| YouTube Channel

ऊर्ण्णनाभ (UrNNanAbha)

 
वाचस्पत्यम्
Sanskrit
उ(ऊ)र्ण्णनाभ
पु०
उर्णेव सूत्रं नाभौ गर्भेऽस्य अच् समा०ह्रस्वः लूतायाम् (माकङसा) दीर्घादिरयमिति केचित्
ऊर्ण्णनाभ
पु०
उर्ण्णनाभवत् (माकडशा) लूतायाम् “यस्तूर्ण-नाभ इव तन्तुभिः प्रधानजैः” छा० उ० गोत्रप्रवर्त्तके२ ऋषिभेदे ततः अपत्ये शिवा० अण् और्णनाभ तदपत्येपुंस्त्री स्त्रियां ङीप् तस्य परिशीलितोदेशः राजन्या०वुञ् और्णनाभक तच्छीलितदेशे समासान्तंविधेरनित्य-त्वात् क्वचित् अच् “नाचारेण विना सृष्टिरूर्णना-भेरपीष्यते निःसाधनः कर्त्ता कश्चित् सृजतिकिञ्चन” शब्दा० धृतवाक्यम् “यथोर्णनाभिः सृजते गृह्णतेच यथा पृथिव्यामोषधयः सम्भवन्ति” मुण्डकोप०