| YouTube Channel

ऊर्ण्णम्रदस् (UrNNamradas)

 
वाचस्पत्यम्
Sanskrit
ऊर्ण्णम्रदस्
त्रि०
ऊर्ण्णमिव ऊर्ण्णानिर्म्मितवस्त्रमिव म्रदीयःअतिशयेन मृदु वेदे म्रदीयस् + नि० ईयसोरीयोलोपः ।ऊर्णतुल्यातिमृदौ “ऊर्ण्णम्रदा युवतिर्दक्षिणावतः” ऋ०१०, १८, १०, “ऊर्ण्णम्रदसं त्वा स्तृणामि” यजु०२, २, “ऊर्गस्या-ङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि ४, १० अत्र मृदुत्वे-नोर्ण्णाया उपमानतोक्तेः काश्मीरदेशजस्य (पशम) प्रसि-द्धस्य आविकलोमम्र एव ऊर्ण्णत्वं तस्यैवातिमृदुत्वात्