| YouTube Channel

ऊर्द्ध्वकः (UrddhvakaH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्द्ध्वकः,
पुं,
(उर्द्ध्वः सन् कायति शब्दायते इति ।ऊर्द्ध्व + कै + ।) मृदङ्गविशेषः यथा, --“ऊर्द्ध्वको गोपुच्छवत् त्रितालोऽष्टाङ्गुलो मुखे ।धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्ज्जनं नना”
इति भरतधृतशब्दार्णवः
अपिच “हरीतक्या-कृतिस्त्यङ्क्यस्तथालिङ्ग्यो यवाकृतिः ऊर्द्ध्वको दण्ड-तुल्यः स्यान्मुरजा भेदतो मताः”
अन्यटीका-यान्तु “यवमध्यस्तथोर्द्ध्वकः” इत्यमरटीका-सारसुन्दरी