| YouTube Channel

ऊर्द्ध्वपुण्ड्र (UrddhvapuNDra)

 
शब्दसागरः
English
ऊर्द्ध्वपुण्ड्र
m.
(-ण्ड्रः) A perpendicular line on the forehead made with
Sandal, &c. a Vaishnava mark.
E.
ऊर्द्ध्व above, पुण्ड्र a similar mark.
Yates
English
ऊर्द्ध्व-पुण्ड्र (ण्ड्रः) 1.
m.
A mark on the
forehead made with sandal.
Wilson
English
ऊर्द्ध्वपुण्ड्र
m.
(-ण्ड्रः) A perpendicular line on the forehead made
with Sandal, &c. a Vaiṣṇava mark.
E.
ऊर्द्ध्व above, पुण्ड्र a similar mark.
वाचस्पत्यम्
Sanskrit
ऊर्द्ध्वपुण्ड्र
पु०
ऊर्द्ध्व ऊर्द्ध्वमुखः पुण्ड्रः इक्षुयष्टिरिव लला-टस्थे ऊर्द्ध्वमुखे पुण्ड्रेक्षवत् रेखात्मके तिलकभेदे ।तद्धारणे विधिनिषेधादिकं निरूप्यते “ऊर्द्धपुण्ड्रंमृदा कृर्यात् त्रिपुण्ड्रं भस्मना सदा तिलकं वै द्विजःकुर्याच्चन्दनेन यद्दृच्छया” श्रा० त०
पु०
“ऊर्द्ध्वपुण्ड्रं द्विजःकुर्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् अर्द्धचन्द्रन्तु वैश्यश्च व-र्त्तुलं शुद्रयोनिजः” आ० त० ब्रह्मा०
पु०
“अशुचिर्वाप्यनाचारो मनसा पापमाचरन् शुचिरेव भवेन्नित्य-मूर्द्धपुण्ड्राङ्कितोनरः” ऊर्द्धपुण्ड्रधरो मर्त्योम्रियते यत्रकुत्रचित् श्वपाकोऽपि विमानस्थो मम लोके महीयते”इति ब्रह्मपु० तद्धारणे वैदिकद्विजातिरिक्तस्यैवाधिकारःयथोक्तं देवीभागवते श्रीनारायणेन “ऊर्द्धपुण्ड्रं त्रिशूलञ्चवर्त्तुलं चतुरस्रकम् अर्द्धचन्द्रादि वा लिङ्गं वेदनिष्ठो नधारयेत्! जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ।पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ख्याति-कान्त्यादिसिद्ध्यर्थमपि विष्ण्वावगमादिषु स्थितं पुण्ड्रा-न्तरं नैव घारयेद्वैदिकोजनः” नि० सि० सूतसं० “विष्ण्वा-गमादितन्त्रेषु दीक्षितानां विधीयते शङ्खचक्रगदापद्मैर-ङ्कनं नान्यदेहिनाम् वेदमार्गैकनिष्ठस्तु मोहेनाप्य-ङ्कितोयदि पतत्येव सन्देह स्तथा पुण्ड्रान्तरादपि ।शङ्खचक्राद्यङ्कनं गीतनृत्यादिकं तथा एकजातेरयंघर्म्मो नं जातु स्यात् द्विजन्मनः” “शङ्खचक्रमृदा यस्तुकुर्य्यात् तप्तायसेन वा शूद्रवद्बहिः कार्य्यः सर्व्वस्मा-द्द्विजचर्म्मणः” यथा श्मशानजं काष्ठमनर्हं सर्व्वकर्म्मसु ।द्विजस्तु तप्तशङ्खादिलिङ्गाङ्किततनुस्तथा संभाष्य कौरवंयाति यावदिन्द्राश्चतुर्दश” वृहन्ना० “शिवकेशवयोरङ्कान्शूलचक्रादिकान् द्विजः धारयेत मतिमान् वैदिकेवर्त्मनि स्थितः” ततश्च त्रिपुण्ड्रादिधारणविधायकवाक्यंवैदिकेतरद्विजविषयम् शूद्रविषयञ्च यदपि ब्राह्मणस्यतद्धारणविधानम् “अग्निहोत्रं यथा नित्यं वेदस्याध्ययनंयथा ब्राह्मणस्य तथेवेह तप्तमुद्रादिधारणम्” पद्मपु० ।“ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः शङ्ख-चक्राङ्किततनुस्तुलसीमञ्जरीधरः गोपीचन्दनलिप्ताङ्गोदृष्ट-श्चेत्तदघं कुतः” काशी० तदपि वैदिकेतवविप्रपरम्सर्वसामञ्जस्यात् एवं शस्त्रार्थेस्थितेऽपि कुलाचारात् तस्य-सर्वैः कर्त्तव्यता तथैव भारतटीकायां नीलकण्ठेननिर्ण्णीतम् यथा“श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् निम्रुचः शकृदेको अपाभरत् किं स्वित् पुत्रेभ्यःपितरावुपावतुः” श्रुतिः “अस्यार्थःहे ऋभवः! भवतां मध्वेएकः श्रोणां श्लक्ष्णां गां मृदं गोपीचन्द्रनादिरूपां तीर्थनिकटस्थां मुख्यकर्मभूतां प्रति उदकं जलं गौणकर्म अवा-जति अवगमयति अन्तर्भावितण्यर्थोऽजतिः श्रीणां गाम्उदकेन मिश्रयतीत्यर्थः श्रोणां गां रक्तचन्दनादिरूपां वातथा एकः सूनया हिंसया तत्कर्त्त्रा आभृतं आहृतंमांसं गोरोचनाख्यं पिंशति पिनष्टि उदकेन सह इति शेषःनिम्रुचः नितरामस्तं गच्छतो दग्धेन्धनस्याग्नेः सम्बन्धिशकृत् गोमयं शुष्कगोमयोत्थं भस्मेति यावत् अपाभरत्अपाहृतवान् अत्राप्युदकेन सहेति शेषः व्यवहिताश्चेति-छन्दसि व्यवहितेनाप्युपसर्गेण क्रियायाः सम्बन्ध हृग्रहोर्भश्छन्दसीति हस्यभ एतानि मन्त्रपदानि असंपूर्णार्थ-त्वात् स्वार्थलाभाय ब्राह्मणमपेक्षन्ते इषे त्वोर्जे त्वेत्यादि-मन्त्रवत् तत्र यथा “इषे त्वेति शाखां छिनत्ति ऊर्जे त्वे-त्यनुमार्ष्टीति” ब्राह्मणानुसारात् हे शाखे त्वा त्वाम् इषेअन्नाय छिनद्मीति ऊर्जे पशुभ्यः अनुमाज्र्मीति व्या-ख्यातम् एवमिहापि वासुदेवोपनिषद्ब्राह्मणतन्त्रपुरा-णोपवृंहणानुसारात् ऊर्द्धपुण्ड्रार्थं श्लक्ष्णां मृदं जलेनमिश्रयेदिति व्याख्येयं तथा कालाग्निरुद्रवृहज्जाबालाद्युप-निषद्ब्राह्मणतन्त्रपुराणोपवृंहणानुसारात् त्रिपुण्ड्रकर्त्तुःनिम्रुचः शकृदपाभरदिति व्याख्येयम् एवमितरस्यापिपदस्य ब्राह्मणमन्त्रलिङ्गाद्युपवृंहणे स्मृतिभ्यश्चाष्टकाप्रपाविधिवदनुमेयं तथाच श्रोणामिति पदस्य रक्तामिति व्या-ख्याने सौरशाक्तगाणेशानां रक्तमेव पार्थिवं द्रव्य पु-ण्ड्रार्थे तत्तत्तन्त्रे विधीयते वैष्णवानां पीतं शैवानां भ-स्मेति अनेन तत्तत्पुण्ड्रविशेषोपलक्षिततत्तद्देवताभजनेनापि देवताभावं प्राप्नुवन्तीति विघीयते केवलवैदि-कानां तु श्रोणां श्लक्ष्णामिति व्याख्यानेन त्रितयस्यापिसमुच्चयः “स्नात्वा पुण्ड्रं मृदा कुर्यात् धुत्वा चैब तु भस्म-ना देवान् विप्रान् समभ्यर्च्य