरः
ऊर्द्ध्वपुण्ड्रधरो मर्त्त्यो म्रियते यत्र कुत्रचित् ।श्वपाकोटपि विमानस्थो मम लोके महीयते”
अस्य धारणे वैदिकद्विजभिन्न एवाधिकारी यदुक्तंदेवीभागवते नारायणेन
“ऊर्द्ध्वपुण्ड्रं त्रिशूलं वर्त्तुलं चतुरस्रकम् ।अर्द्ध्वचन्द्रादिकं लिङ्गं वेदनिष्ठो धारयेत्
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ।पुण्ड्रान्तरं भ्रमाद्वापि ललाटेनैव धारयेत्
ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वगमादिषुस्थितं पुण्ड्रान्तरं नैव धारयेत् वैदिको नरः”
श्राद्धे ऊर्द्ध्वपुण्ड्रादिविधिनिषेधव्यवस्था ।यथा, निर्णयसिन्धौ हेमाद्रिः ।“जपे होमे तथा दाने खाध्याये पितृकर्म्मणि ।तत्सर्व्वं नश्यति क्षिप्रमूर्द्ध्वपुण्ड्रं विना कृतम्”
तथा नारदः ।“यज्ञो दानं जपो होमः स्वाध्यायः पितृकर्म्म ।वृथा भवति विप्रेन्द्राः ! ऊर्द्ध्वपुण्ड्रं विना कृतम्”
इत्यादिवचनात् पैत्रे कर्म्मणि ऊर्द्धपुण्ड्रधारणंविहितम् केचित्तु ।“ऊर्द्ध्वपुण्ड्रो द्विजातीनामग्निहोत्रसमो विधिः ।शाद्धकाले संप्राप्ते कर्त्ता भोक्ता वर्जयेत्”
तथा, --“वामहस्ते ये दर्भा गृहे रङ्गबलिन्तथा ।ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः”
इति संग्रहोक्तवचनात् तथा, --“ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा ।श्राद्धकर्त्ता कुर्व्वीत यावत् पिण्डान्न निर्वपेत्” ।इति विश्वप्रकाशवचनाच्च श्राद्धकाले ऊर्द्ध्वपुण्ड्रा-दिकं धार्य्यमित्याहुः तन्न, यतः कुलाचारा-देव व्यवस्था यत्तु, --“ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माल्यं तथैव ।निराशाः पितरो यान्ति दृष्ट्वा वृषलीपतिम्”
इति हेमाद्रिधृतवचनम् तत् गन्धत्रिपुण्ड्रक-विषयम् अतः श्राद्धकाले गन्धत्रिपुण्ड्रकएव नधार्य्यः अन्यरूपस्तु धार्य्य एव तथा व्यासः ।“वर्जयेत्तिलकं भाले श्राद्धकाले सर्व्वदा ।ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा धारयेत्तु प्रयत्नतः”
)