| YouTube Channel

ऊर्ण्णु (UrNNu)

 
वाचस्पत्यम्
Sanskrit
ऊर्ण्णु आच्छादने अदा०
उभ०
सक०
सेट् ऊर्ण्णौति ऊर्ण्णोतिऊर्ण्णुतः ऊर्णुवन्ति ऊर्णुते ऊर्ण्णुयात् ऊर्णुवीत ऊर्ण्णोतुऊर्ण्णौतु ऊर्णुहि ऊर्ण्णुताम् और्ण्णौत् और्ण्णोत् औ-र्णुत और्ण्णवीत् और्ण्णावीत् और्ण्णुवीत् और्ण(र्णा)(र्णु)विष्ट उर्ण्णुनाव उर्ण्णुनुवतुः उर्ण्णुनुविरे ऊर्ण्णु(र्ण)विता ऊर्णूयात् ऊर्ण्णु(र्णु)विषीष्ट ऊर्ण(र्ण्णु)विष्यति तेऔर्ण्णु(र्ण)विष्यत् ऊर्ण्णुवन् ऊर्ण्णुवानः ऊर्ण्णुतः “सद्यामौर्ण्णोदन्तरिक्षम्” अथ० ७, १, २, “उर्णुनाव दिशः शस्त्रैः”“दृष्ट्वोर्ण्णवानान् ककुभो बलौघान्” भट्टिः “ऊर्ण्णना-भिर्यथोर्णुते” भा० २, ९, २७, सनि ऊर्ण्णुनूषति तेऊर्ण्णुनुविषति ते ऊर्ण्णुनविषति ते ।अप + अपसृतावरणे “अपीवृता अपोर्ण्णुवन्तो अस्थुः” ऋ० ११९०, ६, “अपोर्ण्णुवन्तः अपगतनिरसनवन्तः” भा० ।अभि + आभिमुख्येन आच्छादने “अभ्यूर्ण्णोति यन्नग्नं भिष-क्ति” ऋ० ८, ७९, २, आ--समगाच्छादने “इन्द्रं सोमैरोर्ण्णुत जूर्ण्णवस्त्रैः” ऋ० २, १४, ३प्र--प्रच्छादने प्रौर्ण्णुवन् शरवर्षेण तानपौहीन्निशाचरः” ।“प्रोर्णुवन्तं दिशोवाणैः” भट्टिः ।वि--विगतापवरणे प्रकाशने “सवितर्व्यूर्णुषेऽनुचीना” ऋ०४, ५४, २, “व्यूर्णुसे प्रकाशयसि” भा०