| YouTube Channel

ऊर्द्ध्वः (UrddhvaH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्द्ध्वः,
पुं,
दण्डवत्स्थिंतः यथा, --“आसीन ऊर्द्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।तदासीनेन कर्त्तव्यं प्रह्वेन तिष्ठता”
इत्यादि छन्दोगपरिशिष्टात्
आसीनः उपविष्टः ।“ऊर्द्ध्वो दण्डवत् स्थितः प्रह्वोऽवनतपूर्व्वकायः” ।इति श्राद्धतत्त्वम्
ऊर्द्ध्वः, त्रि, (उत् + हा + आदिवर्गस्य ऊरा-देशः ।) उच्छ्रितः तुङ्गः उपरिष्टात् इतिमेदिनी
ऊर्द्ध्वशब्दो दीर्घादिः सवकारो निर्व्व-कारश्च तथाच उपरि ध्वन्यते इति कृतनिरुक्ति-रुर्द्ध्वशब्दो वकारवानिति सुभूत्यादयः
“कुर्व्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्द्ध्वजैः ।तस्या चलालीवान्वेति चित्रानागचमूर्द्ध्वजैः”
इति कीचकबधयमकम्
(यथा, कुमारे १६ ।)“पद्मानि यस्याग्रसरोरुहाणिप्रवोधयत्यूर्द्ध्वमुखैर्मयूखैः” ।ऊर्द्ध्वं शब्दो मकारान्तोऽव्ययो दीर्घादिर्वकारवान्तथा अदन्तोऽनव्ययोऽपीति जयादित्यादयः