चन्दनेन समाचरेदिति”स्मृतिभ्यः अत्र गोरोचनाग्रहणं चन्दनाद्यष्टगन्धोप-लक्षणार्थम् एतेषां विकल्पसमुच्चयपक्षाणां पितृपैताहपरंपराक्रमेण व्यवस्थामाह किं स्वित् पुत्रेभ्यः पितरावुपावतुरिति पुत्रहितार्थे यत्किञ्चिद्व्रतं पितरौ मातापितरौ पितृपितामहौ वा उपेत्य स्वीकृत्य अवतुः व्रतंसम्यक् परिपालयामासतुः तदेव तस्य श्रेयः साधनतित्यर्थः एवं सति तीर्थानि यज्ञादयस्तन्त्रमार्गेण सूर्य्या-द्यन्यतमोपास्तिः केवलवैदिकता चेति देवताभावप्राप्तिसा-धनानि” इत्यन्तेन ।श्राद्धकर्म्मणि तु त्रिपुण्ड्रादौ विधिनिषेधयोर्व्यवस्था नि०सि० उक्ता यथा ।“जपे होमे तथा दाने स्वाध्याये पितृकर्मणि तत्सर्वंनश्यति क्षिप्रमूर्द्ध्वपुण्ड्रबिनाकृतमिति” हेमाद्रावुक्तेः ।“यज्ञोदानं जपो होमः स्वाध्यायः पितृकर्म वृथाभवति विप्रेन्द्रा! ऊर्द्ध्वपुण्ड्रविनाकृतमिति” वृहन्नारदी-यात् “ऊर्द्ध्वञ्च तिलकं कुर्य्याद्दैवे पित्न्ये कर्मणीति”वृद्धपराशरोक्तेश्च ऊर्द्धपुण्ड्रधारणं पैत्रे विहितम् अन्ये तु“ऊर्द्ध्वपुण्ड्रोद्विजातीनामग्निहोत्रसमोविधिः श्राद्धकालेच संप्राप्ते कर्त्ता भोक्ता वर्जयेदिति” वामहस्ते ये दर्भागृहे रङ्गबलिन्तथा ललाटे तिलकं दृष्ट्वा निराशाः पितरोगताः” इति संग्रहोक्तेः “ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रंवा चन्द्रा-कारमथापि वा श्राद्धकर्त्ता कुर्वीत यावत् पिण्डान्ननिर्वपेत्” इति विश्वप्रकाशे वचनाच्च धार्य्यमित्याहुः ।अत्र कुलाचारादेव व्यवस्था अत एव वृहन्नारदोयेः “ऊर्द्ध्व-पुण्ड्रञ्च तुलसीं श्राद्धे नेच्छन्ति केचन” इत्यत्रृकेचनेत्युक्तम्ऊर्द्ध्वपुण्ड्रविधिः श्राद्धभोक्तृपरः, निषेधः कर्तृपरः इतिपृथ्वीचन्द्रः यत्तु हेमाद्रौ देवलः “ललाटे पुण्ड्रकंवृष्ट्वा स्कन्धे माल्यं तथैव निराशा पितरो यान्ति दृष्ट्वाच वृषलीपतिमिति” तद्गन्धत्रिपुण्ड्रविषयम् “प्राकिप-ण्डदानात् गन्धाद्यैर्नालङ्कुर्य्यात्स्वविग्रहम्” इत्याश्वलायनोक्तेःपुण्ड्रं वर्त्तुलमित्यपरार्के मदनरत्ने पृथ्वीचन्द्रस्तु“पुण्ड्रं त्रिपुण्ड्रम् ऊर्द्ध्वञ्च तिलकं कुर्य्यान्न कुर्य्याद्वैत्रिपुण्ड्रकम् निराशाः पितरो यान्ति दृष्ट्वा चैव त्रि-पुण्ड्रकमिति” वृद्धपराशरोक्तेः भोक्तुस्तिर्य्यग्लपो भव-त्येव “वर्जयेत्तिलकं भाले श्राद्धकाले सर्वदा ।ऊर्द्ध्वपुण्ड्रंत्रिपुण्ड्रं वा धारयेत्तु प्रयत्नतः” इति व्यासो-क्तेरित्याह” पृथ्वीचन्द्रोदये ब्राह्मे “सहदर्भेण हस्तेनयः कुर्य्यात्तिलकं बुधः आचम्य विशुध्येत दर्भ-त्यागेन चैव हि”