| YouTube Channel

ऊर्ण्ण (UrNNa)

 
वाचस्पत्यम्
Sanskrit
ऊर्ण्ण
न०
ऊर्णा अस्त्यस्य कारणत्वेन अर्श० अच् मेषलोमर-चितवस्त्रादौ “ऊर्ण्णञ्च राङ्कवं चैव कीटजं पट्टजंतथा कुटीकृतं तथैवात्र कमलानां सहस्रशः ।श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” भा० स०५० अ० मेषलोम्नि स्त्री “माङ्गल्योर्णावलयिनि पुरःपावकस्योच्छिखस्य” रघुः “कार्पासकीटजोर्णानां द्विश-फैकशफस्य च” मनुः ललाटस्थचिह्नभेदे उर्ण्णाशब्देउदा० चक्रवर्त्तित्वसूचकः भ्रूद्वयमध्यगतमृणालतन्तुसूक्ष्मांशुनिभः प्रशस्तायतः नरलक्षणशब्देवक्ष्यते